चतुर्थांशे चतुर्विंशोध्यायः
श्रीपराशर उवाच
योऽयं रिपुञ्जयो नाम बार्हद्रथोऽन्त्यः तस्यामात्यो मुनिको नाम भविष्यति ॥ १ ॥
स चैनं स्वामिनं हत्वा स्वपुत्रं प्रद्योतनामानमभिषेक्ष्यति ॥ २ ॥
तस्यापि बलाकनामा पुत्रो भविता ॥ ३ ॥
ततश्च विशाखयूपः ॥ ४ ॥
तत्पुत्रो जनकः ॥ ५ ॥
तस्य च नन्दिवर्धनः ॥ ६ ॥
ततो नन्दी ॥ ७ ॥
इत्येतेऽष्टित्रिंशदुत्तरमष्टशतं पञ्च प्रद्योताः पृथिवीं भोक्ष्यन्ति ॥ ८ ॥
ततश्च शिशुनाभः ॥ ९ ॥
तत्पुत्रः काकवर्णो भविता ॥ १० ॥
तस्य च पुत्रः क्षेमधर्मा ॥ ११ ॥
तस्यापि क्षतौजाः ॥ १२ ॥
तत्पुत्रो विधिसारः ॥ १३ ॥
ततश्चाजातशत्रुः ॥ १४ ॥
तस्मादर्भकः ॥ १५ ॥
तस्माच्चोदयनः ॥ १६ ॥
तस्मादपिनन्दिवर्धनः ॥ १७ ॥
ततो महानन्दी ॥ १८ ॥
इत्येते शैशुनाभा भूपालास्त्रीणि वर्षशतानि द्विषष्ट्यधिकानि भविष्यन्ति ॥ १९ ॥
महानन्दिनस्ततः शूद्रगर्भोद्भवोऽतिलुब्धोऽतिबलो महापद्मनामा नन्दः परशुराम इवारपोऽखिलक्षत्रान्तकरी भविष्यति ॥ २० ॥
ततः प्रभृति शुद्रा भूपाला भविष्यन्ति ॥ २१ ॥
स चैकच्छत्रामनुल्लङ्घितशासनो महापद्मः पृथिवीं भोक्ष्यते ॥ २२ ॥
तस्याप्यष्टौ सुताःसुमाल्याद्य भवितारः ॥ २३ ॥
तस्य महापद्मस्यानु पृथिवीं भोक्ष्यन्ति ॥ २४ ॥
महापद्मपुत्राश्चकं वर्षशतमवनीपतयो भविष्यन्ति ॥ २५ ॥
॥ १-२५ ॥
ततश्च नव चैतान्नन्दान् कौटिल्यो ब्राह्मणःसमुद्धरिष्यति ॥ २६ ॥
तेषामभावे मौर्व्याः पृथिवीं भोक्ष्यन्ति ॥ २७ ॥
ततश्चति ॥ कौटिल्यः वात्स्यायनविष्णुमित्रगुप्तादिपर्यायश्चाणक्यः । समुद्ररिष्यति-उन्मूलयिष्यति ॥ २६,२७ ॥
कौटिल्य एव चन्द्रगुप्तमुत्पन्नं राज्येऽभिषेक्ष्यति ॥ २८ ॥
तस्यापि पुत्रो बिन्दुसारो भविष्यति ॥ २९ ॥
तस्याप्यशोकवर्धनस्ततःसुयशास्ततश्च दशरथस्ततश्च संयुतस्ततः शलिशूकस्तस्मात्सोमशर्मा तस्यापि सोमशर्मणः शतधन्वा ॥ ३० ॥
तस्यानुबृहद्रथनामा भविता ॥ ३१ ॥
एवमेते मौर्या दश भूप तयो भविष्यन्ति अब्दशतं सप्तत्रिंशदुत्तरम् ॥ ३२ ॥
तेषामन्ते पृथिवीं दश शुङ्गा भोक्ष्यन्ति ॥ ३३ ॥
पुष्यमित्रःसेनापतिःस्वामिनं हत्वा राज्यं करिष्यति तस्यात्मजोऽग्निमित्रः ॥ ३४ ॥
तस्मात्सुज्योष्ठस्ततो वसुमित्रस्तस्मादप्युदङ्कस्ततः पुलिन्दकस्ततो घोषवसुस्तस्मादपि बज्रमित्रस्ततो भागवतः ॥ ३५ ॥
तस्माद्देवभूतिः ॥ ३६ ॥
इत्येते शुङ्गा द्वादशोत्तरं वर्षशतं पृथिवीं भोक्ष्यन्ति ॥ ३७ ॥
ततः कण्वानेषाभूर्यास्यति ॥ ३८ ॥
देवभूतिं तु शुङ्गराजानं व्यसनिनं तस्यैवामात्यः कण्वो वसुदेवनामा तं निहत्य स्वयमवनीं भोक्ष्यति ॥ ३९ ॥
