१४

चतुर्थांशे चतुर्दशोऽध्यायः

श्रीपराशर उवाच

अनमित्रस्य पुत्रः शिनिर्नामाऽभवत् ॥ १ ॥

तस्यापि सत्यकः सत्यकात्सात्यकिर्युयुधानापरनामा ॥ २ ॥

तस्मादपि संजयः तत्पुत्रश्च कुणिः कुणेर्युगन्धरः ॥ ३ ॥

इत्येते शैनेयाः ॥ ४ ॥

अनमित्रस्य पौत्रस्सत्राजित, तत्प्रसंगात्स्यमन्तकाख्यानमुक्तम । इदानीमनमित्रस्यैव संतानान्तरमुच्यते-

अनमित्रस्येति ॥ १-४॥

अनमित्रस्यान्वये वृष्णिः तस्मात् श्वफल्कः तत्प्रभावः कथिव एव ॥ ५ ॥

श्वफल्कस्यान्यः कनीयांश्चित्रको नाम भ्राता ॥ ६ ॥

श्वफल्कादक्रूरो गान्दिन्यामभवत् ॥ ७ ॥

सात्वतपुत्रस्य वृष्णेरेव संतानान्तरं वक्तुं प्रस्तुतेनानमित्रेण पितामहत्वसंबन्ध स्मारयति-अनमित्रस्यै-

वान्वये वृष्णिरिति ॥ ५-७ ॥

तथोपमद्गः ॥ ८ ॥

उपमद्गोर्मृदामृदविश्वारिमेजयगिरिक्षत्रोपक्षत्रशतघ्नारिमर्दनधर्मदृग्दृष्टधर्मगन्धमोजवाहप्रतिवाहाख्याः पुत्राःसुताराख्या कन्या च ॥ ९ ॥

देववानुपदेवश्चाक्रूरपुत्रौ ॥ १० ॥

पृथुविपृथुप्रमुखाश्चित्रकस्य पुत्रा बभूवुः ॥ ११ ॥

तथेति ॥ उपमद्ग्वाद्या अक्रूरसापत्न्याः ॥ ८-११ ॥

कुकुरभजमानशुचिकंबलबर्हिषाख्यास्तथाऽन्धकस्य चत्वारः पुत्राः ॥ १२ ॥

कुकुराद्धृष्टः तस्माच्च कपोतरोमा ततश्च विलोमा तस्मादपि तुंबुरसखोऽभवदनुसंज्ञश्च ॥ १३ ॥

अनोरानकदुन्दभिः ततश्चाभिजित् अभिजितः पुनर्वसुः ॥ १४ ॥

तस्याप्याहुकः पुत्रः आहुकी च कन्या ॥ १५ ॥

आहुकस्य देवकोग्रसेनौ द्वौ पुत्रौ ॥ १६ ॥

देववानुपदेवः सहदेवो देवरक्षिता च देवकस्य चत्वारः पुत्राः ॥ १७ ॥

तेषां वृकदेवोपदेवा देवरक्षिता श्रीदेवा शान्तिदेवा सहदेवा देवकी च सप्तभगिन्यः ॥ १८ ॥

ताश्च सर्वा वसुदेव उपयेमे ॥ १९ ॥

उग्रसेनस्यापि कंसन्यग्रोधसुनामानकाह्वशङ्कुसुभूमिराष्ट्रपालयुद्धतुष्टिसुतुष्टिमत्संज्ञाः पुत्रा बभूवुः ॥ २० ॥

कंसाकंसवतीसुतनूराष्ट्रपलिकाह्वाश्चोग्रसेनस्य तनूजाः कन्याः ॥ २१ ॥

अंधकस्य-सत्वतात्मजस्य ॥ १२ – २१ ॥

भजमानाच्च विदूरथः पुत्रोऽभवत् ॥ २२ ॥

भजमानादिति ॥ तदप्रजात् भजमानाद्वेशान्तरम् ॥ २२ ॥

विदूरथाच्छूरः शुराच्छमी शमिनः प्रतिक्षत्रः तस्मात्स्वयंभोजः ततश्च हृदिकः ॥ २३ ॥

तस्यापि कृतवर्मशतधनुर्दवार्हदेवगर्भाद्याः पुत्रा बभूवुः ॥ २४ ॥

देवगर्भस्यापि शुरः ॥ २५ ॥

शुरस्यापि मारीषा नाम पत्न्यभवत् ॥ २६ ॥

तस्यां चासौ दश पुत्रानजनयद्वसुदेवपूर्वान् ॥ २७ ॥

वसुदेवस्य जातमात्रस्यैव तद्गृहे भगवदंशावतारमव्याहतदृष्ट्या पश्यद्भिर्देवैर्दिव्यानकदुन्दुभयो वादिताः ॥ २८ ॥

