१२

चतुर्थांशे द्वादशोऽध्यायः

श्रीपराशर उवाच

क्रोष्टोस्तु यदुपुत्रस्यात्मजो ध्वजिनीवान् ॥ १ ॥

॥ १,२ ॥

ततश्च स्वातिः ततो रुशङ्कुः रुशङ्कोश्चित्ररथः ॥ २ ॥

तत्तनयः शशिबिन्दुः चतुर्दशमहारत्नेशश्चक्रवर्त्यभवत् ॥ ३ ॥

तस्य च शतसहस्रं पत्नी नामभवत् ॥ ४ ॥

दशलक्षसंख्याश्च पुत्राः ॥ ५ ॥

तेषां च पृथुश्रवाः पृथुकर्मा पृथुकीर्तिः पृथुयशाः पृथुजयः पृथुदानः षट्पुत्राः प्रधानाः ॥ ६ ॥

पृथुश्रवसश्च पुत्रः पृथुतमः ॥ ७ ॥

तस्मादुशनाः यो वाजिमेधानां शतमाजहार ॥ ८ ॥

तस्य च शितपुर्नाम पुत्रोऽभवत् ॥ ९ ॥

तस्यापि रुक्मकवचस्ततः परवृत् ॥ १० ॥

तस्य परावृतो रुक्मेषुपृथुरुक्मज्यामघवलितहरितसंज्ञाः पञ्चात्मजा बभूवुः ॥ ११ ॥

तस्मायमद्यापि ज्यामघस्य श्लोको गीयते ॥ १२ ॥

भार्यावश्यास्तु ये केचिद्भविष्यन्त्यथ वा मृताः ।
तेषां तु ज्यामघः श्रेष्ठः शैव्यापतिरभून्नृपः ॥ १३ ॥

अपुत्रा तस्य सा पत्नी शैव्या नाम तथाऽप्यसौ ।
अपत्यकामोऽपि भयान्नान्यां भार्यामविन्दत ॥ १४ ॥

स त्वेकदा प्रभूतरथतुरगगजसंमर्दातिदारुणे महाहवे युद्ध्यमानः सकलमेवारिचक्रमजयत् ॥ १५ ॥

तत्तनय इति ॥ चतुर्दशमहारत्नेश इत्यत्र चतुर्दशरत्नानि धर्मसंहितोकानि-वक्रं रथो मणिः

खड्गं चर्म रत्नं च पंचमम् । केतुर्निधिश्च सप्तैव प्राणहीनानि चक्षते ॥ भार्या पुरोहितश्चैत्व सेनानी रथकृच्च यः ।
पत्यश्वकलमाथेति प्राणिनः सप्त कीर्तिताः ॥ चतुर्दशेति रत्नानि सर्वेषां चक्रवर्तिनाम् ॥ इति । एतानि स्वजाति-

श्रेष्ठ्याद्रत्नसंज्ञानि ॥ ३-१५ ॥

तच्चारिचक्रमपास्तपुत्रकलत्रबन्धुबलकोशं स्वमधिष्ठानं परित्यज्य दिशः प्रति विद्रुतम् ॥ १६ ॥

तच्चेति ॥ अधिष्ठानम् – निवासम् ॥ १६ ॥

तस्मिंश्च विद्रुतेऽतित्रासलोलायतलोचनयुगलं त्राहित्राहि मां तातांब भ्रतरित्याकुलविलापविधुरं स राजकन्यारत्नमद्राक्षीत् ॥ १७ ॥

तद्दर्शनाच्च तस्यामनुरागानुगतान्तरात्मा स नृपोऽचिन्तयत् ॥ १८ ॥

साध्विदं ममापत्यरहितस्य वन्ध्याभर्तुः सांप्रतं विधिनाऽपत्यकारणं कन्यारत्नमुपपादितम् ॥ १९ ॥

तदेतत्समुद्वहामीति ॥ २० ॥

अथ चैनां स्यन्दनमारोप्य स्वमधिष्ठानं नयामि ॥ २१ ॥

तयैव देव्या शैव्ययाऽहमनुज्ञातःसमुद्वहामीति ॥ २२ ॥

अथैनां रथमारोप्य स्वनगरमगच्छत् ॥ २३ ॥

विजयिनं च राजानमशेषपौरभृत्वयरिजनामात्यसमेता शैव्या द्रष्टुमधिष्ठानद्वारमागता ॥ २४ ॥

सा चावलोक्य राज्ञः सव्यपार्श्ववर्त्तिनीं कन्यामीषदुद्भूतामर्षस्फुरदधरपल्लवा राजानमवोचत् ॥ २५ ॥

