अथ षष्ठांशे सप्तमोऽध्यायः
केशिध्वज उवाच
न प्रार्थितं त्वया कस्मादस्मद्राज्यमकण्टकम् ।
राज्यलाभाद्विना नान्यत्क्षत्रियाणा मतिप्रियम् ॥ १ ॥
अथ केशिध्वनः क्लेशं मुमुक्षोः खाण्डिक्यस्य वैराग्यं परीक्षितुमाह-न प्रार्थितमिति ॥ प्रजापालनादेः क्षत्त्रधर्मस्य राज्यमूलत्वात्तदुपेक्षायां दोषात्किं राज्यं न प्रार्थितमिति भावः ॥ १ ॥
खाण्डिक्य उवाच
केशिध्वज निबोध त्वं मया न प्रार्थितं यतः ।
राज्यमेतदशेषं ते यत्र गृध्नन्त्यपण्डिताः ॥ २ ॥
यतः कारणान्न प्रार्थितं तच्छृण्वित्याह-केशिध्वजेति ॥ २ ॥
क्षत्रियाणामयं धर्मो यत्प्रजापरिपालनम् ।
वधश्च धर्मयुद्धेन स्वराज्यपरिपन्थिनाम् ॥ ३ ॥
तदेव कारणमाह-क्षस्त्रियाणमिति सार्धेन-क्षस्त्रियाणामिति ॥ सत्यम्, राज्ये सति प्रजारक्षणादिधर्मः ॥३॥
तत्राशक्तस्य मे दोषो नैवास्त्यपहृते त्वया ।
बन्धायैव भवत्येषा ह्यविद्याऽप्यक्रमोज्झिता ॥ ४ ॥
तत्रेति ॥ मम त्वशक्तस्य असक्तस्य च तत्र राज्ये त्वयाऽपहृते सति तदुपेक्षायां न धर्मलोपदोषो ऽनधिकारात्, सत्यधिकारे तदुपेक्षायां दोष इत्याह – बन्धायेति । अक्रमोज्झिता-विद्यमानेऽध्यधिकारे व्यक्ता अविद्या-प्रजापालनादिक्रिया बन्धाय-पापाय । हि शब्दो हेतौ ॥ ४ ॥
अल्पोपभोगलिप्सार्थमियं राज्यस्पृहा मम ।
अन्येषां दोषजा सैव धर्मं वै नानुरुध्यते ॥ ५ ॥
असक्तस्येत्येतद्विवृणोति—जन्मेति ॥ अन्येषां दोषजा-रागादिदोषजा राज्यस्पृहा, न धर्मानुरोधिनी । केवलमल्पोपभोगलिप्सार्थं भवति । इयं न ममेत्यन्वयः । जन्मोपभोगेति पाठे अन्येषां संबन्धिनी मम जन्मान्त-रोपभोगलिप्सैव । कुतः! अर्थमनुरुध्यते न धर्ममिति । अस्मिन् जन्मन्युपभोगलिप्सार्थमेवेति वा ॥ ५ ॥
न याच्ञा क्षत्रबन्धूनां धर्मयैतत्सतां मतम् ।
अतो न याचितं राज्यमविद्यान्तर्गतं तव ॥ ६ ॥
तर्हि पालनादिधर्मार्थम् अपहृतस्य राज्यस्य याच्ञा कर्तव्येत्यत्राह-न याच्ञेति ॥ क्षत्त्रबन्धूनां-क्षत्रियश्रेष्ठानाम् । अविद्यान्तर्गतं-पालनादिकर्तव्यान्तर्गतम् ॥ ६ ॥
राज्ये गृध्नन्त्यविद्वांसो ममत्वाहृतचेतसः ।
अहंमानमहापानमदमत्ता न मादृशाः ॥ ७ ॥
श्रीपराशर उवाच
प्रहृष्टःसाध्विति ततः प्राह केशिध्वजो नृपः ।
खाण्डिक्यजनकं प्रीत्या श्रूयतां वचनं मम ॥ ८ ॥
यत्र गृध्नन्त्यपण्डिता इत्येतद्विवृणोति – राज्य इति ॥ ७,८ ॥
केशिध्वज उवाच
अहं ह्यविद्यया कृत्युं तर्तुकामः करोमि वै ।
राज्यं यागांश्च विविधान्भोगैः पुण्यक्षयं तथा ॥ ९ ॥
योगस्वरूपं वक्ष्यन् तदन्तर्भूतम् अध्यात्मयोगाधिगमेनेति श्रुतिविहितं प्रकृतिपुरुष विवेकं विहितं कर्म चाह-अहं हीति ॥ अविद्यया-वर्णाश्रमविहितकर्मणा । मृत्युं-विद्योत्पत्तिविरोधि प्रारब्धकर्म, अन्येषा-मप्येष विनाश इति श्रुतेः ॥ ९ ॥
तदिदं ते मनो दिष्ट्या विवेकैश्वर्यतां गतम् ।
तच्छ्रूयतामविद्यायाःस्वरूपं कुलनन्दन ॥ १० ॥
तदिदमिति ॥ विवेकाख्यमैश्वर्यं विवेक एव वा ऐश्वर्यं यस्य तद्विवेकैश्वर्यं, तद्भावो विवेकैश्वर्यता । कर्माख्याविद्यायाः स्वरूपमाह-तच्छ्रूयतामिति सार्धेन । १० ॥
अनात्मन्यात्मबुद्धिर्या चास्वे स्वमिति या मतिः ।
संसारतरुसंभूतिबीजमेतद्द्विधा स्थितम् ॥ ११ ॥
अनात्मनीति ॥ अनात्मनि – देहे अहमिति भ्रमः, अस्वे-देहपोषकधारकादौ वस्तुनि स्वमिति । संसारफलकं काम्यकर्माविद्या सैव तरुस् तत्संभूतेर्बीजम् ॥ ११ ॥
पञ्चभूतात्मके देहे देही मोहतमोवृतः ।
अहं ममैतदित्युच्चैः कुरुते कुमतिर्मतिम् ॥ १२ ॥
आकाशवाय्वग्निजलपृथिवीभ्यः पृथक्स्थिते ।
आत्मन्यात्ममयं भावं कः करोति कलेवरे ॥ १३ ॥
एतद् द्विविधं च भ्रमं प्रपञ्चयति पञ्चभूतात्मक इत्यादि चतुर्भिः । पञ्चभूतात्मक इति ॥ देहे पश्चभूतात्मके कुमतिर्देही इदं देहाद्यहमेवेति, इदं क्षेत्रादि ममेति च मर्ति कुरुते । मोहतमः- पूर्वकर्मवासना ॥ १२,१३ ॥
कलेवरोपभोग्यं हि गृहक्षेत्रादिकं च कः ।
अदेहे ह्यात्मनि प्राज्ञो ममेदमिति मन्यते ॥ १४ ॥
कलेबर इति ॥ अदेहे आत्मनि– देशदन्यस्मिन्नात्मनि सति ॥ १४ ॥
इत्थं च पुत्त्रपौत्त्रेषु तद्देहोत्पादितेषु कः ।
करोति पण्डितःस्वाम्यमनात्मनि कलेवरे ॥ १५ ॥
इत्थं चेति ॥ अनात्मनि – आत्मनोऽन्यस्मिन् सति ॥ १५ ॥
सर्वं देहोपभोगाय कुरुते कर्म मानवः ।
देहश्चान्यो यदा पुंसस्तदा बन्धाय तत्परम् ॥ १६ ॥
उक्तेनाज्ञानद्वयेन देहोपभोगार्थं कर्म करोति, तच्च बन्धाय भवतीत्याह- सर्वमिति ॥ देहस्योपभोगाय नात्मनः । बन्धाय-देहान्तरोत्पादनाय ॥ १६ ॥
मृण्मयं हि यथा गेहं लिप्यते वै मृदंभसा ।
पार्थिवोऽयं तथा देहो मृदंब्वालेपनस्थितः ॥ १७ ॥
