०१

श्रीमते रामानुजाय नमः

श्रीविष्णुपुराणम्

चतुर्थांऽशेप्रथमोऽ ध्यायः

श्रीमैत्रेय उवाच

भगवन्यन्नरैः कार्यं साधुकर्मण्यवस्थितैः ।
तन्मह्यं गुरुणाख्यातं नित्यनैमित्तिकात्मकम् ॥१॥

वर्णधर्मास्तथाख्याता धर्मा ये चाश्रमेषु च ।
श्रोतुमिच्छाम्यहं वंशं राज्ञां तद् ब्रूहि मे गुरो ॥२॥

तृतीयेंऽशे भगवतस्थितिहेतुभूत मन्वादिरूप मेदानामधिकारमेद उक्तः । विशेषतश्व जगतः स्थितिहेतु-र्वर्णाश्रमधर्मः सदाचारचोक्तः। चतुर्थेशे तु तत्स्थापकधार्मिकसोमसूर्योद्भवक्षत्रवंशस्तदनुचरितं चोच्यते ॥ १,२॥

श्रीपराशर उवाच

मैत्रेय श्रूयतामयमनेकयज्वशूरवीरधीरभूपालालंकृतो ब्रह्मादिर्मानवो वंशः ॥३॥

तदस्य वंशस्यानुपूर्वामशेषपापप्रक्षालनाय मैत्रेयैतां श्रृणु ॥४॥

सकलजगतामादिरनादिभूतस्स ऋग्यजुस्सामादिमयो भगवान् विष्णुः । तस्य

ब्रह्मणो मूर्त्तं स्वरूपं हिरण्यगर्भाख्यो ब्रह्माण्डभूतो भगवान् ब्रह्मा प्राग्बभूव ॥५॥

मैत्रेयेति ॥ बीरः—उत्साही । शूरः- पराभिभावी ॥ ३-५॥

ब्रह्मणश्च दक्षिणांगुष्ठजन्मा दक्षप्रजापतिः ।
दक्षस्याप्यदितिरदितेर्विवस्वान् विवस्वतो मनुः ॥६॥

मनोरिक्ष्वाकुनृगधृष्टशर्यातिनरिष्यन्तनाभागदिष्टकरूषपृषध्राख्या नव पुत्रा बभूवुः ॥७॥

ब्रह्मण इति ॥ अदितिः ह्यजनिष्ट दक्षया दुहिता तव तां देवा अन्वजायन्त इत्यादिश्रुतिसम्म-तत्वाद्ब्रह्मदक्षादिक्रम उक्तः । न तु ब्रह्ममरीच्यादिः ॥ ६, ७ ॥

इष्टिं च मित्रावरूणयोर्मनुः पुत्रकामश्चकार ॥८॥

तत्र तावदपह्नुते होतुरपचारादिला नाम कन्या बभूव ॥९॥

सैव च मित्रावरूणयोः प्रसादात्सुद्युम्नो नाम मनोः पुत्रो मैत्रेय आसीत् ॥१०॥

पुनश्चेश्वरकोपात्स्त्री सती सा तु सोमसूनोः बुधस्याश्रमसमीपे बभ्राम ॥११॥

सानुरागश्च तस्यां बुधः पुरुरवसमात्मजमुत्पादयामास ॥१२॥

इष्टिं चेति ॥ इक्ष्वाक्कादिपुत्रोत्पत्तेः पूर्व इष्टिं चकार । तस्मादिक्ष्वाकायुत्पत्तेः प्राक् इलाजन्म, अकरोत् पुत्रकामस्तु मनुरिष्टिं प्रजापतिः ॥ अनुत्पन्नेषु नवसु पुत्रेष्वेतेषु सुव्रत ॥ इति बायूक्तेः ॥ ८–१२ ॥

