10

श्रीविष्णुपुराणम्

अथ दशमोऽध्यायः

मैत्रेयः –

कथितंमे त्वया सर्वंयत्पृष्टोऽसि मया मुने । भृगुसर्गात्प्रभृत्येष सर्गों मे कथ्यतां पुनः ॥ १ ॥

अर्थ संक्षेपेणश्रुतं भृगुसर्ग विस्तरतः श्रोतुं पृच्छति कथितमिति ॥ १ ॥

श्रीपराशरः–

भृगोः ख्यात्यां समुत्पन्ना लक्ष्मीर्विष्णुपरिग्रहः । तथा धातृविधातारौ ख्यात्यां जातौ सुतौ भृगोः॥ २ ॥

भृगोरिति ॥परिग्रहः-कलत्रम्॥ २ ॥

प्रायतिर्नियतिश्चैव मेरोः कन्ये महात्मनः । भार्ये धातृविधात्रोस्ते तयोर्जातौ सुतावुभौ ॥ ३ ॥

आयतिरिति ॥ तयोः-आयतिनियल्योः, सुतावुभौ जातौ ॥ ३ ॥

प्राणश्चैव, मृकण्डुश्च मार्कण्डेयो मृकण्डुतः। ततो वेदशिराजज्ञे प्राणस्यापि सुतं शृणु ॥ ४ ॥

प्राणस्य द्युतिमान्पुत्रो राजवांश्च ततोऽभवत् । ततो वंशो महाभाग विस्तरं भार्गवो गतः ॥ ५ ॥

तावेवाह प्राणश्चेति ।प्राणो मृकण्डुश्च । तत्र मृकण्डुतो मार्कण्डेयो जज्ञ इत्यन्वयः। (तयोर्तावितिपाठः)॥ ४,५ ॥

पत्नी मरीचेस्संभूतिः पौर्णमासमसूयत । विरजाः पर्वतश्चैव तस्य पुत्रौ महात्मनः ॥ ६ ॥

वंशसंकीर्तने पुत्रान्वदिष्येऽहं ततो द्विज । स्मृतिश्चाङ्गिरसः पत्नीप्रसूता कन्यकास्तथा ।

सिनीवाली कुहूश्चैव राका चानुमतिस्तथा ॥ ७ ॥

अनसूया तथैवात्रेर्जझे निष्कल्मषान्सुतान् । सोमं दुर्वाससं चैव दत्तात्रेयं च योगिनम् ॥८॥

अथ क्रमप्राप्तं मरीचेः संभूत्यां जातं वंशमाह-पत्नी मरीचेरिति॥ अत्राल्पसन्तानो मरीचेः पुत्रः’ पौर्णमास उक्तः। बहुसन्तानान् काश्यपविवस्वादादीन्पुत्रपौत्रादीनस्मिन्नंशे वंशसंकीर्तने आदित्योत्पत्तिप्रस्तावे-?येंशे सूर्यवंशप्रस्तावे च वक्ष्ये ॥६– ८ ॥

प्रीत्यां पुलस्त्यभार्यायां दत्तोऽत्रिस्तत्सुतोऽभवत् ।पूर्वजन्मनि योऽगस्त्यः स्मृतः स्वायंभुवेऽन्तरे ॥ ९ ॥

कर्दमश्चार्वरीवांश्च सहिष्णुश्च सुतत्रयम् । क्षमा तु सुषुवे भार्या पुलहस्य प्रजापतेः ॥ १० ॥

क्रतोश्चसन्ततिर्भार्या वालखिल्यानसूयते । षष्टिःपुत्रसहस्राणि मुनीनामूर्ध्वरेतसाम् ।

अङ्गुष्ठपर्वमात्राणां ज्वलद्भास्करतेजसाम् ॥ ११ ॥

ऊर्जायां तु वसिष्ठस्य सप्ताजायन्त वै सुताः ॥ १२ ॥

प्रीत्यामिति ॥ तत्सुतः-तस्य पुलस्त्यस्य औरसः सुतः ॥ ९–१२ ॥

रजो गोत्रोर्ध्वबाहुश्च सवनश्चानघस्तथा । सुतपाः शुक्र इत्येते सर्वे सप्तर्षयोऽमलाः ॥ १३ ॥

रज इति । सप्तर्षय इति । एते तृतीये मन्वन्तरे सप्तर्षयो वक्ष्यन्ते ॥ १३॥

योऽसावग्न्यभिमानी स्यात् ब्रह्मणस्तनयोऽग्रजः । तस्मात्स्वाहा सुताल्ँलेभे त्रीनुदारौजसो द्विज ॥१४॥

सर्गप्रसंगादग्निसर्गमाह योऽसाविति ॥ १४ ॥

पावकं पवमानं तु शुचिं चापिजलाशिनम् ॥ १५॥

पावकमिति । यथा कौर्मे *निर्मन्थ्यःपवमानः स्याद्वैद्युतः पावकःस्मृतः ॥ यश्चासौ तपतेसूर्येशुचिरग्निरसौ स्मृतः * इति। जलाशिनमिति शुचिविशेषणम् ॥ १५ ॥

तेषां तु सन्ततावन्ये चत्वारिंशच्च पंच च । कथ्यन्ते वह्नयश्चैते पितापुत्रत्रयं च यत् ॥ १६ ॥

एवमेकोनपञ्चाशद्वह्नयः परिकीर्तिताः ॥ १७ ॥

तेषामिति ॥ पितृपुत्रत्रयं-पिता पुत्रत्रयं च, त्रयः पुत्राः प्रत्येकं पञ्चदशपुत्रकाः ॥ १६, १७ ॥

पितरो ब्रह्मणा सृष्टा व्याख्याता ये मया तव । अग्निष्वात्ता बर्हिषदोऽनग्नयः साग्नयश्च ये ॥ १८ ॥

तेभ्यः स्वधा सुते जज्ञे मेनां (वैतरणीं) वै धारिणीं तथा। ते उभे ब्रह्मवादिन्यौ योगिन्यावप्युभे द्विजे॥ १९ ॥

उत्तमज्ञानसंपन्ने सर्वैः समुदितैर्गुणैः ॥२०॥

इत्येषा दक्षकन्यानां कथिताऽपत्यसन्ततिः । श्रद्धावान्संस्मरन्नेतामनपत्यो न जायते ॥ २१ ॥

इति श्रीविष्णुपुराणे प्रथमेंशे दशमोऽध्यायः ॥ १० ॥

पितर इति ॥ अग्निष्वात्ताः-अयज्वानो, मूर्तस्त्रयो गणाः । बर्हिषदः–यज्वानो मूर्तिमन्तश्चत्वारः ।अग्निश्वात्तसुता मेना ॥ १८-२० ॥

इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते श्रीविष्णुपुराणव्याख्याने श्रीविष्णुचित्तीये प्रथमेंशे दशमोऽध्यायः ॥ १० ॥