पञ्जभूतात्मकैर्भोगोः पञ्चभूतात्मकं वपुः ।
आप्यायते यदि ततः पुंसो भोगोऽत्र किं कृतः ॥ १८ ॥
देहोपभोगमेव दर्शयति मृण्मयं हीत्यादिद्वयेन ॥ १७,१८ ॥
अनेकजन्मसाहस्रीं संसारपदवीं व्रजन् ।
मोहश्रमं प्रयातोऽसौ वासनारेणुकुण्ठितः ॥ १९ ॥
प्रक्षाल्यते यदा सोऽस्य रेणुज्ञानोष्णवारिणा ।
तदा संसारपान्थस्य याति मोहश्रमः शमम् ॥ २० ॥
देहस्य पार्थिवत्वपाञ्चभौतिकत्वोक्तिर् मतभेदेन । तदिदमुभयविधमज्ञानमध्यात्म -ज्ञानेन निरस्यत इत्याइ-अनेकेति द्वयेन ॥ अनेकेति ॥ वासना-अज्ञानकर्मोभयवासना । मोहश्रमम्-अज्ञानजं दुःखम् ॥ १९,२० ॥
मोहश्रमे शमं याते स्वस्थान्तःकरणः पुमान् ।
अनन्यातिशयाबाधं परं निर्वाणमृच्छति ॥ २१ ॥
मोहेति ॥ अनन्यातिशयम् – अन्यातिशयरहितम् । अबाधम्-अदुःखम् । निर्वाणं-मोक्षसुखम् ॥ २१ ॥
निर्वाणमय एवायमात्मा ज्ञानमयोऽमलः ।
दुःखाज्ञानमया धर्मा प्रकृतेस्ते तु नात्मनः ॥ २२ ॥
निर्माणमात्मनः स्वरूपं न तु कर्मफलवदौपाधिकमित्याह-निर्माणमय इति । निर्वाणमय एवायमात्मा ज्ञानमयोऽमलः –निर्मलसुस्वरूपज्ञानरूप एवायमात्मा । यथोक्तं यथा न कियते ज्योत्स्ना मलप्रक्षालनान्मणेः । दोषप्रहाणान्न ज्ञानमात्मनः क्रियते तथा ॥ इति । न विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते संपद्याविर्भावः स्वेन” शब्दात्, यावदात्मभावित्वाद् इत्यादि । आगन्तुकचैतन्यादिगुणक आत्मेति वादो वेदबाह्यः । प्रकृतेस्ते तु नात्मन इति । प्राप्ताप्राप्त विवेकेन प्रकृतिसंबन्धनिबन्धनत्वाद् उक्तं, न त्वचेतनधर्माः । न हि देहस्य कारणानां वा सुखत्वाद्यनुसंधानसंभवः । पुरुषः प्रकृतिस्थो हि भुंक्ते इत्यादिविरोधश्च ॥ २२ ॥
जलस्य नाग्निसंसर्गस्थालीसंगात्तथापि हि ।
शब्दोद्रेकादिकान्धर्मांस्तत्करोति यथा नृप ॥ २३ ॥
तथाऽऽत्मा प्रकृतेःसंगादहंमानादिदूषितः ।
भजते प्राकृतान् धर्मानन्यस्तेभ्यो हि सोऽव्ययः ॥ २४ ॥
अत्र दृष्टान्तमाह -जलस्येति ॥ यथा स्वतः शीतमम्बु शब्दफेनादिरहितम्, एवमात्मा स्वत एव निर्मलानन्तज्ञानानन्दः, प्रकृतेस्सङ्गात्-तस्यास्सङ्गाद् आत्माअहंमानादिदूषितः । अग्निसंयुक्तस्थालीस्थानीया तापत्रययुक्ता प्रकृतिः । तथा प्राकृतान् धर्मान्-क्षुत्तृष्णादीन् स्वकीयान् मन्यते । भजते-तेन दुःखादिकं जायते ॥ २३, २४ ॥
तदेतत्कथितं बीजमविद्याया मया तव ।
क्लेशानां च क्षयकरं योगादन्यन्न विद्यते ॥ २५ ॥
खाण्डिक्य उवाच
तं ब्रवीहि महाभाग योगं योगविदुत्तम ।
विज्ञातयोगशास्त्रार्थस्त्वमस्यां निमिसंततौ ॥ २६ ॥
तदेतदिति ॥ तत्क्लेशप्रशमायालमिति प्रश्नस्य प्रतिवचनमाह-क्लेशानामिति । योगात्-भगवद्योगात् ॥ २५, २६ ॥
केशिध्वज उवाच
योगस्वरूपं खाण्डिक्य श्रूयतां गदतो मम ।
यत्र स्थितो न च्यवते प्राप्य ब्रह्मलयं मुनिः ॥ २७ ॥
योगस्वरूपमिति ॥ ब्रह्मलयं—ब्रह्मणि लयं, ब्रह्मभावमित्यर्थः । ये कर्मणा देवानपि यन्ति इतिवत् । यद्वा मेने चात्मानमच्युतम् ॥ २७ ॥
मन एव मनुष्याणां कारणं बन्धमोक्षयोः ।
बन्धाय विषयासंगि मुक्त्यै निर्विषयं मनः ॥ २८ ॥
अथ योगस्य स्वरूपं करणं विषयं फलं चाह-मन एवेत्यादिभिः ॥ २८ ॥
विषयेभ्यः समाहृत्य विज्ञानात्मामनो मुनिः ।
चिन्तयेन्मुक्तये तेन ब्रह्मभूतं परेश्वरम् ॥ २९ ॥
विषयेभ्य इति ॥ विज्ञानात्-प्रकृतिपुरुषेश्वरवैलक्षण्यज्ञानात् । तेन-मानसेन चिन्तयेदिति योगस्वरूपम् । परमेश्वरगिति विषयः ॥ २९ ॥
आत्मभावं नयत्येनं तद्बह्म ध्यायिनं मुनिम् ।
विकार्यमात्मनः शक्त्या लोहमाकर्षको यथा ॥ ३० ॥
फलमाह – आत्मभावमित्यादिना । आत्मभावमिति ॥ विकार्यमिति । अनाद्य विद्याकर्मवासनादेहैर्बद्धस्यात्मनो भगवज्ज्ञानेन तदवस्थानाशस्सर्वभावनानाश श्चात्यन्तिकलयशब्दवाच्यं विकार्यत्वम् । एवं विकार्य-मात्मानं चिन्तितं तद्ब्रह्मात्मभावं नयति । आत्मनो भावस्वभाव आत्मभावः सत्यकामत्वादिः, जक्षत् कीडन्नित्या-
दिव्यापारश्च । ब्राह्मण जैमिनिरुपन्यासादिभ्य इत्यादिसूत्रैर्व्यक्तस्य मुक्तस्य ब्रह्मणः क्रीडादीनामाविर्भाव उक्तः । अत्राप्युक्तं निर्वाणमय एवायमात्मेत्यादि । वक्ष्यति च प्रापणीयस्तथैवात्मा प्रक्षीणाशेषभावन इति । आकर्षकः – आकर्षको मणिरयस्कान्तः । आकर्षको हि लोहमात्मभावं नयति –स्वस्मिन् तिष्ठति स्थापयति, गच्छति गमयति, भ्रमति भ्रामयति । अनुकृतेस्तस्य च कामरूप्यनुसंचरन् वत्सो वा मातरं छाया वा सत्वम् इत्यादिश्रुतिशतं च । यद्वा दोषाकर्षकत्वादाकर्षक इत्यग्निरुच्यते । यथाऽग्निसङ्गात्कनक -मपदोषं प्रजायते । संक्लिष्टं वासुदेवेन मनुष्याणां तथा मनः ॥ यथाऽग्निरुद्धतशिखः कक्षं दहति सानिलः । तथा चित्तस्थितो विष्णुः प्राणिनां सर्वकिल्बिषम् ॥ यथेषिकातूलमग्नौ प्रोतं प्रदूयेत एवं हास्य सर्वे पाप्मानः प्रदूयन्ते इत्यादिभिर्भगतोऽग्निसाम्यमुक्तम् । अग्निवद्भावो हि कनकस्य दोषविगमाज्जायते । पूर्वं दोषसंस्पृष्टं तिरोहितस्वप्रभं
