चतुर्थांशेचतुर्थोऽध्यायः
श्रीपराशर उवाच
काश्यपदुहिता सुमतिर्विदर्भराजतनया केशिनी च द्वे भार्ये सगरस्यास्ताम् ॥ १ ॥
ताभ्यां चापत्यार्थमौर्वः परमेण समाधिनाराधितो वरमदात् ॥ २ ॥
एका वंशकरमेकं पुत्रमपरा षष्टिं पुत्रसहस्राणां जनयिष्यति यस्या यदभिमतं तदिच्छया गृह्यतामित्युक्ते केशिन्येकं वरयामास ॥ ३ ॥
सुमतिः पुत्रसहस्राणि षष्टिं वव्रे ॥ ४ ॥
तथेत्युक्ते अल्पैरहोभिः केशिनी पुत्रमेकमसमंजसनामानं वंशकरमसूत ॥ ५ ॥
काश्यपतनयायास्तु सुमत्याः षष्टिं पुत्रसहस्राण्यभवन् ॥ ६ ॥
तस्मादसमंजसादंशुमान्नाम कुमारो जज्ञे ॥ ७ ॥
॥ १-७ ॥
स त्वसमंजसो बालो बाल्यादेवासद्वृत्तोऽभूत् ॥ ८ ॥
पिता चास्याचिंतयदयमतीतबाल्यः सुबुद्धिमान् भविष्यतीति ॥ ९ ॥
अथ तत्रापि च वयस्यतीते असच्चरितमेवैनं पिता तत्याज ॥ १० ॥
तान्यपि षष्टिः पुत्रसहस्राण्यसमंजसचरितमेवानुचक्रुः ॥ ११ ॥
ततश्चासमंजसचरितानुकारिभिस्सागरैरपध्वस्तयज्ञादिसन्मार्गे जगति देवास्सकलविद्यामयमसंस्पृष्टमशेषदोषैर्भगवतः पुरुषोत्तमस्यांशभूतं कपिलं प्रणम्य तदर्थमूचुः ॥ १२ ॥
भगवन्नेभिस्सगरतनयैरसमंजसचरितमनुगम्यते ॥ १३ ॥
कथमेभिरसद्वृत्तमनुसरद्भिर्जगद्भविष्यतीति ॥ १४ ॥
अत्यार्त्त जगत्परित्राणाय च भगवतोऽत्र शरीरग्रहणमित्याकर्ण्य भगवानाहाल्पैरैव दिनैर्विनंक्ष्यन्तीति ॥ १५ ॥
अत्रांतरे च सगरो हयमेधमारभत ॥ १६ ॥
तस्य च पुत्रैरधिष्ठितमस्याश्वं कोऽप्यपहृत्य भुवो बिलं प्रविवेश ॥ १७ ॥
स त्विति । असवृत्तः – दुराचारः ॥ ८-१७ ॥
ततस्तत्तनयाश्चाश्वखुरगतिनिर्वंधेन वसुधातलमेकैकं योजनमवनेश्च निचख्नुः ॥ १८ ॥
पाताले चाश्वं परिभ्रमन्तं तमवनीपतितनयास्ते ददृशुः ॥ १९ ॥
नातिदुरेऽवस्थितं च भगवन्तमपघने शरत्कालेऽर्कमिव तेजोभिरवनतमूर्ध्वमधश्चाशेष दिशश्रोद्भासयमानं कपिलर्षिमपश्यन् ॥ २० ॥
ततश्चोद्यतायुधादुरात्मानो हयहर्ताऽयमस्मदपकारी यज्ञविघ्नकारी हन्यतां हन्यतामित्यवोचन्नभ्यधावंश्च ॥ २१ ॥
ततश्चेति ॥ अवनेर्योजनम् – अवनिमारभ्याधस्तायोजनम् ॥ १८-२१ ॥
ततस्तेनापि भगवता किंचिदीषत्परिवर्तितलोचने नावलोकिता स्स्वशरीरसमुत्थेनाग्निना दह्यमाना
विनेशुः ॥ २२ ॥
सगरोऽप्यवगम्याश्वानुसारि तत्पुत्रबलमशेष परमर्षिणा कपिलेन तेजसा दग्धं ततोंऽशुमन्तमसमंजस पुत्र माहूयाश्वानयनाय युयोज ॥ २३ ॥