जातेऽपि तस्मिन्नमिततेजोभिः परमर्षिभिरिष्टिमय ऋड्‌मयो यजुर्मयस्साममयोऽथर्वणमयस्सर्ववेदमयो मनोमयो ज्ञानमयो विज्ञानमयोऽन्नमयोऽमृतमयो न किञ्चिन्मयो भगवान् यज्ञपुरुषस्वरूपी सुद्युम्नस्य पुंस्त्वमभिलषद्भिः यथावदिष्टः तत्प्रसादादिला पुनरपि सुद्युम्नोऽभवत् ॥१३॥

तस्याप्युत्कलगयविनतास्त्रयः पुत्रा बभुवुः ॥१४॥

सुद्युम्नस्तु स्त्रीपूर्वकत्वाद्राज्यभागं न लेभे ॥१५॥

तत्पित्रा तु वसिष्ठवचनात्प्रतिष्ठानं नाम नगरं सुद्युम्नाय दत्तं तच्चासौ पुरूरवसे प्रादात ॥१६॥

जाते चेति ॥ न किंचिन्मयः- कर्मकृतदेवादिरूपतत्कृतज्ञान संकोचादिरहितः । १३-१६ ॥

तदन्वयाश्च क्षत्रियास्सर्वे दिक्ष्वभवन् । पृषध्रस्तु मनुपुत्रो गुरुगोवधाच्छुद्रत्वमगमत् ॥१७॥

मनोः पुत्रः करुषः कुरूषात्कारूषाः क्षत्रिया महाबलपराक्रमा बभूवुः ॥१८॥

दिष्टपुत्रस्तु नाभागो वैश्यतामगमत्तस्माद्वलन्धनः पुत्रोऽभवत् ॥१९॥

बलन्धनाद्वत्सप्रीतिरुदारकीर्तिः ॥२०॥

वत्सप्रीतेः प्रांशुरभवत् ॥२१॥

प्रजापतिश्च प्रांशोरेकोऽभवत् ॥२२॥

ततश्च खनिमित्रः ॥२३॥

तस्माच्चक्षुषः ॥२४॥

चक्षुषाच्चातिबलपराक्रमो विंशोऽभवत् ॥२५॥

ततो विविंशकः ॥२६॥

तस्माच्च खनिनेत्रः ॥२७॥

ततश्चातिविभूतिः ॥२८॥

अतिविभूतेरतिबलपराक्रमः करन्धमः पुत्रोऽभवत् ॥२९॥

तस्मादप्यविक्षित् ॥३०॥

अविक्षितोऽप्यातिबलपराक्रमः पुत्रो मरुत्तो नामाभवत; यस्येमावद्यापि श्लोकौ गीयेते ॥३१॥

मरुत्तस्य यथा यज्ञस्तथा कस्याभवद्भुवि ॥ सर्वं हिरण्मयं यस्य यज्ञवस्त्वतिशोभनम् ॥३२॥

पृषघ्र इति ॥ सूचीकटाहन्यायेनाल्पत्वात्प्रथमं पृषध्रादिवशोक्तिः । बलंधनोत्पत्तेः पश्चान्नाभागस्य वैश्यत्वप्राप्तिः ॥ १७-३२ ॥

अमाद्यादिन्द्रस्सोमेन दक्षिणाभिर्द्विजातयः । मरुतः परिवेष्टारस्सदस्याश्च दिवौकसः ॥३३॥