कनकमग्निर्हि स्वशक्त्या स्वसमानवर्णं करोति ॥ ३० ॥
आत्मप्रयत्नसापेक्षा विशिष्टा या मनोगतिः ।
तस्य ब्रह्मणि संयोगो योग इत्यभिधीयते ॥ ३१ ॥
एवं संक्षिप्योक्तं योगमध्यायशेषेण विस्तरतो दर्शयति-आत्मप्रयत्नेति ॥ विषयेष्वनादिवासनावासितत्वात् परमात्मनोऽत्यन्तापूर्वत्वाच्च दुरारोहत्वादात्म -प्रयत्नसापेक्षा विशिष्टा एका संततिश्चेति वक्ष्यमाणप्रकारा विशदतम-प्रत्यक्षतापन्ना निरस्तातिशयाह्लादरूपा पूर्वोक्तानन्तगुणकषायविशेषविशिष्टा वा या मनोगतिः, तस्या ब्रह्मणि संयोगः योगः । अनेनात्मपरमात्मनोर्योगो योग इति पक्षो निरस्तः ॥ ३१ ॥
एवमत्यन्तवैशिष्ट्ययुक्तधर्मोपलक्षणः ।
यस्य योगःस वै योगी मुमुक्षुरभिधीयते ॥ ३२ ॥
एवमिति ॥ उक्तप्रकारात्यन्तवैशिष्ट्ययुक्तो धर्मरूपो योगो यस्य, स मुमुक्षुर्योगीत्य भिधीयते । अत्र मोक्षसाधनं योगः, स च धर्मरूप इति वदन् वाक्यार्थज्ञानं मोक्षसाधनं, ज्ञानमविधेयमिति च वादिनो निरस्यति ॥ ३२ ॥
योगयुक्प्रथमं योगी युञ्जानो ह्यभिधीयते ।
विनिष्पन्नसमाधिस्तु परं ब्रह्मोपलब्धिमान् ॥ ३३ ॥
अथ योगिनोऽवस्थाभेदेन संज्ञाद्वयमाह-योगयुगिति ॥ प्रथमं युञ्जानः – योगे प्रकान्तो योगयुगित्यभिधीयते । साक्षात्कृतपरमात्मस्वरूपो विनिष्पन्न समाधिरित्यभिधीयते । ध्यानपर्यन्तसप्ताङ्गयोगनिष्ठस्य योगयुक्त्तवं
समाधिमतो योगित्वमिति विभागः ॥ ३३ ॥
यद्यन्तरायदोषेण दूष्यते चास्य मानसम् ।
जन्मान्तरैरभ्यसतो मुक्तिः पुर्वस्य जायते ॥ ३४ ॥
विनिष्पन्नसमाधिस्तु मुक्तिं तत्रैव जन्मनि ।
प्राप्नोति योगी योगाग्निदग्धकर्मचयोऽचिरात् ॥ ३५ ॥
तयोः पूर्वस्यानेकजन्मस्वभ्यासान्मुक्तिः, इतरस्य तत्रैवेत्याह-यद्यन्तरायेत्यादिद्वयेन ॥ यद्यन्तरायेति ॥ अन्तरायाः- प्रकान्तयोगानां यावद्वारणम् आलस्यादयो दश, धारणातः परं प्रतिमाद्याः षट् । तथा च वायु-संहितायाम् आलस्यं व्याधयस्तीवाः प्रमादस्स्थानसंशयः । अनवस्थितचित्तत्वमश्रद्धा भ्रान्तिदर्शनम् ॥ दुःखानि दौर्मनस्यं च विषयेषु च लोलता । दशैते युञ्जतां पुंसामन्तरायाः प्रकीर्तिताः ॥ शान्तेष्वेतेषु विघ्नेषु योगसक्तस्य योगिनः । उपसर्गाः प्रवर्तन्ते दिव्याः षट् सिद्धिसूचकाः ॥ प्रतिभा श्रवणं वार्ता दर्शनास्वादवेदनाः । सूक्ष्मे चान्तर्हितेऽतीते विप्रकृष्टे त्वनागते ॥ प्रतिभा कथ्यते योऽर्थे प्रतिभासो यथातथम् । श्रवणं सर्वशब्दानां श्रवणं स्वप्रयत्नतः ॥ वार्ता वार्तासु विज्ञानं सर्वेषामेव देहिनाम् । दर्शनं नाम दिव्यानां दर्शनं चाप्रयत्नतः ॥ तथा स्वादश्च दिव्येषु रसेष्वास्वाद उच्यते । स्पर्शनाधि -गमस्तद्वद्वेदना नाम विश्रुता ॥ गन्धादीनां च दिव्यानामाब्रह्म- भवनावधि ॥ इति ॥ तथा अहिंसादिफलभूतास् तत्सन्निधौ वैरत्याग इत्यादिना पतञ्ज लिनोक्तास्सङ्ग स्यापादिकाः सिद्धयोऽष्टैश्वर्याद्याश्च निष्कामत्यान्तरायाः, प्रतिमादिष्वशुद्धेषु गुणेष्वासक्तचेतसाम् । न सिद्धयेत्परमैश्वर्य मक्षयं सार्वकामिकम् ॥ इति वायूक्तेः ॥ ३४, ३५ ॥
ब्रह्मचर्यमहिंसां च सत्यास्तेयापरिग्रहान् ।
सेवेत योगी निष्कामो योग्यतां स्वमनो नयन् ॥ ३६ ॥
योगाङ्गेषु प्रथमं यमनियमावाह-ब्रह्म वर्यमिति ॥ ब्रह्मचर्य मैथुनत्यागः । निषिद्धद्रव्याणामनादानम-परिग्रहः ॥ ३६ ॥
स्वाध्यायशौचसंतोषतपांसि नियतात्मवान् ।
कुर्वीत ब्रह्मणि तथा परस्मिन्प्रवणं मनः ॥ ३७ ॥
स्वाध्यायेति ॥ तपः-उपवासादि । परस्मिन् ब्रह्मणि मनः प्रावण्यमेको गुणः ॥ ३७ ॥
एते यमाःसनियमाः पञ्च पञ्च च कीर्तिताः ।
विशिष्टफलदाः काम्या निष्कामानां विमुक्तिदाः ॥ ३८ ॥
तत इति ॥ विशिष्टफलदाः – सकामानाम् ॥ ३८ ॥
एकं भद्रासनादीनां समास्थाय गुणैर्युतः ।
यमाख्यैर्नियमाख्यैश्च युञ्जीत नियतो यतिः ॥ ३९ ॥
एकमिति ॥ आदिशब्देन स्वस्तिकादीनि गृह्यन्ते । भद्धासनादीनां लक्षणं याज्ञवल्क्येनोक्तम् ॥ ३९ ॥
प्राणाख्यमनिलं वश्यमभ्यासात्कुरुते तु यत् ।
प्राणायामःसविज्ञेयःसबीजोऽबीज एव च ॥ ४० ॥
प्राणेत्यादि । सबीजः – सगर्भः, सालबनः भगवन्मूर्तिध्यानमन्त्रजपयुक्तः । अबीजस् तद्विधुरः ॥ ४० ॥
परस्परेणाभिभवं प्राणापानौ यथाऽनिलौ ।
कुरुतःस द्विधा नेन तृतीयःसंयमात्तयोः ॥ ४१ ॥