स तु सगरतनयखातमार्गेण कपिलमुपगम्य भक्तिनम्रस्तदा तुष्टाव ॥ २४ ॥
अथैनं भगवानाह ॥ २५ ॥
गच्छेनं पितामहायांश्च प्रापय वरं वृणीष्व च पुत्र पौत्रश्च ते स्वर्गाद्गंगां भुवमानेष्यतीति ॥ २६ ॥
तत इति ॥ किंचिदित्यनादरावलोकिताः ॥ २२-२६ ॥
अथांशुमानपि स्वर्यातानां ब्रह्मदंडहतानामस्मत्पितॄणा मस्वर्गयोग्यानां स्वर्गप्राप्तिकरं वरमस्माकं प्रयच्छेति प्रत्याह ॥ २७ ॥
तदाकर्ण्य तं च भगवानाह उक्तमेवैतन्मयाऽद्य पौत्रस्ते त्रिदिवाद्गंगां भुवमानयिष्यतीति ॥ २८ ॥
तदंभसा च संस्पृष्टेष्वस्थिभस्मसु एते च स्वर्गमारोक्ष्यन्ति ॥ २९ ॥
भगवद्विष्णुपादांगुष्ठनिर्गतस्य हि जलस्यैतन्माहात्म्यम् ॥ ३० ॥
अयेति ॥ ब्रह्मदंडः ब्राह्मणशापः । स्वर्यातानां – मृतानाम् ॥ २७-३० ॥
यन्न केवलमभिसंधिपूर्वकं स्नानाद्युपभोगेषूपकारकं किंत्वनभिसांधितमप्यस्यां प्रेतप्राणस्य भस्मास्थिचर्मस्नायुकेशाद्युत्सृष्टं शरीरजं यदपि पतितं सद्यश्शरीरिणं स्वर्गं नयतीत्युक्तः प्रणम्य भवगतेऽश्वमादाय पितामहयज्ञमाजगाम् ॥ ३१ ॥
सगरोऽप्यश्वमासाद्य तं यज्ञं समापयामास ॥ ३२ ॥
यदिति ॥ यन्न केवलगित्यादि । अभिसंधिपूर्वकं स्नानाद्येव न केवलमुपकारकं किं त्वपेतप्राणस्य
उत्सृष्टशरीर स्थ मप्यस्थि चर्मादि जले नामिसंहितमपि पतितं शरीरिणं स्वर्गं नयतीति यत्, एतन्माहात्म्यम्-एतद्दूंगाजलस्य माहात्म्यमिति पूर्वेणान्वयः ॥ ३१, ३२ ॥
सागरं चात्मजप्रीत्या पुत्रत्वे कल्पितवान् ॥ ३३ ॥
तस्यांशुमतो दिलीपः पुत्रोऽभवत् ॥ ३४ ॥
दिलीपस्य भगीरथः योऽसौ गंगां स्वर्गादिहानीय भागीरथीसंज्ञां चकार ॥ ३५ ॥
भगीरथात्सुहोत्रस्सुहोत्राच्छ्रुतः तस्यापि नाभागः ततोम्बरीषः तत्पुत्रस्सिंधुद्वीपः सिंधुद्वीपादयुतायुः ॥ ३६ ॥
सागरमिति ॥ सागरं सगरसुतैर्वर्द्धितम् ॥ ३३-२६ ॥
तत्पुत्रश्च ऋतुपर्णः योऽसौ नलसहायोऽक्षहृदयज्ञोऽभूत् ॥ ३७ ॥
ऋतुपर्णपुत्रस्सर्वकामः ॥ ३८ ॥
तत्तनयस्सुदासः ॥ ३९ ॥
सुदासात्सौदासो मित्र सहनामा ॥ ४० ॥
स चाटव्यां मृगयार्थी पर्यटन् व्याघ्रद्वयमपश्यत् ॥ ४१ ॥
ताभ्यां तद्वनमपमृगं कृतं मत्वैकं तयोर्बाणेन जघान ॥ ४२ ॥
तत्पुत्रश्चेति ॥ अक्षहृदयं-द्यूतादिषु संख्याज्ञानम् ॥ ३७-४२ ॥
म्रियमाणश्चासावतिभीषणाकृतिरतिकरालवदनो राक्षसोऽभूत् ॥ ४३ ॥
द्वितीयोऽपि प्रतिक्रियां ते करिष्यामीत्युक्त्वांऽतर्धानं जगाम ॥ ४४ ॥
