16

श्रीविष्णुपुराणम्

षोडशोऽध्यायः

ब्राह्मणः –

ऋभुर्वर्षसहस्रे तु समतीते नरेश्वर । निदाघज्ञानदानाय तदेव नगरं ययौ ॥१॥

नगरस्य बहिस्सोऽथ निदाघं ददृशे मुनिः । महाबलपरीवारे पुरं विशति पार्थिवे ॥२॥

दूरे स्थितं महामार्ग जनसम्मर्दवर्जकम् । क्षुत्क्षामकण्ठमायान्तमरण्यात्ससमित्कुशम् ॥३॥

दृष्ट्वा निदाघं स ऋभुरुपगम्याभिवाद्य च । उवाच कस्मादेकान्ते स्थीयते भवता द्विज ॥४॥

निदाघः-

भो विप्र जनसम्मर्दो महानेष नरेश्वरः । प्रविविक्षुः पुरं रम्यं तेनात्र स्थीयते मया ॥ ५॥

उक्तस्यात्मसाम्यस्य दर्शनं चिरकालयोगसाध्यमित्युत्तराध्यायेनोच्यते-ऋभुरित्यादिना ॥१-५॥

ऋभुः-

नराधिपोऽत्र कतमः कतभश्चेतरो जनः । कथ्यतां मे द्विजश्रेष्ठ त्वमभिज्ञो मतो मम ॥६॥

नराधिप इति ॥ नराधिपोऽत्र कतम इति । नैकस्मिन्नप्यात्मनि नराधिपत्वादिविशेषणं पश्यामीति भावः ॥ ६ ॥

निदाघः-

योऽयं गजेन्द्रमुन्मत्तमद्रिशृङ्गसमुच्छ्रितम् । अधिरूढो नरेन्द्रोऽयं परिलोकस्तथेतरः ॥७॥

भावापरिज्ञानादाह-योऽयमिति ॥ परिलोकः—परिजनः ॥ ७॥

ऋभुः-

एतौ हि गजराजानौ युगपद्दर्शितौ मम । भवता न विशेषेण पृथक्चिह्नोपलक्षणौ ॥ ८॥

तत्कथ्यतां महाभाग विशेषो भवताऽनयोः। ज्ञातुमिच्छाम्यहं कोऽत्र गजः को वा नराधिपः ॥९॥

निदाघः-

गजो योऽयमधो ब्रह्मन्नुपर्यस्यैष भूपतिः। वाह्यावाहकसंबन्धं को न जानाति वै द्विज ॥१०॥

ऋभुः-

जानाम्यहं यथा ब्रह्मंस्तथा मामवबोधय। अधश्शब्दनिगद्य किं किं चोर्ध्वमभिधीयते ॥११॥

ब्राह्मणः-

इत्युक्तस्सहसाऽऽरुह्य निदाघः प्राह तम् ऋभुम् । श्रूयतां कथयाम्येष यन्मां त्वं परिपृच्छसि ॥१२॥

एतौ हीति ॥ अयमयमिति हस्तमुद्रयैतौ दर्शितो। न मया गजत्वेन राजत्वेन चैतावात्मानौ दृष्टौ । अहं तु निर्वाणज्ञानमयावेतौ पश्यामीति भावः ॥ ८-१२ ॥

उपर्यहं यथा राजा त्वमधः कुञ्जरो यथा । अवबोधाय ते ब्रह्मन्दृष्टान्तो दर्शितो मया ॥१३॥

उपरीति । आरोहणक्रिययैवोत्तरं दर्शयन् तदतिक्रमदोषं परिहरति- दृष्टान्त इति ॥ १३ ॥

ऋभुः-

त्वं राजेव द्विजश्रेष्ठ स्थितोऽहं गजवद्यदि। तदेव त्वं ममाचक्ष्व कतमस्त्वमहं तथा ॥१४॥

ब्राह्मणः-

इत्युक्तस्सत्वरं तस्य प्रगृह्य चरणावुभौ । निदाघस्त्वाह भगवानाचार्यस्त्वमृभुर्ध्रुवम् ॥ १५ ॥

त्वमिति ॥ कतमस्त्वमहं तथेति आत्मनो देहरूपभेदाक्षेपः । त्वमहंशब्दयोरर्थो देहाद्विलक्षण इति भावः ॥ १४,१५॥

नान्यस्याद्वैतसंस्कारसंस्कृतम् मानसं तथा । यथाऽऽचार्यस्य तेन त्वां मन्ये प्राप्तमहं गुरुम् ॥१६॥

नान्यस्येति ॥ अद्वैत-देवादिद्वैतराहित्यम् ॥ १६ ॥

ऋभुः-

तवोपदेशदानाय पूर्वशुश्रूषणादृतः । गुरुस्नेहादृभुर्नाम निदाघ समुपागतः ॥ १७ ॥

तवेति ॥ शुश्रूषणादृतः—शुश्रूषणेनादृतवान् । “शुश्रूषणाहृतः” इति पाठे शुश्रूषणेन वशीकृतः। आदृत इति कर्तरि रूपम् ॥ १७ ॥