रेचकादिरूपेण प्राणायामं त्रिधा दर्शयति-परस्परेणेति ॥ प्राणेन- निश्वासेन, अपानस्य-उच्छ्वासस्य, अभिभवः – निरोधः प्रथमः प्राणायामो रेचकः । विपरीतः पूरकाख्यो द्वितीयः । स द्विधा तेनेति । सः-प्राणायामस् तेन–उक्तेन प्रकारद्वयेन द्विधा । स द्विधानेनेति पाठान्तरेऽप्येवमेवार्थः । तयोः- उच्छ्वासनिश्वासयोर्युग- पत्संयमातृतीयः कुम्भकाख्यः । एते त्रयोऽपि प्रत्येकं मात्राभेदास्त्रिधा । यथोक्तम् –मात्राद्वादशको मन्द-
चतुर्विंशतिमात्रकः । मध्यमः प्राणसंरोधः षटूत्रिंशन्मात्र उत्तमः ॥ प्रस्वेदकम्पनोत्थान -जनकास्ते यथाक्रमं जानु प्रदक्षिणीकृत्य न द्रुतं न विलम्बितम् ॥ अंगुलीस्फोटनं कुर्यात्सा मात्रेति प्रकीर्तिता । प्राणस्वदेद्दजो वायु-रायामस्तन्निरोधनम् ॥ तद्रेचकः पूरकश्च कुम्भकश्च त्रिधोच्यते । नासिका पुटमङ्गुल्या निपीड्यैकं परेण तु ॥ औदरं रेचमेद्वायुं तदाऽयं रेचकः स्मृतः । बाह्येन वायुना देहं धृतिवत्परिपूरयेत् । नासापुटेनापरेण पूरणात्पूरको मतः ॥ न मुञ्चति न गृह्णाति वायुमन्तर्बहिस्स्थितम्। संपूर्णकुम्भवत्तिष्ठेदचलस्स तु कुम्भकः ॥ रेचकादित्रयाभ्यासो नासाशोधनपूर्वकः । स्वेदोक्रमणपर्यन्तः प्रोक्तो योगानुशासने ॥ अगर्भश्च सगर्भश्च प्राणायामो द्विधा पुनः । जपध्यानं विनाऽगर्भः सगर्भस्तत्समन्वयात् ॥ अगर्भाद्गर्भसंयुक्तः प्राणायामश्शताधिकः ॥ इति ॥ ४१ ॥
तस्य चालंबनवतः स्थूलरूपं द्विजोत्तम ।
आलंबनमनन्तस्य योगिनोऽभ्यसतः स्मृतम् ॥ ४२ ॥
प्राणायाम सबीजनिर्बीज तथा द्विधाऽभिप्रेत्य तत्र सबीजस्यालम्बनमाह-तस्येति ॥ स्थूलरूपं-मूर्तं भगवतो रूपमिति वक्ष्यमाणम् । रूपस्य स्थूलत्वं भगवत्स्वरूपापेक्षया ॥४२॥
शब्दादिष्वनुरक्तानि निगृह्याक्षाणि योगवित् ।
कुर्याच्चित्तानुकारीणि प्रत्याहारपरायणः ॥ ४३ ॥
वश्यता परमा तेन जायतेऽतिचलात्मनाम् ।
इन्द्रियाणामवश्यैस्तैर्न योगी योगसाधकः ॥ ४४ ॥
प्रत्याहारमाह- शब्दादिष्विति ॥४३, ४४१॥
प्राणयामेन पवने प्रत्याहारेण चेन्द्रिये ।
वशीकृते ततः कुर्यात्स्थितं चेतः शुभाश्रये ॥ ४५ ॥
प्राणायामेनेति ॥ प्राणायामेन पवने प्रत्याहारेण चेन्द्रिये वशीकृते सति चेतश्शुभाश्रये पूर्वोक्तभगवत्-स्थूलरूपे स्थितं कुर्यात् । बनेन श्लोकेन धारणोक्ता ॥ ४५ ॥
खाडिक्य उवाच
कथ्यतां मे महाभागा चेतसो यः शुभाश्रयः ।
यदाधारमशेषं तद्धन्ति दोषमलोद्भवम् ॥ ४६ ॥
कथ्यतामिति ॥ तच्चेतः दोषमलोद्भवं – दोषमल योरुद्भवम् । दोषः- कल्मषं, मलं-रागादि ॥ ४६ ॥
केशिध्वाज उवाच
आश्रयश्चेतसो ब्रह्म द्विधा तच्च स्वभावतः ।
भूप मूर्तममूर्तं च परं चापरमेव च ॥ ४७ ॥
अथ शुभाश्रयं वक्ष्यन् प्रथमं हेयमशुभाश्रयं दर्शयति आश्रय इति ॥ चेतस आश्रयो ब्रह्म, तच्च स्वरूपतो द्विधा मूर्तममूर्तं च । मूर्त सशरीरं हिरण्यगर्भादिबद्धरूपम् । अमूर्तमशरीरं मुक्तरूपम् । परत्वापरत्वे व्युत्क्रमेण तयोर्विशेषणे । ब्रह्मात्मकत्वात् तयोर्ब्रह्म शब्दनिर्देशः । अनयोरपि भगवद्रूपत्वेन ध्येयत्वप्रसङ्गात्तत्प्रतिषे-ध्याय प्रस्तावः ॥ ४७ ॥
त्रिविधा भावना भूप विश्वमेतन्निबोधताम् ।
ब्रह्माख्या कर्मसंज्ञा च तथा चैवोभयात्मिका ॥ ४८ ॥
त्रिविधेति ॥ अनन्तरोक्तं मूर्तामूर्तात्मकमेतद्विश्वं त्रिविधा भावना-भावनात्रयात्मकमित्यर्थः । तां-भावना निबोध । ब्रह्माख्येत्यादि । ब्रह्मकर्मादिविषयतया ब्रह्मादिव्यपदेशः ॥ ४८ ॥
कर्मभावात्मिका ह्येकाब्रह्मभावात्मिका परा ।
उभयात्मिका तथैवान्या त्रिविधा भावभावना ॥ ४९ ॥
एतदेवाह—कर्मभावात्मिकेति ॥ भावभावना – भावो मनोव्यापारः, भावेन भावना भावभावना । भावः पदार्थों वा ॥ ४९ ॥
सनन्दनादयो ये तु ब्रह्मभावनया युताः ।
कर्मभावनया चान्ये देवाद्याः स्थावरावराः ॥ ५० ॥
केषां का भावनेत्यत्राह — सनन्दनादय इति ॥ स्थावरावराः- स्थावरचरमाः । स्थावराणां हिमवदादीनां हि कर्मस्वधिकारः श्रूयते । बिल्वा मार्दङ्गिका ह्यासन् कीडन्त्योषधयस्सदा ॥ इति च ॥ ५० ॥
हिरण्यगर्भादिषु च ब्रह्मकर्मात्मिकां द्विधा ।
बोधाधिकारयुक्तेषु विद्यते भावभावना ॥ ५१ ॥
हिरण्यगर्भादिष्विति ॥ संसारदशायामधिकारबोधयुक्तेषु भावनात्रयान्वय इत्याह -बोधाधिकारेति ॥ अधिकारो नाम मत्फलसाधनत्वान् मदर्थमिदं कर्मेति कर्मण्यैश्वर्यत्रोधः ॥ ५१ ॥
अक्षीणेषु समस्तेषु विशेषज्ञानकर्मसु ।
विश्वमेतत्परं चान्यद्भेदभिन्नदृशां नृणाम् ॥ ५२ ॥
विश्वमेतदुक्तमर्थरूपं विशेषज्ञानकर्मस्वक्षीणेष्वित्याह-अक्षीणेष्विति ॥ विशेषज्ञानं देवमनुष्यादिभेदभिन्न-तयाऽऽत्मानुसंधानं तत्तदभिमानानुरूपम् । कर्म–विशेषकर्म । अथ पराख्यं मूर्तरूपमाह-परं चान्यदित्यादिना परमात्मन इत्यन्तेन । मेदभिन्नदृशामिति पञ्चम्यर्थे षष्ठी । ये पूर्वश्लोके अक्षीणसमस्त विशेषज्ञानकर्माण उक्तास् तेभ्यो मेदभिन्नदृग्भ्यो ब्रह्मसनकादिभ्योऽन्यत् तत्पराख्यम् ॥ ५२ ॥
