08

श्रीविष्णुपुराणम्

अथ अष्टमोऽध्यायः

श्रीपराशरः—

कथितस्तामसस्सर्गो ब्रह्मणस्ते महामुने । रुद्रसर्गं प्रवक्ष्यामि तन्मे निगदतः शृणु ॥ १॥

  कल्पादावात्मनस्तुल्यं सुतं प्रध्यायतस्ततः । प्रादुरासीत्प्रभोरङ्के कुमारोनीललोहितः ॥ २ ॥

रुरोद सुखरं सोऽथ प्राद्रवद्द्विजसत्तम । किं रोदिषीति तं ब्रह्मारुदन्तं प्रत्युवाच ह ॥ ३ ॥

नित्यप्रलयहेतोरधर्मादेस्तामसस्य प्रसङ्गाद्भृगुसर्गमतिक्रम्य पूर्वोक्तकौमारसर्गान्तर्गतंतामसं रुद्रसर्गंप्रपञ्चयितुं प्रस्तौति कथित इति ॥१-३॥

नाम देहीतितं सोऽथ प्रत्युवाच प्रजापतिः । रुद्रस्त्वं देव नाम्नाऽसि मारोदीर्धैर्यमावह ॥

एवमुक्तः पुनः सोऽथ सप्तकृत्वो रुरोद वै ॥ ४॥

नामेति ॥ रोदनद्रवणाभ्यां रुद्रनामनिरुक्तिः। रोदनाद्द्रवणाच्चैव रुद्रनाम्नाऽभिविश्रुतः इतिवायूक्तेः ॥४॥

ततोऽन्यानि ददौ तस्मै सप्त नामानि वै प्रभुः । स्थानानि चैषामष्टानांपत्नीः पुत्रांश्च स प्रभुः॥ ५॥

भवं शर्वमथेशानं तथा पशुपतिं द्विज । भीममुग्रं महादेवमुवाच स पितामहः ॥ ६ ॥

तत इति ॥ नामानि-रुद्रभवादीनि, पत्नीः-सुवर्चलादिकाः ॥ ५, ६ ॥

चक्रे नामान्यथैतानि स्थानान्येषां चकार सः । सूर्यों जलं महीवह्निर्वायुराकाशमेव च ॥

दीक्षितो ब्राह्मणः सोम इत्येतास्तनवः क्रमात् ॥ ७ ॥

सुवर्चला तथैवोषा सुकेशीचापरा शिवा । स्वाहा दिशस्तथा दीक्षा रोहिणी च यथाक्रमम् ॥८॥

चक्रेनामानीति ॥ अत्र वह्निर्वायुरिति पाठक्रमो नविवक्षितः, अग्नेर्देवतापत्नीपुत्राणां पशुपतिस्वाहास्कन्दानां पञ्चमस्थाने वक्ष्यमाणत्वात्॥ ७, ८ ॥

सूर्यादीनांद्विजश्रेष्ठ रुद्राद्यैर्नामभिः सह । पत्न्यस्स्मृता महाभाग तदपत्यानि मे शृणु ॥९॥

सूर्यादीनामिति॥ सुर्यादीनां–रुद्रमूर्तीनाम् ॥९ ॥

एषां सूतिप्रसूतिभ्यामिदमापूरितं जगत् ॥ १० ॥

शनैश्चरस्तथा शुक्रो लोहिताङ्गो मनोजवः । स्कन्दः सर्गोऽथ सन्तानो बुधश्चानुक्रमात्सुताः ॥११॥

एषामिति॥ सुतिप्रसूतिभ्याम्-मृतिः-पुत्रादिः, प्रसूतिः-पौत्रादिः ॥१०, ११॥

एवंप्रकारो रुद्रोऽसौ सतीं भार्यामनिन्दिताम्। उपयेमे दुहितरं दक्षस्यैव प्रजापतेः ॥ १२॥

दक्षकोपाच्चतत्याजसा सतीस्वकलेवरम् । हिमवद्दुहिता साऽभून्मेनायां द्विजसत्तम ॥ १३ ॥

उपयेमे पुनश्चोमामनन्यां भगवान्हरः ॥ १४ ॥

देवौ धातृविधातारौ भृगोः ख्यातिरसूयत । श्रियं च देवदेवस्य पत्नी नारायणस्य या ॥ १५ ॥

एवमिति ॥ सतीं – सतीनाम्नीम् ॥ १२-१५ ॥

मैत्रेयः—-

क्षीराब्धौ श्रीस्समुत्पन्ना श्रूयतेऽमृतमन्थने । भृगोः ख्यात्यां समुत्पन्नेत्येतदाहकथं भवान् ॥१६॥

मैत्रेयश्चोदयति -क्षीराब्धाविति ॥ १६ ॥

श्रीपराशरः—

नित्यैवैषा जगन्माता विष्णोश्रीरनपायिनी । यथा सर्वगतो विष्णुस्तथैवेयं द्विजोत्तम ॥ १७ ॥