तस्य पुत्रो भूमित्रस्तस्यापि नारायणः ॥ ४० ॥
नारायणात्मजःसुशर्मा ॥ ४१ ॥
एते काण्वायनाश्चत्वारः पञ्चचत्वारिंशद्वर्षाणि भूपतयो भविष्यन्ति ॥ ४२ ॥
सुशर्माणं तु काण्वं तद्भूत्यो बलिपुच्छकनामा हत्वान्द्रजातीयो वसुधां भोक्ष्यति ॥ ४३ ॥
ततश्च कृष्णनामा तद्भ्राता पृथिवीपतिर्भविष्यति ॥ ४४ ॥
तस्यापि पुत्रः शान्तकर्णिस्तस्यापि पूर्णोत्संगस्तत्पुत्रः शतकर्णिस्तस्माच्च लम्बोदरस्तस्माच्च पिलकस्ततो मेघस्वातिस्ततः पटुमान् ॥ ४५ ॥
ततश्चारिष्टकर्मा ततो हालाहलः ॥ ४६ ॥
हालाहलात्पललकस्ततः पुलिन्दसेनस्ततः सुंदरस्ततःसातकर्णिस्ततः शिवस्वातिस्ततश्च गोमतिपुत्रस्तत्पुत्रोऽलिमान् ॥ ४७ ॥
तस्यापि शान्तकर्णिस्ततः शिविश्रितस्तश्च शिवस्कन्धस्तस्मादपि यज्ञश्रीस्ततो द्वियज्ञस्तस्माच्चन्द्रश्रीः ॥ ४८ ॥
तस्मात्पुलोमापिः ॥ ४९ ॥
कौटिल्य इति ॥ चंद्रगुप्तं-नन्दस्यैत्र शूद्रायां मुरायां जातं मौर्याणां प्रथमम् ॥ २८-४९ ॥
एवमेवे त्रिंशच्चत्वार्यब्दशतानि षट्पञ्चाशदधिकानि पृथिवीं भोक्ष्यन्ति ॥ ५० ॥
आन्ध्रभृत्यास्तप्ताभीरप्रभृतयो दशगर्दभिनश्च भूभुजो भविष्यन्ति ॥ ५१ ॥
ततःषोडश भूपतयो भवितारः ॥ ५२ ॥
एवमिति ॥ एवमेते त्रिंशत्, आन्ध्रा इति शेषः ॥ ५०–५२ ॥
ततश्चाष्टौ यवनाश्चतुर्दश तुरुष्का मुण्डाश्च त्रयोदश एकादश मौना एते वै पृथुवीपतयः पृथिवीदशर्षशतानि नवत्यधिकानि भोक्ष्यन्ति ॥ ५३ ॥
ततश्च मौना एकादश भूपतयोऽब्दशतानि त्रीणि पृथिवीं भोभ्यन्ति ॥ ५४ ॥
ततश्चेति ॥ एते आभीराधा अष्टषष्टिर्नृपाः पृथिवी नवत्यधिकानि त्रयोदशवर्षशतानि भोक्ष्यन्ति ॥ ५३ ५४ ॥
तेषूत्सन्नेषु कैंकिला यवना भूपतयो भविष्यन्त्यमूर्धाभिषिक्ताः ॥ ५५ ॥
तेष्विति ॥ भूपतयः – अमूर्द्धाभिषिक्ताः ॥ ५५ ॥
तेषामपत्यं विन्ध्यशक्तिस्ततः पुंरजयस्तस्माद्रामचन्द्रस्तस्मार्मवर्मा ततो वङ्गस्ततोभून्नन्दनस्ततःसुनन्दी तद्भ्राता नन्दीयशाः शुक्रः प्रवीर एते वर्षशतं षड्वर्षाणि भूपतयो विष्यन्ति ॥ ५६ ॥
ततस्तत्पुत्रास्त्रयोदशैते बाह्लिकाश्च त्रयः ॥ ५७ ॥
ततः पुष्पमित्राः पटुमित्रास्त्रयोदशैकलाश्च सप्तान्ध्राः ॥ ५८ ॥
तेषामिति ॥ तेषां वंश्यो विंध्यशक्तिः ॥ ५६-५८ ॥
ततश्च कोसलायां तु नव चैव भूपतयो भविष्यन्ति ॥ ५९ ॥
नैषधास्तु त एव ॥ ६० ॥
ततश्चेति ॥ कोसलायाम्-अयोध्यायाम् ॥ ५९, ६० ॥
मगधायां तु विश्वस्फटिक संज्ञोऽन्यान्वर्णान्करिष्यति ॥ ६१ ॥
कैवर्तबटुपुलिन्दब्राह्मणान्राज्ये स्थापयिष्यति ॥ ६२ ॥
