चतुर्थांऽशेसप्तमोऽध्यायः
श्रीपराशर उवाच
तस्याप्यायुर्धीमानमावसुर्विश्वावसुःश्रुतायुश्शतायुरयुतायुरितिसंज्ञाः षट् पुत्रा अभवन् ॥ १ ॥
॥ १ ॥
तथाऽमावसोर्भीमनामा पुत्रोऽभवत् ॥ २ ॥
भीमस्य काञ्चनः काञ्चनात्सुहोत्रः तस्यापि जह्रुः ॥ ३ ॥
योऽसौ यज्ञवाटमखिलं गङ्गाम्भसा प्लावितमवलोक्य क्रोधसंरक्तलोचनो भगवन्तं यज्ञपुरुषमात्मनि परमेण समाधिना समारोप्याखिलामेव गङ्गामपिबत् ॥ ४ ॥
अथैनं देवर्षयः प्रसादयामासुः ॥ २॥
दुहितृत्वे चास्य गङ्गामनयन् ॥ ६ ॥
जह्वोश्च सुमन्तुर्नाम पुत्रोऽभवत् ॥ ७ ॥
तस्याप्यजकस्ततो बलकाश्वस्तस्मात्कुशस्तस्यापि कुशाम्बकुशनाभाधूर्तरजसो वसुश्चेति चत्वारः पुत्रा बभूवुः ॥ ८ ॥
तेषां कुशाम्बः शक्रतुल्यो मे पुत्रो भवेदिति तपश्चकार ॥ ९ ॥
तं चोग्रतपसमवलोक्य मा भवत्वन्योऽस्मतुल्यवीर्य इत्यात्मनैवास्येन्द्रः पुत्रत्वमगच्छत् ॥ १० ॥
स गाधिर्नाम पुत्रः कौशिकोऽभवत् ॥ ११ ॥
गाधिश्व सत्यवतीं कन्यामजनयत् ॥ १२ ॥
तां च भार्गव ऋचीको वव्रे ॥ १३ ॥
गाधिरप्यति रोषणायातिवृद्धाय ब्राह्मणाय दातुमनिच्छन्नेकतश्श्याम कर्णानामिन्दुवर्चसामनिलरंहसामश्वानां सहस्रं कन्याशुल्कमयाचत ॥ १४ ॥
तेनाप्यृषिणा वरुणसकाशादुपलभ्याश्वतीर्थोत्पन्नं तादृशमश्वसहस्त्रं दत्तम् ॥ १५ ॥
ततस्तामृचीकः कन्यामुपयेमे ॥ १६ ॥
ऋचीकश्च तस्याश्चरुमपत्यार्थं चकार ॥ १७ ॥
तत्प्रसादितश्च तन्मात्रे क्षत्रवरपुत्रोत्पत्तये चरुमपरं साधयामास ॥ १८ ॥
एष चरुर्भवत्या अयमपरश्चरुस्त्वन्मात्रा सम्यगुपयोज्यः इत्युक्त्वा वनं जगाम ॥ १९ ॥
उपयोगकाले च तां माता सत्यवतीमाह ॥ २० ॥
तथेति । अल्पवात्प्रथमममावसोवंशोक्तिः, एवं नहुषस्याप्यनन्तराध्याये ॥ २-२० ॥
पुत्रि सर्व एवात्मपुत्रमतिगुणमभिलषति नात्मजायाभ्रातृगुणेष्वतीवादृतो भवतीति ॥ २१ ॥
अतोऽर्हसि ममात्मीयं चरुं दातुं मदीयं चरुमात्मनोपयोक्तुम् ॥ २२ ॥
मत्पुत्रेण हि सकलभूमण्डलपरिपालनं कार्यं कियद्वा ब्राह्मणस्य बलवीर्यसम्पदेत्युक्ता सा स्ववरुं मात्रे दत्तवती ॥ २३ ॥
अथ वनादागत्य सत्यवतीमृषिरपश्यत् ॥ २४ ॥
आह चैनामतिपापे किमिदमकार्यं भवत्या कृतमतिरौद्रं ते वपुर्लक्ष्यते ॥ २५ ॥