कालेन गच्छता सौदासो यज्ञमयजत् ॥ ४५ ॥
म्रियमाण इति ॥ करालं— दंतुरम् ॥ ४३-४५ ॥
परिनिष्ठितयज्ञे आचार्ये वसिष्ठे निष्क्रांते तद्रक्षो वसिष्ठरूपमास्थाय यज्ञावसाने मम नरमांसभोजनं देयमिति तत्संस्क्रियतां क्षणादागमिष्यामीत्युक्त्वा निष्क्रांतः ॥ ४६ ॥
भूयश्च सूदवेषं कृत्वा राजाज्ञया मानुषं मांसं संस्कृत्य राज्ञे न्यवेदयत् ॥ ४७ ॥
असावपि हिरण्यपात्रे मांसमादाय वसिष्ठागमनप्रतीक्षकोऽभवत् ॥ ४८ ॥
आगताय वसिष्ठाय च निवेदितवान् ॥ ४९ ॥
स चाप्यचिंतयदहोऽस्य राज्ञो दौश्शील्यं येनैतन्मांसमस्माकं प्रयच्छति, किमेतद्द्रव्यजातमिति ध्यानपरोऽभवत् ॥ ५० ॥
अपश्यच्च तन्मांसं मानुषम् ॥ ५१ ॥
अतः क्रोधकलुषीकृतचेता राजनि सापमुत्ससर्ज ॥ ५२ ॥
परिनिष्ठितेति ॥ देयमिति । इतिः हेतौ, तत्-भोजनम् ॥ ४६–५२ ॥
यस्मादभोज्यमेतदस्मद्विधानां तपस्विनामवगच्छन्नपि भवान्मह्यं ददाति तस्मात्तवैवात्र लोलुपता भविष्यतीति ॥ ५३ ॥
अनंतरं च तेनापि भगवतैवाभिहितोऽस्मीत्युक्ते किं किं मयैवाभिहितमिति मुनिः पुनरपि समाधौ तस्थौ ॥ ५४ ॥
समाधिविज्ञानावगतार्थश्चानुग्रहं तस्मै चकार नात्यंतिकमेतद्द्वादशाब्दं तव भोजनं भविष्यतीति ॥ ५५ ॥
यस्मादिति ॥ लोलुपता – अत्यन्तेच्छा ॥ ५३–५५ ॥
असावपि प्रगृह्योदकांजलिं मुनिशापप्रदानायोद्यतो भगवन्नयमस्मद्गुरुर्नार्हस्येनं कुलदेवताभूतमाचार्यं शप्तुमिति मदयंत्या स्वपत्न्या प्रसादितस्सस्यांबुदरक्षणार्थं तच्छापाम्बु नोर्व्यां न चाकाशे चिक्षेप, किं तु तेनैव स्वपादौ सिषेच ॥ ५६ ॥
असाविति ॥ नोर्व्यां न चाकाशे चिक्षेप सस्यांबुदरक्षणार्थम् ॥ ५६ ॥
तेन च क्रोधाग्निश्रितेनांबुना दग्धच्छायौ तत्पादौ कल्माषतामुपगतौ ततः स कल्माषपादसंज्ञामवाप ॥ ५७ ॥
तेन चेति ॥ क्रोधाग्निश्रितेन – क्रोधाग्नितप्तेन । कल्माषः-कृष्णपांडुरः ॥ ५७ ॥
वसिष्ठशापाच्च षष्ठेषष्ठे काले राक्षसस्वभावमुमेत्याटव्यां पर्यटन्ननेकशो मानुषानभक्षयत् ॥ ५८ ॥
एकदा तु कंचिन्मुनिमृतुकाले भार्यासंगतं ददर्श ॥ ५९ ॥
तयोश्च तमतिभीषणं राक्षसरूपमवलोक्य त्रासाद्दंपत्योः प्रधावितयोर्ब्रह्मणं जग्राह ॥ ६० ॥
ततस्सा ब्राह्मणी बहुशस्तमभियाचितवती ॥ ६१ ॥
प्रसीदेक्ष्वाकुकुलतिलकभूतस्त्वं महाराजो मित्रसहो न राक्षसः ॥ ६२ ॥
