१९

चतुर्थांश एकोनविंशोऽध्यायः

श्रीपराशर उवाच

पूरोर्जनमेजयस्तस्यापि प्रचिन्वान् प्रचिन्वतः प्रवीरः प्रवीरान्मनस्युर्मनस्योश्चाभयदः तस्यापि सुद्युःसुद्योर्बहुगतः तस्यापि संयातिःसंयातेरहंयातिः ततो रौद्राश्वः ॥ १ ॥

ऋतेषुकक्षेषुस्थण्डिलेषुकृतेषुजलेषुधर्मेधृतेषुस्थलेषुसन्नतेषुवनेषुनामानो रौद्राश्वस्य दश पुत्रा बभूवुः ॥ २ ॥

ऋतेषोरन्तिनारः पुत्रोऽभूत् ॥ ३ ॥

सुमतिमप्रतिरथं ध्रुवं चाप्यन्तिनारः पुत्रानवाप ॥ ४ ॥

अप्रतिरषस्य कण्वः पुत्रोऽभूत् ॥ ५ ॥

तस्यापि मेधातिथिः ॥ ६ ॥

यतः कण्वायना द्विजा बभूवुः ॥ ७ ॥

अप्रतिरथस्यापरः पुत्रोऽभूदैलीनः ॥ ८ ॥

ऐलीनस्य दुष्यन्ताद्याश्चत्वारः पुत्रा बभूवुः ॥ ९ ॥

दुष्यन्ताच्चक्रवर्ती भरतोऽभूत् ॥ १० ॥

यन्नामहेतुर्देवैः श्लेको गीयते ॥ ११ ॥

॥ १-११ ॥

माता भस्त्रा पितुः पुत्रो येन जातः स एव सः ।
भरस्व पुत्रं दुष्यन्त मावमंस्थाः शकुन्तलाम् ॥ १२ ॥

मातेत्यादि ॥ भस्त्रा – चर्मधृतिः, तत्स्थानीया माता । धृतौ निक्षिप्तं द्रव्यं न धृतेः,किंतु निक्षेप्तुरेव । एवं जनपितुरेव पुत्रः, न मातुः । स एष सः – तद्बीजोपादानरूपत्वादेहस्य । अतः स्वपुत्रं

भरेति भरतनामनिरुक्तिः ॥ १२ ॥

रेतोधाः पुत्रं नयति नरदेव यमक्षयात् ।
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥ १३ ॥

भरतस्य पत्नित्रये नव पुत्रा बभूवुः ॥ १४ ॥

नैते ममानुरूपा इत्यभिहितास्तन्मातरः परित्यागभयात् तत्पुत्राञ्जघ्नुः ॥ १५ ॥

रेतोधा इति ॥ पुरा बीजक्षेत्रिणोः पुत्रविषये विवादे यमसभायां पुत्रं, रेतोधाः गर्भस्याधातैव,मयति स्म खीचके, न तु क्षेत्री । अस्म च गर्भस्य त्वमाधाता; अतस्तवायं पुत्र इति सत्यमाह शकुन्तला ॥ १३-१५ ॥

ततोस्य वितथे पुत्रजन्मनि पुत्रार्थिनो मरुत्सोमयाजिनो दीर्घतमसः पार्ष्ण्यपास्तबृहस्पतिवीर्यादुतथ्यपत्न्यां ममतायां समुत्पन्नो भरद्वाजाख्यः पुत्रो मरुद्भिर्दत्तः ॥ १६ ॥

तस्यापि नामनिर्वचनश्लोकः पठ्यते ॥ १७ ॥

मूढे भर द्वाजमिमं भरद्वाजं बृहस्पते । यातौ यदुक्त्वा पितरौ भरद्वाजस्ततस्त्वयम् ॥ इति ॥ १७ ॥