परिहरति–नित्येति ॥
विष्णोः-
जगत्-पितुर् विष्णोर् अनपायिन्य् एषा
जगन्-मातृत्वेन तद्वन् नित्या ।
तस्याश् च विष्णोर् इवाविर्भाव-तिरोभावौ स्तः ।
सा पूर्वं भृगोः सुतात्वेनाविर्भूता,
पश्चाद् इन्द्रस्य दुर्वाससश् शापात् तिरो-भूत्वा
ऽमृतमथने प्रादुर्भूता ।
अतो न विरोधः।
यथेति ।
सर्व-गतो विष्णुः यथा-यत्स्वभावः, इयमपि तथा - तत्स्वभावेति, विष्णोः सर्वगतत्व-सत्य(/प्रत्यग्)-ज्ञानादि-स्वरूप-कल्याण-गुणादीनाम् अतिदेशः । अथवा भगवान् विभुत्वेन सर्वगतः; इयं च सर्वगता ॥ १७ ॥ +++(5)+++

प्रक्षेपः (द्रष्टुं नोद्यम्)

अथवा भगवान् विभुत्वेन सर्वगतः; अस्यास् तच्-छक्ति-वशाद् अणुत्वेऽपि तत्रतत्र संधानात् सर्व-गत्वम् उक्तम् । इयं च सर्वगता ।

अयं द्वितीयः पक्षः प्रक्षिप्त इति भाति, यतः -

  • केषुचित् कोशेषु विद्यते, केषुचिन् न। एवं तत्र सन्देहास्पदांशाः (प्राक्तनसंस्करणेष्व् आवरणेषु स्थापिताः अपि?) निश्चिता इव प्रकाशिता अण्णङ्गरार्यप्रभृतिभिः।
    • There is a version published in 1882 at Madras, edited by Vavilla Anantanarayana Shastri, and Vaavilla Ramaswamy Shastri. There is one more published earlier than 1882 in Telugu at Madras. This has the following commentary … - anutva is not mentioned. इत्य् अनन्तरङ्गाचार्यजो नरसिंहः।
  • “सर्व-गतो विष्णुः यथा-यत्स्वभावः, इयमपि तथा” इत्येव पक्षः शाब्दबोधानुकूलः।
  • न हि कश्चिन् महान् एकस्य परस्परविरुद्ध-पक्षाव् आश्रित्य व्याख्यायात्।
  • विष्णुचित्तस्य साक्षाच्-छिष्यो नडातूर्-अम्माळ्-महाशयः प्रथमपक्षम् एव १० श्लोकैर् विशदीचकार प्रपन्न-पारिजाते भगवत्-परिजनोपासना-पद्धतौ - “गुणतश् च स्वरूपेण व्याप्तिस् साधारणी मता ॥ मया यथा जगद् व्याप्तं स्वरूपेण स्वभावतः तया व्याप्तम् इदं सर्वं नियन्त्री च तथेश्वरी ॥"।
  • अग्रिमे श्लोकय् एव “तयोः सर्वात्मकत्वमनपायित्वम्” इत्य् उक्तम्। अस्यैवाध्यायस्यान्ते स्पष्टम् उच्यते - सर्वस्योभयात्मकत्वे ऽपीत्यादि।

अर्थो विष्णुरियं वाणी नीतिरेषा नयो हरिः ।
बोधो विष्णुरियं बुद्धिधर्मोऽसौ सत्क्रिया त्वियम् ॥१८॥

तयोः सर्वात्मकत्वमनपायित्वं चोपपादयति-अर्थ इति ॥ अर्थः-शब्दवाच्यः; नीतिः-न्यायशास्त्रम्।नयो-न्यायः। बुद्धिः-अध्यवसायात्मकमन्तःकरणम्, तत्कार्यो निश्चयो बोधः । सत्क्रिया-यागादिः। धर्मःतदुत्पाद्यमदृष्टम् ॥ १८ ॥

स्रष्टा विष्णुरियं सृष्टिः श्रीभूमिर्भूधरो हरिः । सन्तोषो भगवाल्लँक्ष्मीस्तुष्टिमैत्रेय शाश्वती ॥ १९ ॥

स्रष्टेति॥ अलंबुद्धिस्तुष्टिः । तदभिव्यक्तं सुखं सन्तोषः; शाश्वतीति लक्ष्म्या विशेषणम् ॥ १९॥

इच्छा श्रीभगवान्कामो यज्ञोऽसौ दक्षिणा त्वियम् । आज्याहुतिरसौ देवी पुरोडाशो जनार्दनः॥ २०॥

इच्छेति ॥ इच्छा–अपेक्षा; तज्जन्योऽभिनिवेशः कामः ॥ २०॥

पत्नीशाला मुने लक्ष्मीः प्राग्वंशो मधुसूदनः । चितिर्लक्ष्मीर्हरिर्यूप इध्मा श्रीर्भगवान्कुशः ॥ २१ ॥