उत्साद्याखिलक्षत्रजातिं नव नागाः पद्मवत्यां नाम पुर्यामनुगङ्गाप्रयागं गयाद्गुप्तांश्च मागधा भोक्ष्यन्ति ॥ ६३ ॥
कोशलान्ध्रपुण्ड्रताम्रलिप्तसमतटपुरीं च देवरक्षितो रक्षिता ॥ ६४ ॥
कलिङ्गमाहिषमहेन्द्रभौमान् गुहा भोक्ष्यन्ति ॥ ६५ ॥
नैषधनैमिषककालकोशकाञ्जनपदान्मणिधान्यकवंशा भोक्ष्यन्ति ॥ ६६ ॥
त्रैराज्यमुषिकजनपदान्कनकाह्वयो भोक्ष्यति ॥ ६७ ॥
सौराष्ट्रावन्त्यशुद्राभीरान्नर्मदामरुभूविषयांश्च व्रात्यद्विजाभीरशूद्राद्या भोक्ष्यन्ति ॥ ६८ ॥
मागधायामिति ॥ मागधायां पुर्यां विश्वस्फाटिकः क्षत्रमुन्मूल्य कैवर्तादीन् राज्ये स्थापयिष्यति ॥ ६१-६८ ॥
सिंधुतटदाविकोर्वीचन्द्र भागाकाश्मीरविषयांश्च व्रात्यम्लेच्छशूद्रादयो भोक्ष्यन्ति ॥ ६९ ॥
एते च तुल्यकालाःसर्वे पृथिव्यां भूभुजो भविष्यन्ति ॥ ७० ॥
सिध्विति ॥ दाविको देविकातटभवो देशः ॥ ६९, ७० ॥
अल्पप्रसादा बृहत्कोपाःसार्वकाल मनृताधर्मरुचयः स्त्रीबालगोवधकर्तारः परस्वादानरुचयोऽल्पसारास्तमिस्त्रप्राया उदितास्तमितप्राया अल्पायुषो महेच्छा ह्यल्पधर्मा लुब्धाश्च भविष्यन्ति ॥ ७१ ॥
अल्पप्रसादा इति ॥ उदितास्तमितप्रायाः क्षणिककल्पाः ॥ ७१ ॥
तैश्च विमिश्रा नजपदास्तच्छीलानुवर्तिनो राजाश्रयशुष्मिणो म्लेच्छाचाराश्च विपर्ययेण वर्तमानाः प्रजाः क्षपयिष्यन्ति ॥ ७२ ॥
तैश्चेति ॥ राजाश्रयशुष्मिणः – राजाश्रयेणैव शुष्मिणः –बलिनः, न तु धर्मेण ॥ ७२ ॥
ततश्चानुदिनमल्पाल्पह्रासव्यवच्छेदाद्धर्मार्थयोर्जगतःसंक्षयो भविष्यति ॥ ७३ ॥
ततश्चार्थ एवाभिजनहेतुः ॥ ७४ ॥
बलमेवाशेषधर्महेतुः ॥ ७५ ॥
अभिरुचिरेव दांपत्यसंबन्धहेतुः ॥ ७६ ॥
स्त्रीत्वमेवोपभोगहेतुः ॥ ७७ ॥
अनृतमेव व्यवहारजयहेतुः ॥ ७८ ॥
तैश्चेति ॥ अल्पाल्पेत्यादि । धर्मार्थयोरल्पाल्पह्वासरूपेण क्षयाज्जगतो युगपन्नाशः ॥ ७३-७८ ॥
उन्नतांबुतैव पृथिवीहेतु ॥ ७९ ॥
ब्रह्मसूत्रमेव विप्रत्वहेतुः ॥ ८० ॥
रत्नधातुतैव श्लाघ्यताहेतुः ॥ ८१ ॥
लिङ्गधाराणमेवाश्रमहेतुः ॥ ८२ ॥
अन्याय एव वृत्तिहेतुः ॥ ८३ ॥
दौर्बल्यमेवावृत्तिहेतुः ॥ ८४ ॥
अभयप्रगल्भोच्चारणमेव पाण्डित्यहेतुः ॥ ८५ ॥
अनाढ्यतैव साधुत्वहेतुः ॥ ८६ ॥
स्त्रानमेव प्रसाधनहेतुः ॥ ८७ ॥
उन्नतांबुतेति ॥ उन्नतांबुता-उन्नतस्थले सुलभसुभगजलवत्वं, पृथ्वीहेतुः पृथ्वीस्वीकारे हेतुः न तु
पुण्यभूमित्वम् । उन्नताम्म्रतेतिपाठे प्रभूतचूतादिद्रुमवत्वम् ॥ ७९-८७ ॥
दानमेव धर्महेतुः ॥ ८८ ॥
स्वीकरणमेव विवाहहेतुः ॥ ८९ ॥
सद्वेषधार्येव पात्रम् ॥ ९० ॥
