चतुर्थांशे पञ्चदशोऽध्यायः
मैत्रेय उवाच
हिरण्यकशिपुत्वे च रावणत्वे च विष्णुना ।
अवाप निहतो भोगानप्राप्यानमरैरपि ॥ १ ॥
न लयं तत्र तेनैव निहतः स कथं पुनः ।
संप्राप्तः शिशुपालत्वे सायुज्यं शाश्वते हरौ ॥ २ ॥
एतदिच्छाम्यहं श्रोतुं सर्वधर्मभृत्तां वर ।
कौतूहलपरेणैतत्पृष्टो मे वक्तुमर्हसि ॥ ३ ॥
श्रीपराशर उवाच
दैत्येश्वरस्य वधायाखिललोकोत्पत्तिस्थितिविनाशकारिणा पूर्वं तनुग्रहणं कुर्वता नृसिंह रूपमाविष्कृतम् ॥ ४ ॥
तत्र च हिरण्यकशिपोर्विष्णुरयमित्येतन्न मनस्यभूत् ॥ ५ ॥
निरतिशयपुण्यसमुद्भूतमेतत्सत्त्वजातमिति ॥ ६ ॥
रजोद्रेकप्रेरितैकाग्रमतिस्तद्भावनायोगात्ततोऽवाप्तवधहैतुकीं निरतिशयामेवाखिलत्रैलोक्याधिक्यकारीणीं दशाननत्वे भोगसंपदमवाप ॥ ७ ॥
न तु स तस्मिन्ननादिनिधने परब्रह्मभूते भगवत्यनालंबिनि कृते मनसस्तल्लयमवाप ॥ ८ ॥
एवं दशाननत्वेऽप्यनङ्गपराधीनतया जानकीसमासक्तचेतसा भगवता दाशरथिरूपधारिणा हतस्य तद्रूपदर्शनमेवासीत् नायमच्युत इत्यासक्तिर्विपद्यतोऽन्तःकरणे मानुषबुद्धिरेव केवलमस्याभूत् ॥ ९ ॥
पुनरप्यच्युतविनिपातमात्रफलमखिलभूमण्डलश्लाघ्यचेदिराजकुले जन्म अव्याहतैश्वर्यं शिशुपालत्वेऽप्यवाप ॥ १० ॥
॥ १-१०॥
तत्र त्वखिलानामेव स भगवन्नाम्नां त्वङ्कारकारणमभवत् ॥ ११ ॥
तत्र त्विति ॥ त्वंकाराणि करोतीति त्वंकारकं तस्य कारणं तत्प्रवृत्तिनिमित्तम् ॥ ११ ॥
ततश्च तत्कालकृतानां तेषामशेषणामेवाच्युतनाम्नामनवरतमनेकजन्मसु वर्धितविद्वेषानुबन्धिचित्तो विनिन्दनसंतर्जनादिषूच्चारणमकरोत् ॥ १२ ॥
ततश्चेति ॥ ऋषिप्रोक्तमामनिवेचनानादरेण निन्दनार्थमुपेक्षया च भगवन्नानामुञ्चारणमकरोदिति
संकीर्तनोक्तिः ॥ १२ ॥
तच्च रूपमुत्फुल्लपद्मदलामलाक्षमत्युज्ज्वलपीतवस्त्रधार्यमखिलकिरिटकेयूरहारकटकादिशोभितमुदारचतुर्बाहुशङ्खचक्रगदाधरमतिप्ररूढवैरानुभावादटनभोजनस्नानासनशयनादिष्वशेषावस्थान्तरेषु नान्यत्रोपययावस्य चेतसः ॥ १३ ॥
ततस्तमेवाक्रोशेषूच्चारयंस्तमेव हृदयेन धारयन्नात्मवधाय यावद्भगवद्धस्तचक्रांशुमालोज्ज्वालमक्षयतेजः स्वरूपं ब्रह्मभूतमपगतद्वेषादिदोषं भगवन्तमद्राक्षीत् ॥ १४ ॥
तच्चेति ॥ तच्चेति मूर्तिध्यानोक्तिः ॥ १३, १४ ॥
तावच्च भगवच्चक्रेणाशु व्यापादितस्तत्स्मरणदग्धाखिलाघसंचयो भगवताऽन्तमुपनीतस्तस्मिन्नेव लयमुपययौ ॥ १५ ॥
एतत्तवाखिलं मयानभिहितम् ॥ १६ ॥
अयं हि भगवान् कीर्तितश्च संस्मृतश्च द्वेषानुबन्धेनापि अखिलसुरासुरादिर्दुल्लभं फलं प्रयच्छति, किमुत सम्यग्भक्तिमतामिति ॥ १७ ॥
वसुदेवस्य त्वानकदुन्दुभेः पौरवीरोहिणीमदिराभद्रादेवकीप्रमुखा बह्व्यः पत्न्योऽभवन् ॥ १८ ॥
बलभद्रशठसारणदुर्मदादीन्पुत्रान्रोहिण्यानकदुन्दुभिरुत्पादयामास ॥ १९ ॥
बलदेवोऽपि रेवत्यां विशठोल्मुकौ पुत्रावजनयत् ॥ २० ॥