स मरुत्तश्चक्रवर्ती नरिष्यन्तनामानं पुत्रमवाप ॥३४॥

तस्माच्च दमः ॥३५॥

दमस्य पुत्रो राजवर्धनो जज्ञे ॥३६॥

राजवर्धनात्सुवृद्धिः ॥३७॥

सुवृद्धेः केवलः ॥३८॥

केवलात्सुधृतिरभूत् ॥३९॥

ततश्च नरः ॥४०॥

तस्माच्चन्द्रः ॥४१॥

ततः केवलोऽभूत् ॥४२॥

केवलाद्वन्धुमान् ॥४३॥

बन्धुमतो वेगवान् ॥४४॥

वेगवतो बुधः ॥४५॥

ततश्च तृणबिन्दुः ॥४६॥

तस्याप्येका कन्या इलविलानाम् ॥४७॥

ततश्चालम्बुसानाम वराप्सरास्तृणबिन्दुं भेजे ॥४८॥

तस्यामप्यस्य विशालो जज्ञे यः पुरीं विशालां निर्ममे ॥४९॥

हेमचद्रश्च विशालस्य पुत्रोऽभवत् ॥५०॥

ततश्चन्द्रः ॥५१॥

तत्तनयो धूम्राक्षः ॥५२॥

तस्यापि सृंजयोऽभूत् ॥५३॥

सृंजयात्सहदेवः ॥५४॥

ततश्च कृशाश्वो नाम पुत्रोऽभवत् ॥५५॥

सोमदत्तः कृशाश्वाज्जज्ञे यो दशाऽश्वमेधानाजहार ॥५६॥

तत्पुत्रो जनमेजयः ॥५७॥

जनमेजयात्सुमतिः ॥५८॥

एते वैशालिका भूभृतः ॥५९॥

श्‍लोकोऽप्यत्र गीयते ॥६०॥

तृणबिन्दोः प्रसादेन सर्वे वैशालिका नृपाः । दीर्घायुषो महात्मानो वीर्यवन्तोऽतिधार्मिकाः ॥६१॥

शर्यातेः कन्या सुकन्यानामाभवत यामुपयेमे च्यवनः ॥६२॥

आनर्तनामा परमधार्मिकश्शर्यातिपुत्रोऽभवत् ॥६३॥

आनर्तस्यापि रेवतनामा पुत्रो यज्ञे योऽसावानर्तविषयं बुभुजे पुरीं च कुशस्थलीमध्युवास ॥६४॥

रेवतस्यापि रैवतः पुत्रः ककुद्मिनामा धर्मात्मा भ्रातृशतस्य ज्येष्ठोऽभवत् ॥६५॥

तस्य रेवती नाम कन्याभवत् ॥६६॥

अमाद्यदिति ॥ परिवेष्टारः – मोजयितारः ॥ ३३-६६ ॥

स तामादाय कस्येयमर्हतीति भगवन्तमब्जयोनिं प्रष्टुं ब्रह्मलोकं जगाम ॥६७॥

तावच्च ब्रह्मणोऽन्तिके हाहाहूहूसंज्ञाभ्यां गन्धर्वाभ्यामतितानं नाम दिव्यं गान्धर्वमगीयत ॥६८॥

स इति ॥ ब्रह्मलोकं जगामेति ॥ ब्रह्मलोकः-सत्यलोकः न तु मेरुस्थः; यतो रैवते ब्रह्मणोन्तिके तिष्ठत्येव मेरुस्थो ब्रह्मा देवस्सहाष्टाविंशद्वापरांते कृष्णावतारार्थं क्षीरोदमगमदिति पंञ्चमेंशे वक्ष्यति । अतस्सत्य-लोकस्य हिरण्यगर्भाशोऽन्यो ब्रह्मा मेरुस्थ इति न विरोधः ॥ ६७, ६८ ॥

तच्च त्रिमार्गपरिवृत्तैरनेकयुगपरिवृत्तिं तिष्ठन्नपि रैवतश्श्रृण्वन्मुहूर्त्तमिव मेने ॥६९॥

गीतावसाने च भगवन्तमब्जयोनिं प्रणम्य रैवतः कन्यायोग्यं वरमपृच्छत् ॥७०॥

ततश्चासौ भगवानकथयत् कथय योऽभिमतस्ते वर इति ॥७१॥

पुनश्च प्रणम्य भगवते तस्मै यथाभिमतानात्मनस्स वरान् कथयामास ।
क एषां भगवतोऽभिमत इति यस्मै कन्यामिमां प्रयच्छामीति ॥७२॥