दूरायतननोदकमेव तीर्थहेतुः ॥ ९१ ॥
कपटवेषधारणमेव महत्त्वहेतुः ॥ ९२ ॥
इत्येवमनेकदोषोत्तरे तु भूमण्डले सर्ववर्णेष्वेव योयो बलवान्स स भूपतिर्भविष्यति ॥ ९३ ॥
एवं चातिलुब्धकराजासहाः शोलानामन्तरद्रोणीः प्रजाःसंश्रयिष्यन्ति ॥ ९४ ॥
मधुशाकमूलफलपत्रपुष्पाद्याहाराश्च भविष्यन्ति ॥ ९५ ॥
तरुवल्कलपर्णचीरप्रावरणाश्चातिबहुप्रजाः शीतवातातपवर्षसहाश्च भविष्यन्ति ॥ ९६ ॥
न च कश्चित्त्रयोविंशतिवर्षाणि जीविष्यति । अनवरतं चात्र कलियुगे भयमायात्यखिल एवैष जनः ॥ ९७ ॥
दानमेवेति ॥ दानमेव धर्महेतुः, न तु यागादिः ॥ ८८-९७ ॥
श्रौतस्मार्ते च धर्मे विप्लवमत्यन्तमुपगते क्षीणप्राये च कलावशेषजगत्स्त्रष्टुश्चराचरगुरोरादिमध्यान्तरहितस्य ब्रह्ममयस्यात्मरूपिणो भगवतो वासुदेवस्यांशः शंबलग्रामप्रधानब्राह्मणस्य विष्णुयशसो गहेऽष्टगुणर्धिसमन्वितः कल्किरूपी जगत्यत्रावतीर्य सकलम्लेच्छदस्युदुष्टाचरणचेतसामशेषाणामपरिच्छिन्नशक्तिमाहात्म्यः क्षयं करिष्यति, स्वधर्मेषु चा खिलमेव संस्थापयिष्यति ॥ ९८ ॥
अनन्तरं चाशेषकलेरवसाने निशावसाने विबुद्धानामिव तेषामेव जनपदानाममलस्फटिकदलशुद्धा मतयो भविष्यन्ति ॥ ९९ ॥
तेषां च बीजभूतानामशेषमनुष्याणां परिणतानामपि तत्कालकृतापत्यप्रसूतिर्भविष्यति ॥ १०० ॥
तानि च तदपत्यानि कृतयुगानुसारीण्येव भविष्यन्ति ॥ १०१ ॥
श्रौतस्मार्ते चेति ॥ अष्टगुणाः – अणिमाद्याः । अणिमा लघिमा प्राप्तिः प्राकाम्येशित्ववश्यताः । अत्रकामाबसायित्वं महिमेति गुणाष्टकम् ॥ ९८-१०१ ॥
अत्रोच्यते-
यथा चन्द्रश्च सूर्यश्च तथा तिष्ये बृहस्पतिः ।
एकराशौ समेष्यन्ति तदा भवति वै कृतम् ॥ १०२ ॥
यदा चन्द्रश्चेति ॥ चन्द्रादिग्रहणं सर्वग्रहोपलक्षणार्थम् । चतुर्युगान्ते सर्वेचा प्रहाणां मीनान्तस्थितेः ।
सर्वग्रहयोगे हि युगम् । यद्वा एषां ग्रहाणां चतुर्णामेव योगे कृतं तदर्थ खलु ग्रहबाहुल्यमित्यर्थः, चन्द्रार्कजीवज्ञ
सिताः कुजार्की च यथाक्रमम् । सत्वं रजस्तमोपि इति गोचारोक्तेः । तथा तिष्ये बृहस्पतिरिति पाठेऽप्यमिवार्थः । प्रतिद्वादशान्दं गुरो कर्कटस्थे कर्कटकमासे अमावास्यायां बहुवारं योगस्यास्य संभवात्, तथाऽप्येक राशौ समेष्यन्तीति सहप्रवेशोक्तेर्नातिप्रसङ्गदोषः ॥ १०२ ॥
अतीता वर्तमानाश्च तथैवानागताश्च ये ।
एते वंशेषु भूपालाः कथिता मुनिसत्तम ॥ १०३ ॥
राजवंशं निगमयति अतीता इति ॥ १०३ ॥
यावत्परीक्षितो जन्म यावन्नन्दाभिषेचनम् ।
एतद्वर्षसहस्रं तु ज्ञेयं पञ्चाशदुत्तरम् ॥ १०४ ॥