वसिष्ठशापादिति ॥ षष्ठे काले – षष्ठभोजनकाले, तृतीयदिनांते ॥ ५८-६२ ॥
नार्हसि स्त्रीधर्मसुखाभिज्ञो मय्यकृतार्थायामिममस्मद्भर्त्तारं हंतुमित्येवं बहुप्रकारं तस्यां विलपंत्यां व्याघ्रः पशुमिवाऽरण्येऽभिमतं तं ब्राह्मणमभक्षयत् ॥ ६३ ॥
ततश्चातिकोपसमन्विता ब्राह्मणी तं राजानं शशाप ॥ ६४ ॥
यस्मादेवं मय्यतृषप्तायां त्वयाऽयं मत्पतिर्भक्षितः तस्मात्त्वमपि कामोपभोगप्रवृत्तोन्तं प्राप्स्यसीति ॥ ६५ ॥
शप्त्वा चैवं साऽग्निं प्रविवेश ॥ ६६ ॥
नेति ॥ स्त्रीधर्मः सुरतम् ॥ ६३-६६ ॥
ततस्तस्य द्वादशाब्दपर्यये विमुक्तशापस्य स्त्रीविषयाभिलाषिणो मदयंती तं स्मारयामास ॥ ६७ ॥
ततः परमसौ स्त्रीभोगं तत्याज ॥ ६८ ॥
वसिष्ठश्चापुत्रेण राज्ञा पुत्रार्थमभ्यर्थितो मदयंत्यां गर्भाधानं चकार ॥ ६९ ॥
यदा च सप्तवर्षाण्यसौ गर्भो न जज्ञे ततस्तं गर्भमश्मना सा देवी जघान ॥ ७० ॥
पुत्रश्चाजायत ॥ ७१ ॥
तस्य चाश्मक इत्येव नामाभवत् ॥ ७२ ॥
अश्मस्य मूलको नाम पुत्रोऽभवत् ॥ ७३ ॥
तत इति ॥ स्मारयामास तं ब्राह्मण्याश्शापम् ॥ ६७-७३ ॥
योसौ निःक्षत्रे क्ष्मातलेऽस्मिन् क्रियमाणे स्त्रीभिर्विवस्त्राभिः परिवार्य रक्षितः ततस्तं नारीकवचमुदाहरंति ॥ ७४ ॥
मूलकाद्दशरथस्तस्मादिलिविलस्ततश्च विश्वसहः ॥ ७५ ॥
तस्माच्च खट्वांगः योसौ देवासुरसंग्रामे देवैरभ्यर्थितोऽसुराञ्जघान ॥ ७६ ॥
स्वर्गे च कृतप्रियैर्देवैर्वरग्रहणाय चोदितः प्राह ॥ ७७ ॥
यद्यवश्यं वरो ग्राह्यः तन्ममायुः कथ्यतामिति ॥ ७८ ॥
अनंतरं च तैरुक्तं एकमुहूर्त्तप्रमाणं तवायुरित्युक्तोऽथास्खलितगतिना विमानेन लघिम्ना युक्तो मर्त्यलोकमागम्येदमाह ॥ ७९ ॥
य इति ॥ निःक्षत्रिये क्रियमाणे, जामदग्न्येनेति शेषः ॥ ७४-७९ ॥
यथा न ब्राह्मणेभ्यस्सकाशादात्माऽपि मे प्रियतरः, न च स्वधर्मोल्लंघनं मया कदाचिदप्यनुष्ठितं, न च सकलदेवमानुषपशुपक्षिवृक्षादिकेष्वप्यच्युतव्यतिरेकवर्तिनी दृष्टिर्ममाभूत् तथा तमेव देव मुनिजनानुस्मृतं भगवंतमस्खलितगतिः प्रापयेयमित्यशेषदेवगुरौ भगवत्यनिर्द्देश्यवपुषि सत्तामात्रात्मन्यात्मानं परमात्मनि वासुदेवाख्ये युयोज तत्रैव च लयमवाप ॥ ८० ॥
यथेति ॥ प्रापयेयम्, आत्मानमिति शेषः । प्रास्यामीति च पाठः । अनिर्देश्यवपुषि-समस्तविलक्षण-