ततः किञ्चिदवनतशिरास्सस्मितं भगवानब्जयोनिराह ॥७३॥

य एते भवतोऽभिमता नैतेषां साम्प्रतं पुत्रपौत्रापत्यापत्यसन्ततिरप्यवनीतलेस्ति ॥७४॥

बहूनि तवात्रैव गान्धर्वं श्रृण्वतश्चतुर्युगान्यतीतानि ॥७५॥

तदिति ॥ परिवृत्तयः–परिवर्ताः । एते दत्तिलादिषु द्रष्टव्याः । त्रिमार्गपरिवृत्तैः चित्रदक्षिण-धात्र्याख्यास्त्रिमार्गाः तद्विषये काल विशेषयुक्तगीतगानक्रियाभ्याम् । अनेकयुगपरिवृत्तीरिति कालावनोरिति द्वितीया । परिवृत्तीरिति च पाठः ॥ ६९-७५ ॥

साम्प्रतं महीतलेऽष्टाविंशतितममनोश्चतुर्युगमतीतप्रायं वर्तते ॥७६॥

आसन्नो हि कलिः ॥७७॥

अन्यस्मै कन्यारत्नमिदं भवतैकाकिनाऽभिमताय देयम् ॥७८॥

भवतो‍ऽपि पुत्रमित्रकलत्रमंत्रिभृत्यबन्धुलकोशादयस्समस्ताः काले नैतेनात्यन्तमतीताः ॥७९॥

ततः पुनरप्युत्पन्नासाध्वसो राजा भगवन्तं प्रणम्य पप्रच्छ ॥८०॥

भववन्नेवमवस्थिते मयेयं कस्मै देयेति ॥८१॥

ततस्स भगवान् किञ्चिदवनम्रकन्धरः कृताञ्जलिर्भूत्वा सर्वलोकगुरुरम्भोजयोनिराह ॥८२॥

सांप्रतमिति ॥ अष्टाविंशतितमे चतुर्युगम् ॥ ७६-८२ ॥

श्रीब्रह्मोवाच

न ह्यादिमध्यान्तमजस्य यस्य विद्यो वयं सर्वमयस्य धातुः ।
न च स्वरूपं न परं स्वभावं न चैव सारं परमेश्वरस्य ॥८३॥

न हीति ॥ स्वरूपं-ज्ञानानन्दादिलक्षणम् । प्रभावम्- पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी-इत्याद्युक्त प्रभावम् । सारम् – विश्वधारणनियमनादिक्षमं बलम् ॥ ८३॥

कलामुहूर्त्तादिमयश्च कालो न यद्विभूतेः परिणामहेतुः ।
अजन्मनाशस्य सदैकमूर्तैरनामरूपस्य सनातनस्य ॥८४॥

कलेति ॥ कलामुहूर्तेत्यनेन त्रिपादस्यामृतं दिवि यत्र पूर्वे साध्यास्सन्ति देवाः दिव्यं स्थानमजरम् । इत्यादिश्रुतिसिद्धस्य परमपदस्याकाल काल्यत्वमुच्यते । अजन्मनाशस्य-कर्मनिमित्तशरीरप्रहण-तद्वियोगरहितस्य । सदैकमूर्त्तेः- सदैकरूपस्य समस्तमूर्तेरिति च पाठः । अनामरूपस्य-कर्मकृतदेवादि नामरूपास्पृष्टस्य ॥ ८४ ॥

यस्य प्रसादादहमच्युतस्य भूतः प्रजासृष्टिकरोऽन्तकारी ।
क्रोधाच्च रुद्रः स्थितिहेतुभूतो यस्माच्च मध्ये पुरुषः परस्मात् ॥८५॥

मद्रूपमास्थाय सृजत्यजो यः स्थितौ च योऽसौ पुरुषस्वरूपी ।
रुद्रस्वरूपेण च योऽत्ति विश्वं धत्ते तथानन्तवपुस्समस्तम्‌ ॥८६॥

पाकाय योऽ‍ग्नित्वमुपैति लोकान्बिभर्ति पृथ्वीवपुरव्ययात्मा ।
शक्रादिरूपी परिपाति विश्वमर्केन्दुरूपश्च तमो हिनस्ति ॥८७॥