प्रत्यस्तमितभेदं यत्सत्तामात्रमगोचरम् ।
वचसामात्मसंवेद्यं तज्ज्ञानं ब्रह्मसंज्ञितम् ॥ ५३ ॥
अन्यत्वमुपपादयति प्रत्यस्तमितेति ॥ प्रयस्तमितभेदम्-अशरीरत्वेन जात्यादिभेद रहितम्, अत एव वचसामगोचरम् । सत्तामात्रम् -अपक्षयादिविकार -पञ्चकरहितम् । आत्मसंवेद्यं-स्वयंप्रकाशम् । ज्ञानं-ज्ञान- गुणैकनिरूपणीयम् । तद्गुणसारत्वादिति ह्युक्तम् । ज्ञानस्वरूपत्वं त्वात्मसंवेद्यमित्यनेन दर्शितं ब्रह्मात्मकत्वाद् ब्रह्मसंज्ञितमित्युक्तं यदेवं रूपं ज्ञानं तद्ब्रह्मसंज्ञितमित्यन्वयः ॥ ५३ ॥
तच्च विष्णोः परं रूपमरूपाख्यमनुत्तमम् ।
विश्वस्वरूपवैरूप्यलक्षणं परमात्मनः ॥ ५४ ॥
तच्चेति ॥ अरूपाख्यम् – अमूर्त्ताख्यं पूर्वोक्त विश्वरूपवैरूप्यलक्षणम् । अन्वयलक्षणासंभवेन मूर्तरूपाद् व्यतिरेकलक्षणम् । तच्च परमात्मनो विष्णोः परं रूपम् ॥ ५४ ॥
न तद्योगयुजा शक्यं नृप चिन्तयितुं यतः ।
ततःस्थूलं हरे रूपं चिन्तयेद्विश्वगोचरम् ॥ ५५ ॥
नेति ॥ तद् योगयुजा—योगे प्रकान्तेन, चिन्तयितुं न शक्यम् । तेन स्थूलरूपं चिन्त्यमित्याह-तत इति । स्थूलं-पूर्वोकं बद्धरूपम् ॥ ५५ ॥
हिरण्यगर्भो भगवान्वासुदेवः प्रजापतिः ।
मरुतो वसवो रुद्रा भास्करास्तारका ग्रहाः ॥ ५६ ॥
गन्धर्वयक्षदैत्याद्याः सकला देवयोनयः ।
मनुष्याः पशवः शैलाःसमुद्राःसरितो द्रुमाः ॥ ५७ ॥
भूप भूतान्यशेषाणि भूतानां ये च हेतवः ।
प्रधानादिविशेषान्तं चेतनाचेतनात्मकम् ॥ ५८ ॥
विस्तरेण तदेव दर्शयति-हिरण्यगर्भ इत्यादिना मूर्तमेतद्धरे रूपमित्यन्तेन ॥ ५६-५८ ॥
एकपादं द्विपादं च बहुपादमपादकम् ।
मूर्तमेतद्धरे रूपं भावनात्रितयात्मकम् ॥ ५९ ॥
एतत्सर्वमिदं विश्वं जगदेतच्चराचरम् ।
परब्रह्मस्वरूपस्य विष्णोः शक्तिसमन्वितम् ॥ ६० ॥
एकपादमिति श्लोंकद्वयस्यैकान्वयः । भावनात्रितयात्मकमेतत्सर्वमित्युक्तम् । एतत्स्थूलरूपं चिन्तयितुं शक्यमपि भावनात्रितयात्मकम् । अतोऽशुद्धत्वादशुभाश्रय इति भावः । इदं विश्वमिति विश्वमेतन्निबोधतामित्युक्त- स्योपसंहारः । जगदेतच्चराचरम् इत्यादि विष्णेश्शक्ति समन्वितमित्यन्तमेकं वाक्यम् । एवं विधमेतज्जगद्विष्णोः शक्तित्वेन समन्वितम् । शक्तिश्शरीरम् अंश इति पर्यायः । शरीरतया तत्संकल्पशक्त्या व्याप्तमिति च, अस्मच्छरीरवत् । केचिद् एतत्सर्वमिति हिरण्यगर्भादि इदं विश्वमिति सनन्दनादि जगदेतदिति सुरनरादि च परामृश्य इदं त्रितयं विष्णोश्शक्तिसमन्वितमिति योजयन्ति । तत्पक्षे भावनात्रितयात्मकमित्यस्य पूर्वेणोत्तरेण वा संबन्धः ॥ ५९, ६० ॥
विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथाऽपरा ।
अविद्याकर्मसंज्ञाऽन्या तृतीया शक्तिरिष्यते ॥ ६१ ॥
तत्र परा विष्णुशक्तिः प्रत्यस्तमितेत्यादिनोक्ता, क्षेत्रज्ञाख्या अपरा हिरण्यगर्म इत्यादिनोक्तेत्याइ-विष्णु- शक्तिरिति ॥ अथ यागादिकर्माख्यमविद्या पर्यायं विष्णोश्शक्त्यन्तरमाह – अविद्येति ॥ ६१ ॥
यया क्षेत्रज्ञशक्तिःसा वेष्टिता नृपसर्वगा ।
संसारतापानखिलानवाप्नोत्यतिसंततान् ॥ ६२ ॥
तत्स्वरूपमाह – ययेति ॥ सर्वगा-कर्मनिमित्तसर्वशरीरगा ॥ ६२ ॥
तया तिरोहितत्वाच्च शक्तिः क्षेत्रज्ञसंज्ञिता ।
सर्वभूतेषु भूपाल तारतम्येन लक्ष्यते ॥ ६३ ॥
तयेत्यादि ॥ तारतम्येन ज्ञानानन्दतारतम्येन ॥ ६३ ॥
अप्राणवत्सु स्वल्पा सा स्थावरेषु ततोऽधिका ।
सरीसृपेषु तेभ्योऽपि ह्यतिशक्त्या पतत्त्रिषु ॥ ६४ ॥
तारतम्यमेव दर्शयति — अप्राणवत्स्विति ॥ शिलाकाष्ठादिषु सा-क्षेत्रज्ञशक्तिः स्वल्पा ज्ञानानन्दादिना, न तु स्वरूपेण । सरीरसृपेषु तेभ्योऽप्यधिकेति शेषः । अतिशक्त्या-ज्ञानशक्त्या अधिकेत्यर्थः ॥ ६४ ॥
पतत्त्रिभ्यो मृगास्तेभ्यस्तच्छक्त्या पशवोऽधिकाः ।
पशुभ्यो मनुजाश्चातिशक्त्या पुंसः प्रभाविताः ॥ ६५ ॥
तेभ्योऽपि नागगन्धर्वयक्षाद्या देवता नृप ॥ ६६ ॥
शक्रःसमस्तदेवेभ्यस्ततश्चातिप्रजापतिः ।
हिरण्यगर्भोऽपि ततः पुंसः शक्त्युपलक्षितः ॥ ६७ ॥
पतत्रिभ्य इति ॥ तच्छक्त्या-आत्मनो ज्ञानशक्त्या । प्रभाविताः- प्रभूताः कृताः ॥ ६५-६७ ॥
एतान्यशेषरूपाणि तस्य रूपाणि पार्थिव ।
यतस्तच्छक्तियोगेन युक्तानि नभसा यथा ॥ ६८ ॥
एतान्यप्राणवदादीनि हिरण्यगर्भान्तान्यशेषरूपाण्यविशेषेण तस्य शरीराणीत्याह-एतानीति ॥ तत्र हेतुमाह-यत इति ॥ यथा हि जीवस्य शरीरं जीवसंकल्पव्याप्तम्, एवं चेतनाचेतनात्मकं सर्वं भगवच्छक्तियोगेन व्याप्तं नियाम्यं धार्यं च । अतस्तच्छरीरम् । शक्तियोगेनेति । शक्तिरूपो योगः शक्तियोगः । शक्तिः- सामर्थ्यं, योगः– संकल्पः । नभसा यथेति संकल्पनैरन्तर्यमुक्तम् । महात्मा भूतभावनः यथाकाशः स्थितो नित्यम्