पुत्रीति ॥ आत्मजाया – आत्मनो भार्या ॥ २१-२५ ॥
नूनं त्वया त्वन्मातृसात्कृतश्चरुरुपयुक्तः न युक्तमेतत् ॥ २६ ॥
मया हि तत्र चरौ सकलैश्वर्यवीर्यशौर्यबलसम्पदारोपिता त्वदीयचरावप्यखिलशान्ति ज्ञानतितिक्षादिब्राह्मणगुणसम्पत् ॥ २७ ॥
नूनमिति ॥ मातृसात्कृतः – मातुस्संबंधी ॥ २६,२७ ॥
तच्च विपरीतं कुर्वन्त्यास्तवातिरौद्रास्त्रधारणपालननिष्ठः क्षत्रियाचारः पुत्रो भविष्यति, तस्याश्चोपशमरुचिर्ब्राह्मणाचार इत्याकर्ण्यैव सा तस्य पादौ जग्राह ॥ २८ ॥
प्रणिपत्य चैनमाह ॥ २९ ॥
तच्चेति ॥ अस्त्रवारणम् – अस्त्रविद्यान्तगमनम् ॥ २८,२९. ॥
भगवन्मयैतदज्ञानादनुष्ठितं प्रसादं मे कुरु, मैवंविधः पुत्रो भवतु काममेवंविधः पौत्रो भवत्वित्युक्ते मुनिरप्याह ॥ ३० ॥
एवमस्त्विति ॥ ३१ ॥
अनन्तरं च सा जमदग्रिमजीजनत् ॥ ३२ ॥
तन्माता च विश्वामित्रं जनयामास ॥ ३३ ॥
सत्यवत्यपि कौशिकी नाम नद्यभवत् ॥ ३४ ॥
जमदग्निरिक्ष्वाकुवंशोद्भवस्य रेणोस्तनयां रेणुकामुपयेमे ॥ ३५ ॥
तस्यां चाशेषक्षत्रहन्तारं परशुरामसंज्ञं भगवतस्सकललोकगुरोर्नारायणस्यांशं जमदग्निरजीजनत् ॥ ३६ ॥
भगवन्निति ॥ काममिति इच्छानुमतौ ॥ ३०-३६ ॥
विश्वामित्रपुत्रस्तु भार्गव एव शुनश्शेपो देवैर्दत्तः ततश्च देवरातनामाऽभवत् ॥ ३७ ॥
ततश्चान्ये मधुच्छन्दोधनञ्जयकृतदेवाष्टककच्छपहरिताख्या विश्वामित्रपुत्रा बभूवुः ॥ ३८ ॥
विश्वामित्रेति ॥ भार्गव एवेति । जमदग्निसोदरत्वात् भार्गवः शुनश्शेषः । यथाह -ओर्वस्य ऋषिकस्यर्षेः सत्यवत्यां महायशाः । जमदग्निः सुतो विद्वाञ्जज्ञे वेदविदां वरः ॥ मध्यमक्ष शुनश्शेषः इत्यादि ।
अयं च विश्वामित्रस्य स्वस्त्रीयः पुत्रवद्देवैर्दतत्वादेवरातः ॥ ३७, ३८ ॥
तेषां बहूनि कौशिकगोत्राणि ऋष्यन्तरेषु विवाह्यान्यभवन् । ३९ ॥
तेषामिति ॥ ऋष्यन्तरेध्विति ॥ ऋष्यन्तरेषु विवाह्याः – समानप्रवरेष्वविवाद्याः । इदं सर्वगोत्राणां
प्रायेण समानम् एक एव ऋषिर्यावत्प्रवरेष्वनुवर्तते । तावत्समानगोत्रत्वमन्यत्र त्वंगिरोगणात् ॥ इति सूत्रकारोक्तैः
॥ ३९ ॥
इति श्रीविष्णुपुराणे चतुर्थांऽशेसप्तमोऽध्यायः ७