भरद्वाजःस तस्य वितथे पुत्रजन्मनि मरुद्भिर्दत्तः ततो वितथसंज्ञामवाप ॥ १९ ॥

वितथस्यापि मन्युः पुत्रोऽभवत् ॥ २० ॥

बृहत्क्षत्रमहावीर्यनगरगर्गा अभवन्मन्युपुत्राः ॥ २१ ॥

नगरस्य संकृतिःसंकृतेर्गुरुप्रीतिरन्तिदेवौ ॥ २२ ॥

गर्गाच्छिनिः ततश्च गार्ग्याः शैन्याः क्षत्रोपेता द्विजातयो बभूवः ॥ २३ ॥

महावीर्याच्च दुरुक्षयो नाम पुत्रोऽभवत् ॥ २४ ॥

तस्य त्रय्यारुणिः पुष्करिणः कपिश्च पुत्रत्रयमभूत् ॥ २५ ॥

तच्च पुत्रत्रितयमपि पश्चाद्विप्रतामुपजगाम् ॥ २६ ॥

बृहत्क्षत्रस्य सुहोत्रः ॥ २७ ॥

तत इति ॥ दीर्घतमस इति । बृहस्पतेरप्रजस्योतथ्यस्य पत्न्याः ममतारूपाया गर्ने उतथ्यनिषिक्ते दीर्घतमस्संज्ञे मुनौ तिष्ठत्येव बृहस्पतिश्च कामाभिभूतश्चौर्येण स्ववीर्यं न्यभिश्चत् । तद्गर्भस्येमौतथ्येम स्वपादपश्चात् भागेन मातुर्योनेर्निष्कासितं भुवि पतितम् । ततः स तु गर्भस्थ ओतथ्यो बृहस्पतिनाऽन्धो भवेति शप्तो दीर्घतमा

ने तु भुवि पतितबृहस्पतिर्वीयजं बालं वीक्ष्य तौ पितरौ ममताबृहस्पती द्वाभ्यामावाभ्यां जनितत्वात्-

जमिमं स्वंभर-श्रिभृहीत्यन्योन्यमुक्त्वा तं पुत्रं त्यक्त्वा यद्गतौ, अतो भरद्वाजारूपः सः ॥ १६–२७ ॥

सुहोत्रद्धस्ती, य इदं हस्तिनपुरमावासयामास ॥ २८ ॥

अजमीढद्विजमीढपुरुमीढास्त्रयो हस्तिनस्तनयाः ॥ २९ ॥

अजमीढात्कण्वः ॥ ३० ॥

कण्वान्मेधातिथिः ॥ ३१ ॥

यतः कण्वायना द्विजाः ॥ ३२ ॥

अजमीढस्यान्यः पुत्रो बृहदिषुः ॥ ३३ ॥

बृहदिषोर्बृहद्धनुर्बृहद्धनुषश्च बृहत्कर्मा ततश्च जयद्रथस्तस्मादपि विश्वजित् ॥ ३४ ॥

ततश्च सेनजित् ॥ ३५ ॥

रुचिराश्वकाश्यदृढहनुवत्सनुसंज्ञाःसेनजितः पुत्राः ॥ ३६ ॥

रुचिराश्वपुत्रः पृथुसेनः पृथुसेनात्पारः ॥ ३७ ॥

पारान्नीलः ॥ ३८ ॥

तस्यैकशतं पुत्राणाम् ॥ ३९ ॥

तेषां प्रधानः कांपिल्याधिपतिःसमरः ॥ ४० ॥

समरस्यापि पारसुपारसदश्वास्त्रयः पुत्राः ॥ ४१ ॥

सुपारात्पृथुः पृथोःसुकृतेर्विभ्राजः ॥ ४२ ॥

तस्माच्चाणुहः ॥ ४३ ॥

सुद्दोत्रादिति ॥ य इदं इस्तिनपुरम्, य इदं धर्मक्षेत्रम्, योऽयं सांप्रतमिति च निर्देशलिङ्गैः

रीक्षिद्राव्यकाले हस्तिनपुरासन्नकुरुक्षेत्रे तेनेदं पुराणमुक्तमिति गम्यते ॥ २८-४३ ॥

यः शुकदुहितरङ्कीर्ति नामोपयेमे ॥ ४४ ॥

अणुहाद्ब्रह्यदत्तः ॥ ४५ ॥

ततश्च विष्वक्सेनस्तस्मादुदक्सेनः ॥ ४६ ॥

भल्लाभस्तस्य चात्मजः ॥ ४७ ॥

द्विजमीढस्य तु यवीनरसंज्ञः पुत्रः ॥ ४८ ॥

तस्यापि धृतिमांस्तस्माच्च सत्यधृतिस्ततश्च दृढनेमिस्तस्माच्च सुपार्श्वस्ततःसुमतिस्ततश्च सन्नतिमान् ॥ ४९ ॥

सन्नतिमतः कृतः पुत्रोऽभूत् ॥ ५० ॥

यं हिरण्यनाभो योगमध्यापयामास ॥ ५१ ॥

य इति ॥ शुकदुहितरं व्यासपुत्रदुहितरम् । यथा हरिवंशे वायव्ये च पराशरकुलोतत्पन्नः शुको

राम महायशाः । न्यासादरण्यां संभूतो विधूमोऽग्निरिव ज्वलन् ॥ स तस्यां पितृकन्यायां पीवर्यं जनयिष्यति ।
ष्णं गौरं प्रभुं शम्भुं तथा भूरिश्रुतं जयम् ॥ कन्यां कीर्तिमती षष्ठी योगिनीं योगमातरम् ॥ ब्रह्मदत्तस्य जननी

