श्रीविष्णुपुराणम्
चतुर्थांशे एकादशोऽध्यायः
श्रीपराशर उवाच
अतः परं ययातेः प्रथमपुत्रस्य यदोर्वंशमहं कथयामि ॥ १ ॥
॥ १ ॥
यत्राशेषलोकनिवासो मनुष्यसिद्धगन्धर्वयक्षराक्षसगुह्यककिंपुरुषाप्सरोरगविहगदैत्यदानवादित्यरुद्रवस्वश्विमरुद्देवर्षिभिर्मुमुक्षुभिर्धर्मार्थकाममोक्षार्थिभिश्च तत्तत्फललाभाय सदाभिष्टुतोऽपरिच्छेद्यमाहात्म्यांशेन भगवाननादिनिधनो विष्णुरवततार ॥ २ ॥
अत्र श्लोकः ॥ ३ ॥
यदोर्वंशं नरः श्रुत्वा सर्वपापैः प्रमुच्यते ।
यत्रावतीर्णं कृष्णाख्यं परं ब्रह्मनराकृति ॥ ४ ॥
सहस्रजित्क्रोष्टुनलनहुषसंज्ञाश्चात्वारो यदुपुत्रा बभुवुः ॥ ५ ॥
सहस्रजित्पुत्रश्शतजित् ॥ ६ ॥
तस्य हैहयहेहयवेणुहयास्त्रयः पुत्रा बभूवुः ॥ ७ ॥
हैहयपुत्रो धर्मः तस्यापि धर्मनेत्रः ततः कुन्तिः कुन्तेः सहजित् ॥ ८ ॥
तत्तनयो महिष्मान् योऽसौ माहिष्मतों पुरीं निर्वापयामास ॥ ९ ॥
तस्माद्भद्रश्रेण्यस्ततो दुर्दमस्तस्माद्धनकः धनकस्य कृतवीर्यकृताग्निकृतधर्मकृतौजसश्चत्वारः पुत्रा बभूवुः ॥ १० ॥
कृतवीर्यादर्जुनः सप्तद्वीपाधिपतिर्बाहुसहस्रो जज्ञे ॥ ११ ॥
योऽसौ भगवदंशमत्रिकुलप्रसूतं दत्तात्रेयाख्यमाराध्य बाहुसहस्रमधर्मसेवानिवारणं स्वधर्मसेवित्वं रणे पृथिवीजयं धर्मतश्चानुपालनमारातिभ्योऽपराजयमखिलजगत्प्रख्यातपुरुषाच्च मृत्युमित्येतान् वरानभिलषितवांन् लेभे च ॥ १२ ॥
तेनेयमशेषद्वीपवती पृथिवी सम्यक्परीपालिता ॥ १३ ॥
दशयज्ञसहस्राण्यसावयजत् ॥ १४ ॥
तस्य च श्लोकोऽद्यापि गीयते ॥ १५ ॥
न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः ।
यज्ञैर्दानैस्तपोभिर्वा प्रश्रयेण श्रुतेन च ॥ १६ ॥
यदुवंशस्य सर्वोत्कृष्ट्यमाह — यत्रेति ॥ त्र—यदोवंशे, मुमुक्षुभिः केवलमोक्षार्थिभिः, अंशेन-
लीलागृहीतपरिच्छिन्नमूर्तिव्यवहितत्वादंश इति व्यपदेश्येन स्वरूपेण । अत एव परं ब्रह्म नराकृतीवत्यभिहितम् ॥ २-१६ ॥
अनष्टद्रव्यता च तस्य राज्येऽभवत् ॥ १७ ॥
एवं च पञ्चाशीतिवर्षसहस्रण्यव्याहतारोग्यश्रीबलपराक्रमो राज्यमकरोत् ॥ १८ ॥
माहिष्मत्यां दिग्विजयाभ्यागतो नर्मदाजलावगाहनक्रीडातिपानमदाकृलेनायत्नेन तेनाशेषदेवदैत्यगंधर्वेशजयोद् भूतमदावलेपोऽपि रावणः पशुरिव बद्ध्वा स्वनगरैकान्ते स्थापितः ॥ १९ ॥
यश्च पञ्चाशीतिवर्शसहस्रोपलक्षणकालावसाने भगवन्नारायणांशेन परशुरामेणोपसंहृतः ॥ २० ॥
तस्य च पुत्रशतप्रधानाः पञ्चपुत्रा बभूवुः शुरशूरसेनवृषसेनमधुजयध्वजसंज्ञाः ॥ २१ ॥
जयध्वजात्तालजङ्घः पुत्रोभवत् ॥ २२ ॥
तालजङ्घस्य तालजङ्घाख्यं पुत्रशतमासीत् ॥ २३ ॥
एषां ज्येष्ठे वीतिहोत्रस्तथान्यो भरतः ॥ २४ ॥
भरताद्वृषः ॥ २५ ॥
वृषस्य पुत्रो मधुरभवत् ॥ २६ ॥
तस्यापि वृष्णिप्रमुखं पुत्रशतमासीत् ॥ २७ ॥
यतो वृष्णिसंज्ञामेतद्गोत्रमवाप ॥ २८ ॥
मधुसंज्ञाहेतुश्च मधुरभवत् ॥ २९ ॥
यादवाश्च यदुनामोपलक्षणादिति ॥ ३० ॥
अनष्टेति ॥ अनष्टद्रव्यताऽभवदिति उपलक्षणम्, अद्यापि तन्नामोक्त्या नष्टलब्धेः । अनष्टद्रव्यता
चैव तव नामाभिकीर्तनात्, भविष्यति इति श्रीविष्णुधर्मे न तस्य द्रव्यनाशः स्यान्नष्टं प्रतिलमेत सः इति श्रीहरिवंशे च ॥ कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् । तस्य स्मरणतो विद्वानष्टद्रव्यं लमेत वै ।
इति मंत्रशास्त्रे च ॥ १७–३० ॥
इति श्रीविष्णुमहापुराणे चतुर्थांश एकादशोऽध्यायः ११
_____________________________________________________________