इत्यादि ॥ ६८ ॥
द्वितीयं विष्णुसंज्ञस्य योगिध्येयं महामते ।
अमूर्तं ब्रह्मणो रूपं यत्सदित्युच्यते बुधैः ॥ ६९ ॥
एवं भावनात्रयात्मकं भगवतो मूर्त रूपमुक्तम् । इदानीं मुक्तरूपममूर्त रूपमित्याह-द्वितीयमिति ॥ यत्सदित्युच्यते–सत्तामात्रमित्युच्यते । योगिध्येयं-निष्पन्नयोगेन ध्यातुं शक्यम्, तद्विष्णुसंज्ञस्य ब्रह्मणो मूर्तं द्वितीयं रूपमित्यन्वयः ॥ ६९ ॥
समस्ताः शक्तयश्चैता नृप यत्र प्रतिष्ठिताः ।
तद्विश्वरूपवैरूप्यं रूपमन्यद्धरेर्महत् ॥ ७० ॥
अथोक्तशक्तित्रयस्यास्त्रभूषणादिरूपेण नित्याश्रयभूतं जगदेककारणतयोक्तं भगवद्रूपं तस्य शुभाश्रयत्वं वक्तुमाह–समस्ता इति ॥ विश्वरूपवैरूप्यम्-उक्त विश्वरूपवैलक्षण्यं, रूपम्-शरीरम्, अन्यत्-द्रव्यान्तरम् । आदित्यवर्णं तमसः परस्तात्, अमृतो हिरण्मयः विद्यतः पुरुषादधि, महारजतं वासः पुण्डरीक- मेवमक्षिणी रुक्मवर्णं कर्तारमीशं रुक्माभम् इत्यादिवचनसिद्धम् । महत्— स्थूलम् । गुणतोऽपि महत्वं विवक्षितम् । एवंविधं रूपमस्यास्तीति सिद्धम् ॥ ७० ॥
समस्तशक्ति रूपाणि तत्करोति जनेश्वर ।
देवतिर्यङ्मनुष्यादिचेष्टावन्ति स्वलीलया ॥ ७१ ॥
समस्तशक्त्याश्रयं तद्रूपं भगवानेव जगदुपकाराय स्वलीलया देवतिर्यङ्मनुष्यादि -चेष्टावन्ति देवाद्यवताररूपाणि करोतीत्याह-समस्तेत्यादिद्वयेन ॥ समस्तेति । समस्त-
शक्तीति पदच्छेदः । समस्ताः शक्तयः यस्मिन् तत्तथोक्तम् । मन्वन्तरेष्वशेषेषु देवत्वेनाधि -तिष्ठति इति । प्रतिकल्पं चतुर्दशदेवावताराः, त्रिमूर्तिमध्यगत विष्ण्वादयश्च, मत्स्यादयस्तिर्यगवताराः, रामादयो मनुष्याषताराः, स्वलीलया न तु प्रयोजनान्तरेण । देवतिर्यङ्मनुष्याख्याचेष्टावन्तीति च पाठः ॥ ७१ ॥
जगतामुपकाराय न सा कर्मनिमित्तजा ।
चेष्टा तस्याप्रमेयस्य व्यापिन्यव्याहतात्मिका ॥ ७२ ॥
किंच, जगतामिति ॥ जगतामुपकाराय, न कर्मफलभोगाय सा-जन्मादिरूपा चेष्टा । तत्र जन्म-रूपा देवमनुष्यादिसर्व जातिव्यापिनी यथाह बहुधा विजायते इति । कर्मरूपा वृन्दावनगोकुलकालिय-हृदादिव्यापिनी । अव्याहतात्मिका-रावणशिशुपालबाणशक्रशर्वा -दिभिरप्रतिहता । न सा कर्मनिमित्तजेत्यनेन त्रिभावनातीतत्वाद् अवताराणामपि शुभाश्रयत्वं दर्शितम् ॥ ७२ ॥
तद्रूपं विश्वरूपस्य तस्य योगयुजा नृप ।
चिन्त्यमात्मविशुद्ध्यर्थं सर्वकिल्बिषनाशनम् ॥ ७३ ॥
यथाऽग्निरुद्धतशिखः कक्षं दहति सानिलः ।
तथा चित्तस्थितो विष्णुर्योगिनां सर्वकिल्बिषम् ॥ ७४ ॥
यद्यप्यनन्तस्यानन्तबद्धमुक्तरूपाणि सन्ति । तथापि व्यूहविभवादिरूपेण स्थितं तदेव भगवतो रूपं चिन्त्यमित्याह–तद्रूपमिति ॥ सर्वकिल्विषनाशनं – सर्वकर्मक्षयकरम् ॥ ७३, ७४ ॥
तस्मात्समस्तशक्तीनामाधारे तत्र चेतसः ।
कुर्वीत संस्थितिं सा तु विज्ञेया शुद्धधारणा ॥ ७५ ॥
यत एवं विलक्षणं योगयुजाऽभ्यासवशेन चिन्तयितुं शक्यं च, तस्मात्तत्र रूपे धारणां कुर्यादित्याह-तस्मादिति ॥ आधारशुद्ध्या धारणायाः शुद्धिः ॥ ७५ ॥
शुभाश्रयस्य चित्तस्य सर्वगस्याचलात्मनः ।
त्रिभावभावनातीतो मुक्तये योगिनो नृप ॥ ७६ ॥
शुभाश्रयत्वे त्रिभावभावनातीतत्वं हेतुमाह-शुभाश्रय इति ॥ शुद्धाश्रय इति च पाठः । स्वतस्सवे-गतस्य चञ्चलस्य विलक्षणविषये अचलात्मनस्सर्वविलक्षणत्वात् स शुभाश्रयः । अवताररूपाण्यपि भावनात्रयाती-तत्वेन मुक्तिहेतुतया च शुभाश्रय इति स्मृत्यादिभिरुक्तम् । एवं यो वेत्ति तत्त्वतः यादृशे वा मनस्स्थैर्यं रूपे बध्नाति चक्रिणः । नृसिंहवामनादीनाम् इत्यादिना शौनकः । श्रीसात्वते दशेन्द्रियाननं घोरं यो मनोरजनी- चरम् । विवेकशरजालेन शमं नयति योगिनाम् । ध्येयस्स एव विश्वात्मा सतोयजलदप्रभः । रक्तराजीवनयनो धनुश्शरकराङ्कित इत्यादिना प्रत्याविर्भावमुक्तम् ॥ ७६ ॥
अन्ये तु पुरुषव्याघ्र चेतसो ये व्यापाश्रयाः ।
अशुद्धास्ते समस्तास्तु देवाद्याः कर्मयोनयः ॥ ७७ ॥
एतद्व्यतिरिक्ताः पूर्वोक्ता बद्धमुक्ता ये ते अशुभाश्रया इत्याह–अन्ये त्विति ॥ अत्रापि शौनक आब्रह्मास्तम्बपर्यन्ता जगदन्तर्व्यवस्थिताः । प्राणिनः कर्मजनितास्संसार -वशवर्त्तिनः ॥ यतस्ततो न ते ध्याने ध्यानिनामुपकारकाः। अविन्द्यान्तर्गता स्सर्वे ते हि संसारगोचराः ॥ पश्चादुद्भूतबोधाश्च ध्याने नैवोपकारकाः। नैसर्गिको न वै बोधस्तेषामप्यन्यतो यतः ॥ तस्मात्तदमलं ब्रह्म निसर्गादेव बोधवत् । ध्येयम् इत्यादि ।