अतिचपलचित्तात्र स्यन्दने केयमारोपितेति ॥ २६ ॥

असावप्यनालोचितोत्तरवचनोऽतिभयात्तामाह स्नुषा ममेयमिति ॥ २७ ॥

अथैनं शैव्योवाच ॥ २८ ॥

तस्मिन्निति ॥ विधुरम् – आर्तम् ॥ १७-२८ ॥

नाहं प्रसूता पुत्रेण नान्या पत्न्यभवत्तव ।
स्नुषासंबन्धता ह्येषा कतमेन सुतेन ते ॥ २९ ॥

श्रीपराशर उवाच

इत्यात्मेर्ष्याकोपकलुषितवचनमुषितविवेको भयाद्दुरुक्तपरिहारार्थमिदमवनीपतिराह ॥ ३० ॥

नेति ॥ पुत्रेणेति । उपलक्षितेनेति शेषः ॥ २९, ३० ॥

यस्ते जनिष्यत्यात्मजस्तस्येयमनागतस्यैव भार्या निरूपितेत्याकर्ण्योद्भूतमृदुहासा तथेत्याह ॥ ३१ ॥

प्रविवेश च राज्ञा सहाधिष्ठानम् ॥ ३२ ॥

य इति ॥ अनागतं पुत्रमुद्दिश्येति शेषः। ‘अनागतम्’ इति च पाठः ॥ ३१, ३२ ॥

अनन्तरं चातिशुद्धलग्नहोरांशकावयवोक्तकृतपुत्रजन्मालापगुणाद्वयसः परिणाममुपगताऽपि शैव्या स्वल्पैरेवाहोभिर्गर्भमवाप ॥ ३३ ॥

कालेन च कुमारमजीजनत् ॥ ३४ ॥

तस्य च विदर्भ इति पिता नाम चक्रे ॥ ३५ ॥

स च तां स्नुषामुपयेमे ॥ ३६ ॥

तस्यां चासौ क्रथकैशिकसंज्ञौ पुत्रावजनयत् ॥ ३७ ॥

पुनश्च तृतीयं रोमपादसंज्ञं पुत्रमजीजनद्यो नारदादवाप्तज्ञानवान् भविष्यतीति ॥ ३८ ॥

रोमपादाद्बभ्रुः बभ्रोर्धृतिर्धतेः कैशिकः कैशिकस्यापि चेदिः पुत्रोऽभवत्यस्य संततौ चैद्या भूपालाः ॥ ३९ ॥

क्रथस्य स्नषापुत्रस्य कुन्तिरभवत् ॥ ४० ॥

कुन्तेर्धृष्टिः धृष्टेर्निधृतिः निधृतेर्दशार्हस्ततश्च व्योमः तस्यापि जीमूतः ततश्च विकृतिः ततश्च भीभरथः तस्मान्नवरथः तस्यापि दशरथः ततश्च शकुनिः तत्तनयः करंभिः करंभेर्देवरातोऽभवत् ॥ ४१ ॥

तस्माद्देवक्षत्रः तस्यापि मधुः मधोः कुमारवंशः कुमारवंशादनुः अनोः पुरुमित्रः पृथिवीपतिरभवत् ॥ ४२ ॥

ततश्चांशुस्तस्माच्च सत्वतः ॥ ४३ ॥

अनंतरमिति ॥ अतिशुद्धेति । शुभग्रहषड्वर्गशुभयुक्तेक्षितश्च, लग्नं राश्युदयकालः, तदर्धं- होरा,

राशेत्र्यंशो द्रेष्काणः, नवमो भागो नवांशकः, अवयवशब्दाद्राशेर्द्वादशांशस्त्रिंशांशश्च प्रायः । अत्राहुः –

द्रेष्काणदोशनवभागसंज्ञास्त्रिशांशका द्वादशसंज्ञिताश्च । क्षेत्रं च यत्रस्य स तस्य वर्गो होरेति लग्नं भवनस्य

चार्धम् इति । लग्नाद्यवयववति काले उक्तेन कृतो यः पुत्रजन्मविषयस्यालापस्य गुणः आलापगुणः- वाक्यगुणः

तस्मात् । पुत्रजन्मलाभगुणादिति च पाठः ॥ ३३-४३ ॥

सत्वतादेते सात्वताः ॥ ४४ ॥

इत्येतां ज्यामघस्य संततिं सम्यक्छ्रद्धासमन्वितः श्रुत्वा पुमान्मैत्रेय स्वपापैः प्रमुच्यते ॥ ४५ ॥

सत्वतादिति ॥ एते सात्वता वक्ष्यमाणाः ॥ ४४, ४५ ॥

इति श्रीविष्णुमाहापुराणे चतुर्थांशे द्वादशोऽध्यायः १२