यावदिति ॥ पंचशतोत्तरं वर्षसहस्रम् । पाठान्तरे परीक्षि समकालं मागधं सोममारम्य रिपुंजयान्त
मागधानां सहस्राब्दत्वस्योक्तत्वात् अनन्तरं प्रयोतशिशुनागानां पंचशताब्दत्वस्योक्तत्वात् सार्द्धसाहस्रस्योक्तस्य
व्याख्यातं वायूक्तेऽपि परीक्षिन्नन्दान्तरं सार्धसहस्रमेवेत्युक्तम् । अत एव प्रयास्यन्ति यदेत्यादिश्लोकस्यायमर्थः
नन्दात्प्रभूत्येव प्रसरति कलौ काले, यदैते पूर्वाषाढां प्रयास्यन्ति तदा कलेः-अधर्मस्य वृद्धिः पूर्वोक्तकृतशब्दस्य धर्मपरत्ववत् लक्षणया नन्दान्तं क्षत्रियकुलमिति वचनात् इहापि शूद्राद्याधिपत्योक्तेश्च । अतः पापस्यैत्र वृद्धिः न तु नियतमानस्य कलेः । अतः कलौ नन्दोत्तरकालीनेषु पूर्वापदापर्यायेषु स्थिता महर्षयः पापवृद्धये जगत इति नक्षत्रऋषिचारफलोक्तिरेषा, न तु कालावच्छेदोक्तिः ॥ १०४ ॥
सप्तर्षीणां तु यौ पूर्वौ दृश्येते ह्युदितौ दिवि ।
तयोस्तु मध्ये नक्षत्रं दृश्यते यत्समं निशि ॥ १०५ ॥
तेन सप्तर्षयो युक्तास्तिष्ठन्त्यब्दशतं नृणाम् ।
ते तु पारीक्षिते काले मघास्वासन्द्विजोत्तम ॥ १०६ ॥
तदा प्रवृत्तश्च कलिर्द्वादशाब्दशतात्मकः ॥ १०७ ॥
यदैव भगवान्विष्णोरंशो यातो दिवं द्विज ।
वसुदेवकुलोद्भूतस्तदैवात्रागतः कलिः ॥ १०८ ॥
यावत्सपादपद्माभ्यां पस्पर्शेमां वसुंधराम् ।
तावत्पुथ्वीपरिष्वङ्गे समर्थो नाभवत्कलिः ॥ १०९ ॥
गते सनातनस्यांशे विष्णोस्तत्र भुवो दिवम् ।
तत्याज सानुजो राज्यं धर्म पुत्रो युधिष्ठिरः ॥ ११० ॥
विपरीतानि दृष्ट्वा च निमित्तानि हि पाण्डवः ।
याते कृष्णे चकाराथ सोऽभिषेकं परीक्षितः ॥ १११ ॥
प्रयास्यन्ति यदा चैते पूर्वाषाढां महर्षयः ।
तदा नन्दात्प्रभृत्येष गतिवृद्धिं गमिष्यति ॥ ११२ ॥
सप्तर्षाणां त्विति ॥ शकटाकारतारासप्तकं मुनिमण्डलं प्रागग्रे तत्र मण्डले ईषास्थानीयः प्राच्यां मरीचिः, ततः पश्चान्नन्नस्रयुगंधराकारो वसिष्ठः सभार्यः, ततः पश्चादीषदुन्नत ईषामूच्स्थनीयोऽङ्गिराः, तदासन
पश्चिमचतुष्कस्य ऐशान्ये अत्रिः, अत्रेर्याम्यः पुलस्त्यः, पुलस्त्यात्पथिमः पुलस्त्य, तदुदीच्यचतुष्कवायव्ये क्रतुः,
वसिष्ठाद्याम्या सूक्ष्मतारा अरुंधती तत्र मण्डले; उक्तं च पूर्वभागे मरीचिर्भगवान् अपरभागे स्थितो बसिष्ठोऽस्मा-