महाभारते ब्रह्माणं शितिकण्ठं च इत्यादि । एतदन्तास्तु गतयो ब्रह्माद्यास्समुदाहृता इत्यादि मनुः । कर्मयोनित्वमशुद्धिहेतुः ॥ ७७ ॥
मूर्तं भगवतो रूपं सर्वापाश्रयनिस्पृहम् ।
एषा वै धारण प्रोक्ता यच्चित्तं तत्र धार्यते ॥ ७८ ॥
यच्च मूर्तं हरे रूपं यादृक्चिन्त्यं नराधिप ।
तच्छ्रूयतामनाधारा धारमा नोपपद्यते ॥ ७९ ॥
प्रसन्नवदनं चारुपद्मपत्रोपमेक्षणम् ।
सुकपोलं सुविस्तीर्णललाटफलकोज्ज्वलम् ॥ ८० ॥
समकर्णान्तविन्यस्तचारुकुण्डलभूषणम् ।
कंबुग्रीवं सुविस्तीर्णश्रीवत्सांकितवक्षसम् ॥ ८१ ॥
अथ धारणाया ध्यानस्य चाश्रयरूपमाह-मूर्तमिति ॥ मूर्ते भगवतो रूप इति च पाठः । मूर्ते-स्थूले ॥ ७८-८१ ॥
वलित्रिभङ्गिना मग्ननाभिना ह्युदरेण च ।
प्रलंबाष्टभुजं विष्णुमथवापि चतुर्भुजम् ॥ ८२ ॥
समस्थितोरुजङ्घं च सुस्थिताङ्घ्रिवरांबुजम् ।
चिन्तयेद्ब्रह्मभूतं तं पीतनिर्मलवाससम् ॥ ८३ ॥
किरीटहारकेयूरकटकादिविभूषितम् ॥ ८४ ॥
वलीति ॥ त्रयो भङ्गा यस्य तत्त्रिभङ्गि । वलिभिस्त्रिभङ्गिना ॥ ८२-८४ ॥
शार्ङ्गशङ्खगदाखड्गचक्राक्षवलयान्वितम् ।
वरदाभयहस्तं च मुद्रिकारत्नभूषितम् ॥ ८५ ॥
चिन्तयेत्तन्मयो योगी समाधायात्ममानसम् ।
तावद्यावद्दृढीभूता तत्रैव नृप धारणा ॥ ८६ ॥
व्रजतस्तिष्ठतोऽन्यद्वा स्वेच्छया कर्म कुर्वतः ।
नापयाति यदा चित्तत्सिद्धां मन्येत तां तदा ॥ ८७ ॥
अथ धारणां विषयभेदेन चतुर्धा दर्शयति-शार्ङ्गेत्यादिना ॥ अष्टभुजत्वपक्षे शार्ङ्गादीनि षट् षण्णां धार्याणि, शिष्टभुजयोंः पद्मबाणौ, वराभये वा । चतुर्भुजत्वे शङ्खचक्रगदाब्जानि । तत्र शार्ङ्गेत्यादिना, तां तदेत्यन्तेन अस्त्रभूषणप्रत्यङ्गप्रधानाङ्ग -चतुष्टय विषया प्रथमा धारणोक्ता । अस्त्रप्रधानेयं धारणा ॥ ८५-८७ ॥
ततः शङ्खगदाचक्रशार्ङ्गीदिरहितं बुधः ।
चिन्तयेद्भगवद्रूपं प्रशान्तं साक्षसूत्रकम् ॥ ८८ ॥
तत इति ॥ ततश्शङ्खेत्यादिना साक्षसूत्रकमित्यन्तेन शङ्खाद्यस्ररहितसाक्षसूत्र -किरीटादिभूषणप्रत्यङ्ग-प्रधानाङ्गविषया द्वितीयोक्ता । इयं भूषणप्रधाना ॥ ८८ ॥
सा यदा धारणा तद्वदवस्थानवती ततः ।
किरिटकेयूरमुखैर्भूषणै रहितं स्मरेत् ॥ ८९ ॥
सेति ॥ किरीटेत्यादिना भूषणरहितप्रत्यङ्गप्रधानाङ्गविषया तृतीयोक्ता । इयं प्रत्यङ्गप्रधाना ॥ ८९ ॥
तदेकावयवं देवं चेतसा हि पुनर्बुधः ।
कुर्यात्ततोऽवयविनि प्रणिधानपरो भवेत् ॥ ९० ॥
तदिति ॥ तदेकावयवमित्यादिना प्रधानाङ्गविषया चतुर्थी धारणोक्ता । आयुधभूषणप्रत्यङ्गेषु अभ्यासेन सुदृढं गृहीतेषु पुनस्तदेकावयवं-तेषां प्रत्यङ्गानां प्रधानावयवयुक्तं देवं चेतसा कुर्यात्-चिन्तयेदित्यर्थः । इयमेका-वयवप्रधाना । अथ ध्यानमाह-ततोऽवयविनीति ॥ ततः धारणानन्तरम् । अस्त्र भूषणप्रत्यङ्गप्रधानाङ्गाना -माश्रये गोमुखाकारेऽवयविनि अस्राद्यनुषङ्गेण ध्यानपरों भवेत् ॥ ९० ॥
तद्रूपप्रत्यया चैका संततिश्चान्यनिःस्पृहा ।
तद्ध्यानं प्रथमैरङ्गैः षड्भिर्निष्पाद्यते नृप ॥ ९१ ॥
ध्यानलक्षणमाह—तद्रूपेति ॥ तद्रूपप्रत्यय इति च पाठः । तद्रूपप्रत्यये-धारणासिद्धरूप विषयप्रत्यये । एका-असदृशी । अन्यनिस्पृहा-विजातीयप्रत्ययानन्तरिता या संततिः-प्रवाहः, तद्ध्यानं षड्भिरङ्गैः—यमादिभिः । एवमुपासनसोपानक्रमेणा -रूढदिव्यविषयमिदं ध्यानम् । पूर्वत्र तस्य चालम्बनवत इति प्रस्तुतः सालम्बनो योगः । अस्त्रभूषणाध्याये ह्यस्त्रभूषणमयसर्वशक्त्याश्रय दिव्यविग्रहः सबीजयोगविषय इति स्पष्टमुक्तं सालम्बनो महायोग-स्सबीज इत्यादिना ॥ ९१ ॥
तस्यैव कल्पनाहीनं स्वरूपग्रहणं हि यत् ।
मनसा ध्याननिष्पाद्यं समाधिःसोऽभिधीयते ॥ ९२ ॥
अथ ध्यानपर्यन्तसप्ताङ्गजन्यं निर्बीजयोगाख्यं भगवत्स्वरूपविषयं समाधिमाह-तस्यैवेति ॥ तस्यैव-विग्रहादिविशिष्टतया ध्यातस्यैव, कल्पनाः- नामरूपवर्णापक्षय -विनाशादयः । अयं समाधिः पूर्वाध्याये परविद्येत्युक्तं विवेकजज्ञानम् । इदं चास्त्र भूषणा दिविशिष्टदिव्य विग्रहवत एव भगवतोऽस्रभूषणाध्यायादिषु बिभर्ति पुण्डरी- काक्षस्सदैव परमेश्वरः कलामुहूर्तादिमयश्च काल इत्यादिभिः प्रतिपादितत्वात्, अस्त्रादीनां राहित्येनोत्त-रोत्तरध्यानस्य वचनम् अन्यथा तस्याशक्यत्वात्, न तु त्याज्यत्वात् तेषाम् । अस्त्रादिविशिष्ट विग्रहक्त एव प्राप्यत्वात् तत्क्रतुन्यायेन तेषामपि दृढं ध्येयत्ववचनाच्च ॥ ९२ ॥
विज्ञानं प्रापकं प्राप्ये परे ब्रह्मणि पार्थिव ।
प्रापणीयस्तथैवात्मा प्रक्षीणाशेषभावनः ॥ ९३ ॥