यस्येति ॥ यस्माच्च मध्य इति । स्रष्टृसंहर्त्रोर्मध्ये स्थितिहेतुभूतः पुरुषस्स्वयं परस्माद्यस्माद्रामादिवत् प्रादुर्भूतः ॥ ८५-८७ ॥

करोति चेष्टारश्चसनस्वरूपी लोकस्य तृप्तिं च जलान्नरुपी ।
ददाति विश्वस्थितिसंस्थितस्तु सर्वावकाशं च नभस्स्वरूपी ॥८८॥

करोतीति ॥ विश्वस्थितिसंस्थितः– विश्वस्थित्यै संस्थितः, विष्टम्याहम्, इत्युक्त्वात् ॥ ८८ ॥

यस्सृज्यते सर्गकृदात्मनैव यः पाल्यते पालयिता च देवः ।
विश्वात्मकस्संह्नियतेऽन्तकारी पृथक् त्रयस्यास्य च योऽव्ययात्मा ॥८९॥

यस्मिन्जगद्यो जगदेतदाद्यो यं चाश्रितोऽस्मिञ्जगति स्वयम्भूः ।
स सर्वभूतप्रभवो धरित्र्यां स्वांशेन विष्णुर्नृपतेऽवतीर्णः ॥९०॥

मस्सृज्यत इति ॥ सर्गकृद्यः विश्वात्मना आत्मनैव सृज्यत इत्यन्वयः । आत्मनेति प्रकृत्या तृतीया । विश्वात्मभूतः स्वयमेव सृज्यत इत्यर्थः । एवमुत्तरत्रापि । त्रयस्य सृज्यादेः स्रष्ट्रादेश्च । पृथङ् न यस्यास्तीति पाठे एतदनात्मकं नास्तीत्यर्थः । न तदस्ति विना यत्स्यात् इति ॥ ८९, ९० ॥

कुशस्थली या तव भूप रम्या पुरी पुराभूदमरावतीव ।
सा द्वारका सम्प्रति तत्र चास्ते स केशवांशो बलदेवनामा ॥९१॥

कुशस्थलीति ॥ पूर्वं वेलास्थिता सती कुशस्थली कृष्णेन समुद्राल्लन्धद्वादशयोजनस्थलेन सह द्वारका कृता ॥ ९१ ॥

तस्मै त्वमेनां तनयां नरेन्द्र प्रयच्छ मायामनुजाय जायाम् ।
श्‍लाघ्यो वरो‍ऽसौ तनया तवेयं स्त्रीरत्नभूता सदृशो हि योगः ॥९२॥

श्रीपराशर उवाच

इतीरितोऽसौ कमलोद्भवेन भुवं समासाद्य पतिः प्रजानाम् ।
ददर्श ह्रस्वान् पुरुषान् विरूपानल्पौजसस्स्वल्पविवेकवीर्यान् ॥९३॥

कुशस्थलीं तां च पुरीमुतेत्य दृष्ट्वान्यरूपां प्रददौ स कन्याम् ।
सीरायुधाय स्फटिकाचलाभवक्षः स्थलायातुलधीर्नरेन्द्रः ॥९४॥

उच्चप्रमाणामिति तामवेक्ष्य स्वलांगलाग्रेण च तालकेतुः ।
विनम्रयामास ततश्च सापि बभूव सद्यो वनिता यथान्या ॥९५॥

तां रेवतीं रैवतभूपकन्यां सीरायुधोऽसौ विधिनोपयेमे ।
दत्त्वाथ कन्यां स नृपो जगाम हिमालयं वै तपसे धृतात्मा ॥९६॥

तस्मा इति ॥ मायामनुजाय—संकल्पभूतमनुजाय ॥ ९२-९६ ॥

इति श्रीविष्णुचित्तीये श्रीविष्णुपुराणव्याख्याने चतुर्थांशे प्रथमोऽध्यायः ॥ १ ॥