त्परतोऽङ्गिराः ततोऽत्रिस्तस्यासन्नः पुलस्त्यः पुलहः ऋतुर्भागवानासन्नानुक्रमेण पूर्वाधास्तारा वसिष्ठमुनिवरमुपाश्रिता अरुंधती साध्वी स्थितेति । एवं स्थिते यौ पूर्वौ-उदये प्रथमं दृश्यौ पुलस्त्यक संज्ञौ मुनी शकटस्य पाश्चात्यौ तथाऽपि पूर्वमुदितो दृश्येते, मध्ये-गगनमध्ये, तयोः – ताभ्यां सम-समदक्षिणोत्तररेखायां, यदश्चिन्याद्यन्यतमं नक्षत्रमार्जवेनावतिष्ठते, तेन-नक्षत्रेण ते युक्ताः शताब्दं तिष्ठन्ति । तेशं प्रत्यक्षं शताब्दस्थित्युक्तिः कलिगताब्दज्ञानोद्देशार्था ॥ १०५-११२ ॥
यस्मिन् कृष्णो दिवं यातस्तस्मिन्नेव तदाऽहनि ।
प्रतिपन्नं कलियुगं तस्य संख्यां निबोध मे ॥ ११३ ॥
यस्मिन् कृष्ण इति ॥ यस्मिन् श्रीकृष्णः दिवं जगाम, तस्मिन्नहति-तत्क्षण एव कलियुगं प्रतिपन्नम् ॥११३॥
त्रीणि लक्षाणि वर्षाणां द्विज मानुष्यसंख्यया ।
षष्टिश्चैव सहस्राणि भविष्यत्येष वै कलिः ॥ ११४ ॥
शतानि तानि दिव्यानां सप्त पञ्च च संख्यया ।
निःशेषेण गते तस्मिन्भविष्यति पुनः कृतम् ॥ ११५ ॥
ब्राह्मणाः क्षित्त्रिया वैश्याः शुद्राश्च द्विजसत्तम ।
युगेयुगे महात्मानः समतीताःसहस्रशः ॥ ११६ ॥
भगवद्ध्यानकालत्वेन कलेः प्रस्तावात् तत्संख्या प्रथमांशोकाऽपीहानूयते त्रीणि लक्षाणीति ॥ अत्र
पादिविवर्जिता कलिसंख्योका परीक्षिकाले कलिसन्ध्यादित्वात् । शतानि तानीत्यत्र तु दिव्यद्वादशान्दशतमिति
पादिसहिता संख्योक्ता ॥ ११४-११६ ॥
बहुत्वान्नामधेयानां परिसंख्या कुलेकुले ।
पौनरुक्त्याद्धि साम्याच्च न मया परिकीर्तिता ॥ ११७ ॥
देवापिः पोरवो राजा पुरुश्चेक्ष्वाकुवंशजः ।
महायोगबलोपेतौ कलापग्रामसंश्रितौ ॥ ११८ ॥
कृते युगे त्विहागम्य क्षत्रप्रावर्तकौ हि तौ ।
भविष्यतो मनोर्वशबीजभूतौ व्यवस्थितौ ॥ ११९ ॥
बहुत्वादिति ॥ प्रतिकुलं नाम्नामानन्त्यपौनरुत्तक्ताभ्यां परिसंख्या – परितः संख्या नोक्ता ॥
११७-११९ ॥
एतेन क्रमयोगेन मनुपुत्रौर्वसुंधरा ।
कृतत्रेताद्वापराणि युगानि त्रीणि भुज्यते ॥ १२० ॥
कलौ ते बीजभूतास्तु केचित्तिष्ठन्ति वै मुने ।
यथैव देवापिपुरू सांप्रतं समधिष्ठितौ ॥ १२१ ॥
एष तूद्देशतो वंशस्तवोक्तो भूभुजां मया ।
निखिलो गदितुं शक्यो नैष वर्षशतैरपि ॥ १२२ ॥
एते चान्ये च भूपाला यैरत्र क्षितिमण्डले ।
कृतं ममत्वं मोहान्धैर्नित्यं हेयकलेवरे ॥ १२३ ॥
कथं ममेयमचला मत्पुत्रस्य कथं मही ।
मद्वंशस्येति चिन्तार्ता जग्मुरन्तमिमे नृपाः ॥ १२४ ॥
तेभ्यः पूर्वतराश्चान्ये तेभ्यस्तेभ्यस्तथा परे ।
भविष्याश्चैव यास्यन्ति तेषामन्ये च येऽप्यनु ॥ १२५ ॥
विलोक्यात्मजयोद्योगं यात्राव्यग्रान्नराधिपान् ।
पुष्पप्रहासैः शरदि हसंतीव वसुंधरा ॥ १२६ ॥
मैत्रेय पृथिवीगीताञ्छ्लोकांश्चात्र निबोध मे ।