उक्तस्य समाधिरूपज्ञानस्य भेषजं भगवत्प्राप्तिरित्युक्तम् परब्रह्मप्राप्तिफलमाह-विज्ञानमिति ॥ इदं विज्ञानं प्राप्ये परे ब्रह्मणि प्रापकम्, तथैव-ब्रह्मवत् प्रक्षीणाशेषभावनः – भावनात्रयरहितो भगवदुपासक आत्मा प्रापणीयः- प्रापयितव्यः । ब्रह्मविदाप्नोति परं विद्ययाऽमृत (त्व)मश्नुते भक्त्या त्वनन्यया शक्यः, भक्त्या मामभिजानाति, तत्प्राप्तिहेतुर्ज्ञानं च इत्यादि । ९३ ॥
क्षेत्रज्ञः करणी ज्ञानं करणं तस्य तेन तत् ।
निष्पाद्य मुक्तिकार्यं वै कृतकृत्यं निवर्तते ॥ ९४ ॥
इदं ज्ञानं न केवलं ब्रह्मप्रापकमात्रम्, किं तु मुक्तिकारणमपीत्याह-क्षेत्रज्ञ इति ॥ क्षेत्रज्ञः-अनादि-कालक्षेत्ररूपमायागुणत्रपतिरोहितस्वस्वरूपः । करणी-करणवान् । समाधिरूपं ज्ञानं करणम् । तत्-ज्ञानं तेन-करणत्वेन तस्य-क्षेत्रज्ञस्य मुक्तिकार्यं निष्पाद्य कृतकृत्यं निवर्तते-मुतिमकृत्वा न निवर्तत इत्यर्थः ॥ ९४ ॥
तद्भावभावमापन्नस्ततोऽसौ परमात्मना ।
भवत्यभेदी भेदश्च तस्याज्ञानकृतो भवेत् ॥ ९५ ॥
मुक्तिस्वरूपमाह–तद्भावभावमिति ॥ तद्भावभावमापन्नः-तस्य परस्य ब्रह्मणो भावा अपहतपाप्म-स्वादयो धर्माः, तेषां भावम्-आविर्भावम्, आपनः- प्राप्तः, तदाऽसौ परमात्मना अभेदी भवति – ज्ञानानन्दा-चाकारैरेक प्रकारो भवतीत्यर्थः । भेदः-देवादिरूपः, तदन्वयोऽस्य कर्मरूपाज्ञानकृतः ; निरञ्जनः परमं साम्य-मुपैति, ब्रह्मणो महिमानमाप्नोति, परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते, संपद्याविर्भावः स्वेन-शब्दाद, मम साधर्म्यमागता इत्यादेः । स्वरूपैक्यपक्षे तु द्वितीयो भावशब्दो निरर्थकः । अभेदी भवतीत्यस्य च पुनरुक्तिर् अन्यद्रव्यं हि नैति तद्व्यतां यत इति चोक्तविरोधः ॥ ९५ ॥
विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते ।
आत्मनो ब्रह्मणो भेदमसंतं कः करीष्यति ॥ ९६ ॥
इत्युक्तस्ते मया योगः खाण्डिक्य परिपृच्छतः ।
संक्षेपविस्तराभ्यां तु किमन्यत्क्रियतां तव ॥ ९७ ॥
खाण्डिक्य उवाच
कथिते योगसद्भावे सर्वमेव कृतं मम ।
तवोपदेशेनाशेषो नष्टश्चित्तमलो यतः ॥ ९८ ॥
एतदेव विवृणोति—विभेदजनक इति । विभेदः-देवमनुष्यादिरूपः । आत्मनि ज्ञानैकरूपे देवादि-विविधरूपविविधभेदहेतु भूतकर्माख्याज्ञाने परब्रह्मदर्शनेनाव्यन्तिकनाशं गते सति, परस्माद्ब्रह्मण आत्मनो भेदं देवादिरूप भेदं कः करिष्यति – न कोऽपि करिष्यतीत्यर्थः । यथाऽऽह शौनकः- चतुर्विधो हि भेदोऽयं मिथ्या- ज्ञाननिबन्धन इति ॥ ९६-९८ ॥
ममेति यन्मया चोक्तमसदेतन्न चान्यथा ।
नरेन्द्र गदितुं शक्यमपि विज्ञेयवेदिभिः ॥ ९९ ॥
कथित इत्यादि श्लोके ममेतिवचनस्याहंकारममकारहेतु भूत चित्तमलनाशवचनेन व्याहतिं परिहरति-ममेति ॥ यद्यप्यहंममत्वहेतुचित्तमलनाशे सत्यहंममत्वनाशादहंममेति -शब्दप्रयोगो न युज्यते । तथापि विज्ञेय वेदिमिः – साक्षात्कृतपरमार्थैरपि तत्प्रयोग विना न गदितुं शक्यम् ॥ ९९ ॥
अहं ममेत्यविद्येयं व्यवहारस्तथाऽनयोः ।
परमार्थस्त्वसंलाप्यो गोचरे वचसां न यः ॥ १०० ॥
तद्गच्छ श्रेयसे सर्वं ममैतद्भवता कृतम् ।
यद्विमुक्तिप्रदो योगः प्रोक्तः केशिध्वजाव्ययः ॥ १०१ ॥
श्रीपराशर उवाच
यथार्हं पूजया तेन खाण्डिक्येन स पूजितः ।
आजगाम पुरं ब्रह्मंस्ततः केशिध्वजो नृपः ॥ १०२ ॥
खाण्डिक्योऽपि सुतं कृत्वा राजानं योगसिद्धये ।
वनं जगाम गोविन्दे विनिवेशितमानसः ॥ १०३ ॥
एतदेव विवृणोति—अहंममेति ॥ अहं ममेति इयं बुद्धिरविधा अन्यथाज्ञानम् । तथा व्यवहारः-पुमान् स्त्री गौरयं वाजीत्यादिव्यवहारोऽपि अनया – अविद्यया । द्वैताद्वैतयोरभेदः भ्रमकृत इत्यर्थः । परमार्थः-अविनाश्यात्मा, असंलाप्यः – अजमहिषादिविशेषरहिततया तत्तच्छब्दैरनिर्देश्यः । तत्र हेतुः – गोवरे वचसां न य इति ॥ १००-१०३ ।॥
तत्रैकान्तमतिर्भूत्वा यमादिगुणसंयुतः ।
विष्ण्वाख्ये निर्मले ब्रह्मण्यवाप नृपतिर्लयम् ॥ १०४ ॥
तत्रेति ॥ लयम् – नामरूप कर्मणामात्यन्तिकनाशम्, यथा नद्यस्स्यन्दमाना -स्समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय, अश्व इव रोमाणि विध्य पापम्, भिद्यते हृदयग्रन्थिः, निरञ्जनः परमं साम्यमुपैति इत्यादेः । न तु स्वरूपैक्यम्, नित्यनैमित्तिकप्राकृतलये प्रदर्शनात् । तथा सतीश्वरस्य वैरम्यनैर्वृण्यादिदोषो जीवानामकृताभ्यागमः कृतविप्रणाशश्च स्यात् । पुनर्देहसंबन्धाभाव एवात्यन्तिके विशेषः ॥ १०४ ॥
केशिध्वजो विमुक्त्यर्थं स्वकर्मक्षपणोन्मुखः ।
बुभुजे विषयान्कर्म चक्रे चानभिसंहितम् ॥ १०५ ॥
केशिध्वज इति ॥ अनभिसंहितम्-अनभिसंहितफलम् ॥ १०५ ॥
अकल्याणोपभोगैश्च क्षीणपापोऽमलस्तथा ।
अवाप सिद्धिमत्यन्तां तापक्षयफलां द्विज ॥ १०६ ॥
अकल्याणेति ॥ अमलः क्षपितप्रारब्धकर्म विशेषः ॥ १०६ ॥
इति श्रीविष्णुमहापुराणे षष्ठांशे सप्तमोऽध्यायः ॥ ७ ॥