तदेतदुपदिष्टं ते संक्षेपेण महामते । परार्थसारभूतं यत्तदद्वैतमशेषतः ॥१८॥

ब्राह्मणः-

एवमुक्त्वा ययौ विद्वान्निदाघं स ऋभुर्गुरुः । निदाघोऽप्युपदेशेन तेनाद्वैतपरोऽभवत् ॥ १९॥

तदेतदिति ॥ तत्-तस्मात् , अद्वैतम्–देवादिभेदरहित ज्ञानैकाकारं तदेतदात्मस्वरूपम् अद्य संक्षेपेणोपदिष्टम् ॥ १८, १९॥

सर्वभूतान्यभेदेन ददर्श स तदाऽऽत्मनः । तथा ब्रह्मपरो मुक्तिमवाप परमां द्विजः ॥ २०॥

सर्वभूतानीति ॥ सर्वभूतानि–सर्वानात्मनः, सुरनरत्वादिभेदराहित्येन स्वात्मनोऽभेदेन-समत्वेनापश्यत्; न त्वेकत्वेन, तथा सति सर्वभूतान्यात्मन इति(पदवैयर्थ्यप्रसङ्गः) प्रातिपादिकाद्विभक्ति वैयर्थ्यप्रसङ्गः। तथा ब्रह्माभेदेन-तादात्म्येनापश्यत् ॥ * आत्मेति तूपगच्छन्ति ग्राहयन्ति चेति सूत्रात् ॥ २० ॥

तथा त्वमपि धर्मज्ञ तुल्यात्मरिपुबान्धवः । भव सर्वगतं जानन्नात्मानमवनीपते ॥ २१ ॥

तथेति ॥ सर्वगतं-तत्तत्कर्मानुगुण्येन तत्तद्देवादिदेहगतम् आमतत्त्वम्, उक्तप्रकारं जानन् तुल्यात्म रिपुबान्धवो भव ॥ २१ ॥

सितनीलादिभेदेन यथैकं दृश्यते नभः । भ्रान्तदृष्टिभिरात्माऽपि तथैकः सन्पृथक्पृथक् ॥ २२ ॥

सितनीलेति ॥ एकः सन्—ज्ञानैकाकरेणैकरूपस्सन् , देवादिदेहप्रवेशात्तत्तद्रूपेण भ्रान्त्या पृथक्पृथक् श्यते ॥ २२ ॥

एकस्समस्तं यदिहास्ति किञ्चित्तदच्युतो नास्ति परं ततोऽन्यत् । सोऽहं स च त्वं स च सर्वमेतदात्मस्वरूपं त्यज भेदमोहम् ॥ २३ ॥

श्रीपराशरः-

इतीरितस्तेन स राजवर्यस्तत्याज भेदं परमार्थदृष्टिः ।
स चापि जातिस्मरणाप्तबोधस्तत्रैव जन्मन्यपवर्गमाप ॥ २४ ॥

अथ * सकलं जगत् वासुदेवाभिधेयस्य स्वरूपं परमात्मन इति पूर्वाध्यायोक्तं सर्वस्य भगवदात्मकत्वं निगमयति-एक इति ॥ यदिहास्ति किञ्चित्तत्समस्तमेकोऽच्युत एव-तदात्मकमित्यर्थः। तस्मात्ततः परम् -.उत्कृष्टम्, अन्यत् – व्यतिरिक्तं च नास्ति ; ततोऽन्यदुत्कृष्टं नास्तीति वा । सर्वात्मनां पूर्वोक्तं ज्ञानैकाकारं तच्छब्देन परामृश्य तत्सामानाधिकरण्येन अहंत्वमादीनामर्थानां ज्ञानमे– -वाकार इत्युपसंहरन् देवाद्याकारभेदेनात्मसु भेदमोहं परित्यजेत्याह-सोऽहमिति ॥ न त्वत्रात्मनां स्वरूप- –भेदो निषिध्यते । तथा सति देहातिरिक्तोपदेश्यस्वरूपे अहं त्वं सर्वमेतदात्मस्वरूपमिति भेदनिर्देशो न घटते । देहात्मविवेकविषयश्चायमुपदेशः । कुतः ? * पिण्डः पृथग्यतःपुंसः शिरःपाण्यादिलक्षणः इति प्रक्रमात् ॥ २३, २४ ॥

इति भरतनरेन्द्रसारवृत्तं कथयति यश्च शृणोति भक्तियुक्तः ।
स विमलमतिरेति नात्ममोहं भवति च संसरणेषु मुक्तियोग्यः ॥ २५॥

इतीति ॥ सारवृत्तं-सारभूतं वृत्तम् । संसरणेष्वात्ममोहं नैति, मुक्तियोग्यः-मुक्तिसाम्राज्ययोग्यश्च

भवतीत्यन्वयः ॥२५॥

इति श्रीपराशरमुनिविरचिते श्रीविष्णुपरत्वनिर्णायके श्रीमति विष्णुमहापुराणेद्वितीयेऽशे षोडशोऽध्यायः ॥ १६ ॥

इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते श्रीविष्णुपुराणव्याख्याने श्रीविष्णुचित्तीयेद्वितीयेंऽशे षोडशोऽध्यायः ॥ १६ ॥

समाप्तश्चायं श्रीविष्णुपुराण-द्वितीयांशः ॥ २॥