यानाह धर्मध्वजिने नजकायासितो मुनिः ॥ १२७ ॥
पृथिव्युवाच
कथमेष नरेद्राणां मोहो बुद्धिमतामपि ।
येन केन सधर्माणोप्यतिविश्वस्तचेतसः ॥ १२८ ॥
पूर्वमात्मजयं कृत्वा जेतुमिच्छन्ति मन्त्रिणः ।
ततो भृत्यांश्च पौरांश्च जिगीषन्ते तथा रिपून् ॥ १२९ ॥
क्रमेणानेन जेष्यामो वयं पृथ्वीं ससागराम् ।
इत्यासक्तधियो मृत्युं न पश्यन्त्यविद्वरगम् ॥ १३० ॥
एतेनेति ॥ कृतत्रेताद्वापराणि इति युगत्रयं मुक्तिवचनं कलेरल्पक्षत्रवत् ॥ १२०-१३० ॥
समुद्रावरणं याति भूमण्डलमथो वशम् ।
कियदात्मजयस्यैतन्मुक्तिरात्मजयेफलम् ॥ १३१ ॥
राज्यमुक्त्योरिन्द्रियजयसाध्यत्वे किं मुक्तिं हित्वा अल्पेन राज्येनेत्याह-समुद्रेति ॥ १३१
उत्सृज्य पूर्वजा याता यां नादाय गतः पिता ।
तां मामतीव मूढत्वाज्जेतुमिच्छन्ति पार्थिवाः ॥ १३२ ॥
मत्कृते पितृ पुत्राणां भ्रातॄणां चापि विग्रहः ।
जायतेऽत्यन्तमोहेन ममत्वादृतचेतसाम् ॥ १३३ ॥
उत्सृज्येति ॥ यां भुवम् उत्सृज्य-नादायैव, पितामहाद्या याताः पिता च गतः ॥ १३२,१३३ ॥
पृथ्वी ममेयं सकला ममैषा मदन्वयस्यापि च शाश्वतीयम् ।
योयो मृतो ह्यत्र बभूव राजा कुबुद्धिरा सीदितितस्यतस्य ॥ १३४ ॥
पृथ्वीति ॥ पृथ्वी ममेयमिति भिन्नवक्तृवाक्यभङ्ग्यः । तत्र भूरेषा ममेत्येकः । इयं ममेव्यन्यः। अपरो
ममेयं शाश्वतीति वदन्नेव योयो राजा मृतो लोकान्तरे जातः, तस्य तस्यापि इह प्राङ्मरणादियं भूर्ममेति बुद्धि रासीत् । मृतेऽन्यत्रेति पाठे, अन्यत्र-प्राचीने राज्ञि मृते अथान्यो यो बभूव राजा तस्याप्येवं दुर्बुद्धिरासीत् ॥ १३४ ॥
दृष्ट्वा ममत्वादृतचित्तमेकं विहाय मां मृत्युवशं व्रजन्तम् ।
तस्यानु यस्तस्य कथं ममत्वं हृद्यास्पदं मत्प्रभवं करोति ॥ १३५ ॥
दृष्वेत्यादि ॥ तस्यानु यः परः मां त्यक्त्वा मृतं दृट्टा यस्ततः परो नृपस्स्यात् तस्य हृदि मत्प्रभवं-
भूविषयं ममत्वं कथमास्पदं करोति ॥ १३५ ॥
पृथ्वी ममैषाऽशु परित्यजैनां वदन्ति ये दूतमुखैः स्वशत्रून् ।
नराधिपास्तेषु ममातिहासः पुनश्च मूढेषु दयाऽभ्युपैति ॥ १३६ ॥
श्रीपराशर उवाच
इत्येते धरणीगीतः श्लोका मैत्रेय यैःश्रुताः ।
ममत्वं विलयं याति तपत्यर्के यथा हिमम् ॥ १३७ ॥
इत्येष कथितः सम्यङ्मनोर्वशो मया तव ।
यत्र स्थितिप्रवृत्तस्य विष्णोरंशांशका नृपाः ॥ १३८ ॥
शृणोति य इमं भक्त्या मनोर्वशमनुक्रमात् ।
तस्य पापमशेषं वै प्रणश्यत्यमलात्मनः ॥ १३९ ॥
धनधान्यर्धिमतुलां प्राप्नोत्यव्याहतेन्द्रियः ।
श्रुत्वैवमखिलं वंशं प्रशस्तं शशीसूर्ययोः ॥ १४० ॥