सर्वाश्चर्यजगद्द्वीजशुभा श्रयमवपुषि, सत्तामात्रात्मनि – अपक्षयादिरहिततया यस्सदाऽस्तीति केवलमित्युक्ते परमात्मनि आत्मानं युयोज- ब्रह्मणे त्वा महसे यत्पुरुषेण हविषा अहमेवाहं मां जुहोमि स्वाहा इति च ॥ ८० ॥
अत्रापि श्रूयते श्लोको गीतः सप्तर्षिभिः पुरा ।
खट्वांगेन समो नान्यः कश्चिदुर्व्यां भविष्यति ॥ ८१ ॥
येन स्वर्गादिहागम्य मुहूर्त्तं प्राप्य जीवितम् ।
त्रयोऽतिसंहिता लोका बुद्ध्या सत्येन चैव हि ॥ ८२ ॥
खट्वांगाद्दीर्घबाहुः पुत्रोऽभवत् ॥ ८३ ॥
ततो रघुरभवत् ॥ ८४॥
तस्मादप्यजः ॥ ८५ ॥
अजाद्दशरथः ॥ ८६ ॥
येनेति ॥ त्रय इत्यादि । त्रयो लोकाः सात्विक्यांदिगतयः, अतिसंहिताः- अतीताः । अनुसंधिताः
इति पाठे आत्मसात्कृताः, विष्णौ लयात् । यद्वा त्रयो लोकात्र्यैलोक्यम, अभिसंहिताः- प्राप्ताः, सर्वविशिष्टः
परमात्मा हि मुक्तप्राप्यः, इमान् लोकान् कामान्नी कामरूप्यनुसंचरन् सर्वेषु लोकेषु कामनारो भवति
सर्व इ पश्यः पश्यति सर्वमाप्नोति सर्वशः इत्यादेः । बुद्ध्या-ध्यानेन, सत्येन- तदुक्तत्रिविवशपथेन ॥८२-८६॥
तस्यापि भगवानब्जनाभो जगतः स्थित्यर्थमात्मांशेन रामलक्ष्मणभरतशत्रुघ्नरूपेण चतुर्द्धा पुत्रत्वमायासीत् ॥ ८७ ॥
रामोपि बाल एव विश्वमित्रयागरक्षणाय गच्छंस्ताटकां जघान ॥ ८८ ॥
यज्ञे च मारीचमिषुवाताहतं समुद्रे चिक्षेप ॥ ८९ ॥
सुबाहुप्रमुखांश्च क्षयमनयत् ॥ ९० ॥
दर्शनमात्रेणैवाहल्यामपापां चकार ॥ ९१ ॥
जनकगृहे च माहेश्वरं चापमनायासेन बभंज ॥ ९२ ॥
सीतामयोनिजां जनकराजतनयां वीर्यशुल्कां लेभे ॥ ९३ ॥
सकलक्षत्त्रियक्षयकारिणमशेषहैहयकुलधूमकेतुभूतं च परशुराममपास्तवीर्यबलावलेपं चकार ॥ ९४ ॥
पितृवचनाच्चागणितराज्याभिलाषो भ्रातृभार्यासमेतो वनं प्रविवेश ॥ ९५ ॥
विराधखरदूषणादीन् कबंधवालिनौ च निजघान ॥ ९६ ॥
बद्धा चांभोनिधिमशेषराक्षसकुलक्षयं कृत्वा दशाननापहृतां भार्यां तद्वधादपहृतकलंकामप्यनलप्रवेशशुद्धामशेषदेवसंघाः स्तूयमानशीलां जनकराजतनयामयोध्यामानिन्ये ॥ ९७ ॥
ततस्तयोरभिषेकमंगलं मैत्रेय वर्षशतेनापि वक्तुं न शक्यते, संक्षेपेण श्रूयताम् ॥ ९८ ॥