ऋषीमहस्य च ॥ इति ॥ ४४-५१ ॥

यश्चतुर्विंशति प्राच्यसामागानां संहिताश्चकार ॥ ५२ ॥

कृताच्चोग्रायुधः ॥ ५३ ॥

येन प्राचुर्येण नीपक्षयः कृतः ॥ ५४ ॥

उग्रायुघात्क्षेम्यः क्षेम्यात्सुधीरस्तस्माद्रिपुञ्जयः तस्माच्च बहुरथ इत्येते पौरवाः ॥ ५५ ॥

अजमीढस्य नलिनी नाम पत्नी तस्यां नीलसंज्ञः पुत्रोऽभवत् ॥ ५६ ॥

तस्मादपि शान्तिः शान्तेःसुशान्तिःसुशान्तेः पुरञ्जयः तस्माच्च ऋक्षः ॥ ५७ ॥

ततश्च हर्यश्वः ॥ ५८ ॥

तस्मान्मुद्गलसृंजयबृहदिषुयवीनरकांपिल्यसंज्ञाः पञ्चानामैव तेषां विषयाणां रक्षणायालमेते मत्पुत्रा इति पित्राभिहिताः पाञ्चालाः ॥ ५९ ॥

मुद्गलाच्च मौद्गल्याः क्षत्रोपेता द्विजातयो बभूवुः ॥ ६० ॥

मुद्गलाद्धर्यश्वः ॥ ६१ ॥

हर्यश्वाद्दिवोदासोऽहल्या च मिथुनमभूत् ॥ ६२ ॥

य इति ॥ प्राध्यसामगानां चतुर्विंशतिसंहिताः यश्चकार ॥ ५२-६२ ॥

शरद्वतश्चाहल्यायां शतानन्दोऽभवत् ॥ ६३ ॥

शतानन्दात्सत्यधृतिर्धनुर्वेदान्तगो जज्ञे ॥ ६४ ॥

सत्यधृतेर्वराप्सरसमुर्वशीं दृष्ट्वा रेतस्कन्नं शरस्तंबे पपात ॥ ६५ ॥

तच्च द्विधागतमपत्यद्वयं कुमारः कन्या चाभवत् ॥ ६६ ॥

तौ च मृगयामुपयातः शन्तनुर्दृष्ट्वा कृपया जग्राह ॥ ६७ ॥

ततः कुमारः कृपःकन्या चाश्वत्थाम्नो जननी कृपी द्रोणाचार्यस्य पत्न्यभवत् ॥ ६८ ॥

दिवोदासस्य पुत्रो मित्रायुः ॥ ६९ ॥

मित्रायोश्च्यवनो नाम राजा ॥ ७० ॥

च्यवनात्सुदासः सुदासात्सौदासः सौदासात्सहदेवस्तस्यापि सोमकः ॥ ७१ ॥

सोमकाज्जन्तुः पुत्रशतज्येष्ठोऽभवत् ॥ ७२ ॥

तेषां यवीयान् पृषतः पृषताद्द्रुपदस्तस्माच्च धृष्टद्युम्नस्ततोधृष्टकेतुः ॥ ७३ ॥

जमीढस्यान्यो ऋक्षनामा पुत्रोऽभवत् ॥ ७४ ॥

तस्य संवरणः ॥ ७५ ॥

संवरणात्कुरुः ॥ ७६ ॥

य इदं धर्मक्षेत्रं कुरुक्षेत्रं चकार ॥ ७७ ॥

सुधनुर्जह्नुपरीक्षित्प्रमुखाः कुरोः पुत्राः बभूवुः ॥ ७८ ॥

सुधनुषः पुत्रःसुहोत्रस्तस्माच्च्यवनः च्यवनात्कृतकः ॥ ७९ ॥

ततश्चोपरिचरो वसुः ॥ ८० ॥

बृहद्रथप्रत्यग्रकुशांबकुचेलमात्स्यप्रमुखाः वसोः पुत्राःसप्ताजायन्त ॥ ८१ ॥

वृहद्रथात्कुशाग्रः कुशाग्राद्वृषभः वृषभात्पुष्पवान् तस्मात्सत्यहितः तस्मात्सुधन्वा तस्य च जतुः ॥ ८२ ॥

शरद्वत इति ॥ शरद्वान् — गौतमः, तस्मात् ॥ ६३-८२ ॥

बृंहद्रथाच्चान्यः शकलद्वयजन्मा जरया संधितो जरासंधनामा ॥ ८३ ॥

तस्मात्सहदेवःसहदेवात्सोमपस्ततश्च श्रुतिश्रवाः ॥ ८४ ॥

इत्येते मया मागधा भूपालाः कथिताः ॥ ८५ ॥

बृहद्रथादिति । जरया-राक्षस्या ॥ ८३-८५ ॥

इति श्रीविष्णुमहापुराणे चतुर्थांश एकोनविंशोऽध्यायः १९