पृथ्वीति । इत्येवं ममत्वकारिषु ममातिहासो भवति, दया चाभ्युपैति; मामिति शेषः । दयामुपैमीति
वा पाठः ॥ १३६-१४० ॥
इक्ष्वाकुजह्नुमान्धातृसगराविक्षितान्रघून् ।
ययातिनहुषाद्यांश्च ज्ञात्वा निष्ठामुपागतान् ॥ १४१ ॥
महाबलान्महावीर्याननन्तधनसंचयान् ।
कृतान्कालेन बलिना कथाशेषान्नराधिपान् ॥ १४२ ॥
श्रुत्वा न पुत्रदारादौ गृहक्षेत्रादिके तथा ।
द्रव्यादौ वा कृतप्रज्ञो ममत्वं कुरुते नरः ॥ १४३ ॥
तप्तं तपो यैः पुरुषप्रवीरैरुद्वाहुभिर्वर्षगणाननेकान् ।
इष्ट्वा सुयज्ञैर्बलिनोऽतिवीर्याः कृता नु कालेन कथावशेषाः ॥ १४४ ॥
पृथुःसमस्तान्विचचार लोकानव्याहतो यो विजितारिचक्रः ।
स कालवाताभिहतः प्रणष्टः क्षिप्तं यथा शाल्मलितूलमग्नौ ॥ १४५ ॥
इक्ष्वाकिति ॥ निष्ठाम-नाशम् ॥ १४१–१४५ ॥
यः कार्तवीर्यो बुभुजे समस्तान्द्वीपान्समाक्रम्यहतारिचक्रः ।
कथाप्रसंगेष्वभिधीयमानःस एव संकल्पविकल्पहेतुः ॥ १४६ ॥
य इति ॥ संकल्पविकल्पहेतुः – संकल्पस्य-मनसः विकल्पः-संशयः, तस्य हेतुः, किमेवंविधः
कश्चिदासीन्न वेति संशयस्य निमित्तम् ॥ १४६ ॥
दशाननाविक्षतराघवाणामैश्वर्यमुद्भासितदिङ्मुखानाम् ।
भस्मापि शिष्टं न कथं क्षणेन भ्रूभङ्गपातेन धिगन्तकस्य ॥ १४७ ॥
दशाननेति ॥ भस्मापि कथं न जातं कथं न तिष्ठति । यद्वा तेषामैश्वर्य निश्शेषदग्धत्वात् मस्मास्थमपि न जातम् । इदं कथमित्याश्चर्ये ॥ १४७ ॥
कथाशरीरत्वमवाप यद्वै मान्धातृनामा भुवि चक्रवर्ती ।
श्रुत्वापि तत्कोहि करोति साधुर्ममत्वमान्मन्यपि मन्दचेताः ॥ १४८ ॥
भगीरथाद्याःसगरं ककुत्स्थो दशननो राघवलक्ष्मणौ च ।
युधिष्ठिराद्याश्च बभूवुरेते सत्यं न मिथ्या क्व नु ते न विद्मः ॥ १४९ ॥
कथाशरीरत्वमिति ॥ आत्मनि–अहंत्वाश्रये देहेऽपि, किमुत ममत्वास्पदे पुत्रकलत्रक्षेत्रादौ ॥
१४८-१४९ ॥
ये सांप्रतं ये च नृपा भविष्याः प्रोक्ता मया विप्रवरोग्रवीर्याः ।
एते तथान्ये च तथाभिधेयाः सर्वे भविष्यन्ति यथैव पूर्वे ॥ १५० ॥
पूर्वे अघिपा इव वर्त्तमाना भविष्याश्च नष्टा भविष्यन्ति इत्यभिवेयाः ॥ १५० ॥
एत द्विदित्वा न नरेण कार्यं ममत्वमात्मन्यपि पण्डितेन ।
तिष्ठन्तु तावत्तनयात्मजायाः क्षेत्रादयो ये च शरीरिणोऽन्ये ॥ १५१ ॥
उक्तमये संक्षिपन्नाह एतद्विदित्वेति ॥ १५१ ॥
इति श्रीविष्णुमाहपुराणे चतुर्थांशे चतुर्विंशोध्यायः २४
श्रीविष्णुमाहपुराणे चतुथांशः समाप्तः
इति श्रीविष्णुमहापुराणे विष्णुचित्त्यात्मप्रकाशाख्य श्रीधरीयव्याख्याद्वयोपेते चतुर्थोशः समाप्तः ।