लक्ष्मणभरतशत्रुघ्नविभीषणसुग्रीवांगदजाम्बवद्धनुमत्प्रभृतिभिस्समु-त्फुल्लवदनैश्छत्रचामरादियुतैः सेव्यमानो दाशरथिर्ब्रह्मेन्द्राग्नियमनिर्ऋतिवरुणवायुकुबेरेशानप्रभृतिभिस्सर्वामरैर्वसि-ष्ठवामदेववाल्मीकिमार्कण्डेयविश्वामित्रभरद्वाजागस्त्यप्रभृतिभिर्मु-निवरैः ऋग्यजुस्सामाथर्वैः संस्तूयमानो नृत्यगीतवाद्याद्यखिललोकमंगलवाद्यैर्वीणावेणुमृदंगभेरीपटहशंखकाहलगोमुखप्रभृतिभिस्सुना-दैस्समस्त भूभृतां मध्ये सकललोकरक्षार्थं यथोचितमभिषिक्तो दाशरथिः कोसलेंद्रो रघुकुलतिलको जानकीप्रियो भ्रातृत्रयप्रियस्सिंहासनगत एकादशाब्दसहस्राणि राज्यमकरोत् ॥ ९९ ॥
भरतोऽपि गंधर्वविषयसाधनाय गच्छन् संग्रामे गंधर्वकोटीस्तिस्रो जघान ॥ १०० ॥
शत्रुघ्नेनाप्यमितबलपराक्रमो मधुपुत्रो लवणो नाम राक्षसो निहतो मथुरा च निवेशिता ॥ १०१ ॥
इत्येवमाद्यतिबलपराक्रमविक्रमणैरतिदुष्टनिबर्हणादशेषस्यास्य जगतो निष्पादितस्थितयो रामलक्ष्मणभरतशत्रुघ्नाः पुनरपि दिवमारूढाः ॥ १०२ ॥
तस्येति ॥ आयासीत् प्राप्तोभूत् ॥ ८७-१०२ ॥
येऽपि तेषु भगवदंशेष्वनुरागिणः कोसलनगरजानपदास्तेऽपि तन्मनसस्तत्सालोक्यतामवापुः ॥ १०३ ॥
अतिदुष्टसंहारिणो रामस्य कुशलवौ द्वौ पुत्रौ, लक्ष्मणस्यांगदचंद्रकेतू, तक्षपुष्कलौ भरतस्य, सुबाहुशूरसेनौ शत्रुघ्नस्य ॥ १०४ ॥
कुशस्यातिथिरतिथेरपि निषधः पुत्रोऽभूत् ॥ १०५ ॥
निषधस्याप्यनलस्तस्मादपि नभाः नभसः पुंडरीकस्तत्तनयः क्षेमधन्वा तस्य च देवानीकस्तस्याप्यहीनकोऽहीनकस्यापि रुरुस्तस्य च पारियात्रकः पारियात्राद्देवलो देवलाद्वच्चलः तस्याप्युत्कः उत्काच्च वज्रनाभः तस्माच्छंखणस्तमाद्युषिताश्वस्ततश्च विश्वसहो जज्ञे ॥ १०६ ॥
तस्माद्धिरण्यनाभः यो महायोगीस्वराज्जैमिनेश्शिष्याद्याज्ञवल्क्याद्योगमवाय ॥ १०७ ॥
हिरण्यनाभस्य पुत्रः पुष्यस्तस्माद् ध्रुवसंधिस्ततस्सुदर्शनस्तस्मादग्निवर्णः ततश्शीघ्रगस्तस्मादपि मरुः पुत्रोऽभवत् ॥ १०८ ॥
योऽसौ योगमास्थायाद्यापि कलापग्राममश्रित्य तिष्ठति ॥ १०९ ॥
आगामियुगे सूर्यवंशक्षत्रप्रवर्त्तयिता भविष्यति ॥ ११० ॥
तस्यात्मजः प्रशुश्रुकस्तस्यापि सुसंधिस्ततश्चाप्यमर्षस्तस्य च सहस्वांस्ततश्च विश्वभवः ॥ १११ ॥
तस्य बृहद्बलः योऽर्जुनतनयेनाभिमन्युना भारतयुद्धे क्षयमनीयत ॥ ११२ ॥
एते इक्ष्वाकुभूपालाः प्राधान्येन मयेरिताः ।
एतेषां चरितं शृण्वन् सर्वपापैः प्रमुच्यते ॥ ११३ ॥
पठत्येषां तु चरितं यो वै श्रद्धासमन्वितः ।
सर्वान्कामानवाप्येह ह्यन्ते स्वर्गे महीयते ॥११४ ॥
य इति ॥ कोसलनगरेत्यादिना उच्यन्ते ॥ १०३-११४
इति श्रीविष्णुमहापुराणे चतुर्थांशेचतुर्थोऽध्यायः ४