पत्नीशालेति ॥ इध्मा–समित्। आर्षत्वात् टाप् ॥ २१ ॥

सामस्वरूपी भगवानुद्गीतिः कमलालया।स्वाहा लक्ष्मीर्जगन्नाथो वासुदेवो हुताशनः ॥ २२॥

शंकरोभगवाञ्छौरिर्गौरी लक्ष्मीर्द्विजोत्तम । मैत्रेय केशवः सूर्यस्तत्प्रभा कमलालया ॥ २३॥

विष्णुः पितृगणः पद्मा स्वधा शाश्वतपुष्टिदा। द्यौः श्रीःसर्वात्मको विष्णुरवकाशोतिविस्तरः ॥ २४॥

सामस्वरूपीति ॥ सगानोमन्त्रः साम, तद्गानविशेष उद्गीतिः ॥ २२–२४ ॥

शशाङ्कश्श्रीधरः कान्तिः श्रीस्तथैवानपायिनी । धृतिर्लक्ष्मीर्जगच्चेष्टा वायुस्सर्वत्रगो हरिः ॥ २५॥

जलधिर्द्विज गोविन्दस्तद्वेला श्रीर्महामुने । लक्ष्मीस्वरूपमिन्द्राणी देवेन्द्रो मधुसूदनः ॥ २६ ॥

शशाङ्क इति ॥ वायुः–जगत्प्राणः, धृतिः-धारणं, जगच्चेष्टा च प्रवहादिप्राणादिरूपवायुकृत्यम्,॥२५,२६॥

यमश्चक्रधरस्साक्षाद्रुमोर्ण कमलालया । ऋद्धिः श्रीः श्रीधरोदेवः स्वयमेव धनेश्वरः ॥ २७॥

यम इति ॥ यमस्यपत्नी धूमोर्णा।ऋद्धिः कुबेरस्य ॥ २७ ॥

गौरी लक्ष्मीर्महाभाग केशवो वरुणः स्वयम् । श्रीर्देवसेना विप्रेन्द्र देवसेनापतिर्हरिः ॥ २८ ॥

गौरीति ॥गौरी-वरुणस्यपत्नी ।देवसेना-स्कन्दभार्या ॥ २८ ॥

अवष्टम्भो गदापाणिः शक्तिर्लक्ष्मीर्द्विजोत्तम । काष्ठा लक्ष्मीर्निमेषोऽसौ मुहूर्तोऽसौ कला त्वियम्॥२९॥

अवष्टभ इति ॥ अवष्टंभः-आधारो बलंवा ॥ २९ ॥

ज्योत्स्नालक्ष्मीः प्रदीपोऽसौ सर्वस्सर्वेश्वरो हरिः । लताभूता जगन्माताश्रीर्विष्णुर्द्रुमसंज्ञितः॥ ३० ॥

विभावरी श्रीर्देवोऽसौ देवश्चक्रगदाधरः । वरप्रदो वरोविष्णुर्वधूः पद्मवनालया ॥ ३१ ॥

नदस्वरूपीभगवाञ्छ्रीर्नंदीरूपसंस्थिता । ध्वजश्च पुण्डरीकाक्षः पताका कमलालया ॥ ३२ ॥

ज्योत्स्नेति॥ ज्योत्स्ना-प्रभा ॥ ३०-३२ ॥

तृष्णा लक्ष्मीर्जगन्नाथोलोभो नारायणः परः । रती रागश्च मैत्रेय लक्ष्मीर्गोविन्द एव च ॥ ३३ ॥

किं चात्र बहुनोक्तेनसंक्षेपेणेदमुच्यते ॥ ३४ ॥

तृष्णेति ॥देयस्यादित्सा निषिद्धलिप्सा च लोभः । लब्धेऽपर्याप्तधीस्तृष्णा। रतिः-प्रियसंगमजा ।तत्कालप्रीतिः; तत्प्रकर्षों रागः ॥ ३३, ३४ ॥

देवतिर्यङ्-मनु(ष्येषु)ष्यादौ
पुन्नामा भगवान् हरिः ।
स्त्रीनाम्नी श्रीश्च विज्ञेया
नानयोर्विद्यते परम्॥३५॥

इति श्रीविष्णुपुराणे प्रथमेंशेअष्टमोऽध्यायः ॥ ८॥

देवेति ॥
अनयोः- आभ्यां परम् - अन्यत् ।
सर्वस्योभयात्मकत्वे ऽपि
तत्र-तत्राभिमुख्यातिशय-विशेषात्
अर्थ-वाण्य्-आदीनां तद्-आत्मकत्वम् उक्तम् ॥ ३५॥

इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते श्रीविष्णुपुराणव्याख्याने श्रीविष्णुचित्तीयेप्रधमेंशेऽष्टमोऽध्यायः ॥ ८ ॥