सार्ष्टिमार्ष्टिशिशुसत्यसत्यधृतिप्रमुखाः सारणात्मजाः ॥ २१ ॥
भद्राश्वभद्रबाहुदुर्दमभूताद्याः रोहिण्याः कुलजाः ॥ २२ ॥
नन्दोपनन्दकृतकाद्या मदिरायास्तनयाः ॥ २३ ॥
भद्रायाश्चोपनिधिगदाद्याः ॥ २४ ॥
वैशाल्यां च कौशिकमेकमेवाजनयत् ॥ २५ ॥
आनकदुन्दुभेर्दवक्यामपि कीर्तिमत्सुषेणोदायुभद्रसेनऋजदासभद्रदेवाख्याः षट्पुत्रा जज्ञिरे ॥ २६ ॥
तांश्च सर्वानेव कंसो घातितवान् ॥ २७ ॥
अनन्तरं च सप्तमं गर्भमर्धरात्रे भगवत्प्रहिता योगनिद्रा रोहिण्या जठरमाकृष्य नीतवती ॥ २८ ॥
कर्षणाच्चासावपि संकर्षणाख्यामगमत् ॥ २९ ॥
ततश्च सकलजगन्महातरुमूलभूतोभूतभविष्यदादिसकलसुरासुरमुनिजनमनसामप्यगोचरोऽब्जभवप्रमुखैरनलमुखैः प्रणम्यावनिभारहरणाय प्रसादितो भगवाननादिमध्यनिधनो देवकीगर्भमवततार वासुदेवः ॥ ३० ॥
तत्प्रसादविवर्द्धमानोरुमहिमा च योगनिद्रा नन्दगोपपत्न्या यशोदाया गर्भमधितिष्ठितवती ॥ ३१ ॥
सुप्रसन्नादित्यचन्द्रादिग्रहमव्यालादिभयं स्वस्थमानसमखिलमेवैतज्जगदपास्ताधर्ममभवत्त्स्मिश्च पुण्डरीकनयने जायमाने ॥ ३२ ॥
जातेन च तेनाखिलमेवैतत्सन्मार्गवर्ति जगदक्रियत ॥ ३३ ॥
भगवतोप्यत्र मर्त्यलोकेऽवतीर्णस्य षोडशसहस्राण्येकोत्तरशताधिकानि भार्याणामभवन् ॥ ३४ ॥
तासां च रुक्मिणी सत्यभामा जांबवती चारुहासिनीप्रमुखा ह्यष्टौ पत्न्यः प्रधाना बभूचवुः ॥ ३५ ॥
तासु चाष्टावयुतानि लक्षं च पुत्राणां भगवानखिलमूर्तिरनादिमानजनयत् ॥ ३६ ॥
तेषां च प्रद्युम्नचारुदेष्णसांबादयः त्रयोदश प्रधानाः ॥ ३७ ॥
प्रद्युम्नोपि रुक्मिणस्तनयां रुक्मवतीं नामोपयेमे ॥ ३८ ॥
तस्यामनिरुद्धो जज्ञे ॥ ३९ ॥
अनिरुद्धोऽपि रुक्मिणा एव पौत्रीं सुभद्रां नामोपयेमे ॥ ४० ॥
तस्यामस्य वज्रो जज्ञे ॥ ४१ ॥
वज्रस्य प्रतिबाहुः तस्यापि सुचारुः ॥ ४२ ॥
एवमनेकशतसहस्रपुरुषसंख्यस्य यदुकुलस्य पुत्रसंख्या वर्षशतैरपि वक्तुं न शक्यते ॥ ४३ ॥
यतो हि श्लोकाविमावत्र चरितार्थौ ॥ ४४ ॥
तिस्त्रः कोट्यःसहस्राणामष्टाशीति शतानि च ।
कुमाराणां कृहाचार्याश्चापयोगेषु ये रताः ॥ ४५ ॥
संख्यानं यादवानां कः करिष्यति महात्मनाम् ।
यत्रायुतानामयुतलक्षेणास्ते सदाहुकः ॥ ४६ ॥
तावदिति । लयं-सायुज्यं ॥ १५-४६ ॥
देवासुरे हता ये तु दैतेयाःसुमहाबलाः ।
उत्पन्नास्ते मनुष्येषु जनोपद्रवकारिणः ॥ ४७ ॥
तेषामुत्सादनार्थाय भुवि देवा यदोः कुले ।
अवतीर्णाः कुलशतं यत्रैकाभ्यधिकं द्विज ॥ ४८ ॥
देवासुर इति । देवासुर युद्धे ॥ ४७,४८ ॥
विष्णुस्तेषां प्रमाणे च प्रभुत्वे च व्यवस्थितः ।
निदेशस्थायिनस्तस्य ववृधुःसर्वयादवाः ॥ ४९ ॥
इति प्रसूतिं वृष्णीनां यश्र्शृणोति नरः सदा ।
स सर्वैः पातकैर्मुक्तो विष्णुलोकं प्रपद्यते ॥ ५० ॥
विष्णुरिति । प्रमाणे-प्रतिकार्यानिर्णये ॥ ४९,० ॥
इति श्रीविष्णुमहापुराणे चतुर्थांशे पञ्चदशोऽध्यायः ॥ १५ ॥