चतुर्थांशेपञ्चमोऽध्यायः
श्रीपराशर उवाच
इक्ष्वाकुतनयो योऽसौ निमिर्नाम्ना, स तु सहस्रं वत्सरं सत्रमारेभ ॥ १ ॥
वशिष्ठं च होतारं वरयामास ॥ २ ॥
तमाह वशिष्ठः, अहमिन्द्रेण पञ्चवर्षशतयागार्थं प्रथमं वृतः ॥ ३ ॥
तदनन्तरं च प्रतिपाल्यताम्, आगतस्तवापि ऋत्विक् भविष्यामि, इत्युक्ते स पृथिवीपतिर्न किञ्चिदुक्तवान् ॥ ४ ॥
वशिष्ठोऽप्यनेन समन्वीच्छितमित्यमरपतेर्यागमकरोत् ॥ ५ ॥
सोऽपि तत्काल एवान्यैर्गौतमादिभिर्यागमकरोत् ॥ ६ ॥
समाप्ते चामरपतेर्यागे त्वरमाणो वशिष्ठो निमियज्ञं करिष्यामीत्याजगाम ॥ ७ ॥
॥ १–७ ॥
तत्कर्म्मकर्त्तृत्वं च तत्र गौतमस्य दृष्ट्वा स्वपते स तस्मै राज्ञे मामप्रत्याख्यायैव तदनेन गौतमाय कर्म्मान्तरं समर्पितं यस्मात्, तस्मादयं विदेहो भविष्यातीति शापं ददौ ॥ ८ ॥
प्रबुद्धश्वासाववनीपतिरपि प्राह ॥ ९ ॥
यस्मान्मामसम्भाष्याजानत एव शयानस्य शापोत्सर्गमसौ दुष्टगुरुश्वकार, तस्मात् तस्यापि देहः पतिष्यतीति प्रतिशापं दत्त्वा देहमत्यजत् ॥ १० ॥
तत्कर्मेति कर्मान्तरं कर्मावकाशः ॥ ८-१० ॥
तच्छापाच्च मित्रावरुणयोस्तेजसि वशिष्ठतेजः प्रविष्टम् ॥ ११ ॥
उर्व्वशीदर्शनादुद्भूतबीजप्रपातयोस्तयोः सकाशाद्वशिष्ठो देहमपरं लेभे ॥ १२ ॥
तच्छापादिति ॥ तेजसि — वीर्ये वसिष्ठतेजः- लिंगशरीरम् । वसिष्ठचेत इति च पाठः ॥ ११, १२ ॥
निमेरपि तच्छरीरमतिमनोहरगंधतैलादिभरुप संस्क्रियमाणं नैव क्लेदादिकं दोषमवाप, सद्योमृतमिव तस्थौ ॥ १३ ॥
यज्ञसमाप्तौ च भागग्रहणाय देवानागतान् ऋत्विज ऊचुः, यजमानाय वरो दीयतामिति ॥ १४ ॥
निमेरिति ॥ मृतराजदेहस्थितिर्यज्ञसमाप्त्यर्था अराजकत्वपरिहारार्था च ॥ १३, १४ ॥
देवैशेच छन्दितोसो निमिराह ॥ १५ ॥
भगवन्तोऽखिलसंसारदुः खहन्तारः ॥ १६ ॥
न ह्येतावदृगन्यद्दुः खमस्ति, यच्छरीरात्मनोर्व्वियोगो भवति ॥ १७ ॥
तदहमिच्छामि सकललोकलोचनेषु वस्तुम्, न पुनः शरीरग्रहणं कर्त्तुमित्येवमुक्तैर्देवैरसावशेष भूतानां नैत्रेष्ववतारितः ॥ १८ ॥
ततो भूतान्युन्मेषनिमेषं चक्रुः ॥ १९ ॥
अपुत्रस्य च तस्य भूभुजः शरीरमराजकभीरवस्ते मुनयोऽरण्यां ममन्थुः ॥ २० ॥
तत्र कुमारो जज्ञे ॥ २१ ॥
देवेरिति ॥ छंदितः –प्रचोदितः ॥ १५-२१ ॥
जननाञ्जनकसंज्ञां चावाप ॥ २२ ॥
जननादिति ॥ जन्नात् आविर्भाव लक्षणाजननाज्जनकमंज्ञामवाप ॥ २२ ॥
अभूद्विदेहोऽस्य पितेति वैदेहो मथनान्मिथिरितिभू ॥ २३ ॥
तस्योदावसुः पुत्रोऽभूत् ॥ २४ ॥
उदावसोर्नन्दिवर्धनस्ततस्सुकेतुः तस्याद्देवरातः ततश्च बृहदुक्थः, तस्य च महावीर्य्यः, तस्यापि सत्यधृतिः ॥ २५ ॥
ततश्व धृष्टकेतुरजायत ॥ २६ ॥
धृष्टकेतोर्हर्य्यश्वस्तस्य च मरुः मरोः प्रतिकः तस्मात्कृतरथः तस्य देवमीढः तस्य च विबुधः विबुधस्य महाधृतिस्तस्य कृतरातः ततो महारोमा तस्य स्वर्णरोमा तत्पुत्रो ह्रस्वरोमा ह्रस्वरोम्णस्सीरध्वजोऽभवत् ॥ २७ ॥
अभूदिति ॥ एवं वैदेहमिथिसंज्ञादयः ॥ २३-२७ ॥
तस्य पुत्रार्थं यजनभुवं कृषतः सीरे सीता दुहिता समुत्पन्ना ॥ २८ ॥
सीरध्वजस्य भ्राता साङ्काश्याधिपतिः कुशध्वजनामासीत् ॥ २९ ॥
सीरध्वजस्यापत्यं भानुमान् बानुमतः शतद्युम्नः तस्य तु शुचिः तस्माच्चोर्ज्जनामा पुत्रो जज्ञे ॥ ३० ॥
तस्यापि शतध्वजः ततः कुतिः कुतेरञ्जनः तत्पुत्रः पुरुजित् ततोऽरिष्टनेमिः तस्मात् श्रुतायुः श्रुतायुषः सुपार्श्वः तस्मात्सृञ्जयः ततः क्षेमावी क्षेमाविनोनेनाःतस्माद्भौमरथः तस्य सत्यरथः तस्मादुपगुः उपगोरुपगुप्तः तत्पुत्रः स्वागतस्तस्य च स्वानंद तस्य च स्वापनः तस्माच्च सुवर्च्चाः तस्य च सुपार्श्वः तस्यापि सुभाषः तस्य सुश्रुतः तस्मात्सुश्रुज्जयः तस्य पुत्रो विजयः विजयस्य ऋतः ऋतात्सुनयः सुनयाद्वीतहव्यः, तस्मात् धृतिः धृतेर्बहुलाश्वः तस्य पुत्रः कृतिः ॥ ३१ ॥
तस्येति ॥ सीरे हले ॥ २८-३१ ॥
कृतौ सन्तिष्ठत्यऽयं जनक-वंशः ॥ ३२ ॥
इत्येते मैथिलाः ॥ ३३ ॥
प्रायेणैते आत्मविद्याश्रयिणो भूपाला भवन्ति ॥ ३४ ॥
कृताविति ॥ संतिष्ठति-समाप्यते ॥ ३२-३४ ॥
इति श्रीविष्णुमहापुराणे चतुर्थांशोपञ्चमोऽध्यायः ५