ततश्चसावानकदुन्दुभिसंज्ञामवाप ॥ २९ ॥

तस्य च देवभागदेवश्रवाष्टकककुच्चक्रवत्सधारकसृजयश्यामशमिकगञ्डूषसंज्ञा नव भ्रातरोऽभवन् ॥ ३० ॥

पृथा श्रुतदेवा श्रुतकीर्तिः श्रुतश्रवा राजाधिदेवी च वसुदेदादीनां पञ्च भगिन्योऽभवन् ॥ ३१ ॥

शूरस्य कुन्तिर्नाम सखाभवत् ॥ ३२ ॥

तस्मै चापुत्राय पृथामात्मजां विधिना शुरो दत्तवान् ॥ ३३ ॥

तां च पाण्डुरुवाह ॥ ३४ ॥

तस्यां च धर्मानिलेन्द्रैर्युधिष्ठरभीमसेनार्जुनाख्यास्त्रयः पुत्राःसमुत्पादिताः ॥ ३५ ॥

पूर्वमेवानूढायाश्च भगवता भास्वता कानीनः कर्णो नाम पुत्रोऽजन्यत ॥ ३६ ॥

तस्याश्च सपत्नी माद्री नामाभूत् ॥ ३७ ॥

तस्यां च नासत्यदस्त्राभ्यां नकुलसहदेवौ पाण्डोः पुत्रौ जनितौ ॥ ३८ ॥

श्रुतदेवां तु वृद्धधर्मा नाम कारूश उपयेमे ॥ ३९ ॥

तस्याञ्च च दन्तवक्रो नाम महासुरो जज्ञे ॥ ४० ॥

श्रुतकीर्तिमपि केकयराजा उपयेमे ॥ ४१ ॥

तस्यां च संतर्दनादयः कैकेयाः पञ्च पुत्रा बभूवुः ॥ ४२ ॥

राजाधिदेव्यमावन्त्यौ विन्दानुविन्दौ जज्ञाते ॥ ४३ ॥

श्रुतश्रवसमपि चेदिराजो दमघोषनामोपयेमे ॥ ४४ ॥

तस्यां च शिशुपालमुत्पादयामास ॥ ४५ ॥

स वा पूर्वमप्युदारविक्रमो दैत्यानामादिपुरुषो हिरण्यकशिपुरभवत् ॥ ४६ ॥

यश्च भगवता सकललोकगुरुणा नारसिंहेन घातितः ॥ ४७ ॥

पुनरपि अक्षयवीर्यशौर्यसंपत्पराक्रमगुणःसमाक्रान्तसकलत्रैलोक्येश्वरप्रभावो दशाननो नामाभूत् ॥ ४८ ॥

बहुकालोपभुक्तभगवत्सकाशावाप्तशरीरपातोद्भवपुण्यफलो भगवता राघवरूपिणा सोऽपि निधनमुपपादितः ॥ ४९ ॥

पुनश्चेदिराजस्य दमघोषस्यात्मजः शिशुपालनामाऽभवत् ॥ ५० ॥

शिशुपालत्वेऽपि भगवतो भूभारावतारणायावतीर्णांशस्य पुण्डरीकनयनाख्यस्योपरि द्वेषानुबन्धमतितराञ्चकार ॥ ५१ ॥

भगवता च स निधनमुपानीतस्तत्रैव परमात्मभूते मनस एकाग्रतया सायुज्यमवाप ॥ ५२ ॥

विदूरथादिति ॥ शूरो देवमीढाख्यः ॥ २३-५२ ॥

भगवान् यदि प्रसन्नो यथा अभिलषितं ददाति, तथा अग्रसन्नोपि निघ्नन् दिव्यमनुपमं स्थानं प्रयच्छति ॥ ५३ ॥

भगवानिति ॥ अप्रसन्नोऽपीति वस्तुस्वभावोक्तिः ॥ ५३ ॥

इति श्रिविष्णुमहापुराणे चतुर्थांशे चतुर्दशोऽध्यायः १४