०४

अथ षष्ठांशे चतुर्थोऽध्यायः

श्रीपराशर उवाच

सप्तर्षिस्थानमाक्रम्य स्थितेंऽभसि महामुने ।

एकार्णवं भवत्येतत्त्रैलोक्यमखिलं ततः ॥ १ ॥

मुखनिश्वासजो विष्णोर्वायुस्ताञ्जलदांस्ततः ।

नाशयन्वाति मैत्रेय वर्षाणामपरं शतम् ॥ २ ॥

सर्वभूतमयोऽचिन्त्यो भगवान्भूतभावनः ।

अनादिरादिर्विश्वस्य पीत्वा वायुमशेषतः ॥ ३ ॥

॥ १-३ ॥

एकार्णवे ततस्तस्मिञ्छेषशय्यागतः प्रभुः ।

ब्रह्मरूपधरः शेते भगवानादिकृद्धरिः ॥ ४ ॥

जनलोकगतैः सिद्धैः समकाद्यैरभिष्टुतः ।

ब्रह्मलोकगतैश्चैव चिन्त्यमानो मुमुक्षुभिः ॥ ५ ॥

एकार्णव इति ॥ ब्रह्मरूपधर इति प्रथमांशे व्याख्यातम् । ननूतरत्र ब्रह्मादीनां

शुभाश्रयत्वं निषिध्यते । तत्कथमत्र ब्रह्मरूपधरस्य मुमुक्षुभिश्चित्यमानत्वम् । उच्यते-धारणासिध्यर्थं तत्र शुभाश्रय उक्तः । निष्पन्नसमाधीनां तु जगद्रूपतया भगवदनुसन्धानमविरुद्धम् । यथा मत्तस्सर्वमहं सर्वम्, अहं मनुरभवम् इत्यादि । किं च परशुरामकल्क्यादिवदनुप्रवेशावतारत्वाच्च न विरोधः ॥ ४, ५ ॥

आत्ममायामयीं दिव्यां योगनिद्रां समास्थितः ।

आत्मानं वासुदेवाख्यं चिन्तयन्मधुसूदनः ॥ ६ ॥

आत्मेति आत्ममायामयीं–मूलप्रकृत्यमिमानिदेवताम् । योगनिद्रां- योगरूपां निद्राम् । एतद्विवृणोति आत्मानं चिंतयन्निति ॥ ६ ॥

एष नैमित्तिको नाम मैत्रेयः प्रतिसंचरः ।

निमित्तं तत्र यच्छेते ब्रह्मरूपधरो हरिः ॥ ७ ॥

यदा जागर्ति सर्वात्मा स तदा चेष्टते जगत् ।

निमीलत्येतदखिलं मायाशय्यां गतेऽच्युते ॥ ८ ॥

पद्मयोनेर्दिनं यत्तु चतुर्युगसहस्रवत् ।

एकार्णवीकृते लोके तावती रात्रिरिष्यते ॥ ९ ॥

ततः प्रबुद्धो रात्र्यन्ते पुनःसृष्टिं करोत्यजः ।

ब्रह्मस्वरूपधृग्विष्णुर्यथा ते कथितं पुरा ॥ १० ॥

इत्येष कल्पसंहारोऽवान्तरप्रलयो द्विज ।

नैमित्तिकस्ते कथितः प्राकृतः शृण्वतः परम् ॥ ११ ॥

एष इति ॥ यन् निमित्तं तत्रेति । तत्र-ब्रह्मणो दिनान्ते ॥ ७-११ ॥

अनावृष्ट्यादिसंपर्कात्कृते संक्षालने मुने ।

समस्तेष्वेव लोकेषु पातालेष्वखिलेषु च ॥ १२ ॥

अनावृष्टीत्यादि ॥ समस्तेषु लोकेषु पातालेषु च संक्षालने-नाशे कृते ॥ १२ ॥

महदादेर्विकारस्य विशेषान्तस्य संक्षये ।

कृष्णेच्छाकारिते तस्मिन्प्रवृत्ते प्रतिसंचरे ॥ १३ ॥

महदादेरिति ॥ तस्मिन्-प्राकृते प्रतिसंचरे महदादेर्विशेषान्तस्य विकारस्य संक्षये च प्रवृत्ते-प्रस्तुते ॥ १३ ॥

आपो ग्रसंति वै पूर्वं भूमेर्गन्धात्मकं गुणम् ।

आत्तगन्धा ततो भूमिः प्रलयत्वाय कल्पते ॥ १४ ॥

आप इत्यादि ॥ प्रलयत्वाय-प्रकृष्टो लयो यस्याः सा प्रलया, तद्भावाय ॥ १४ ॥

प्रणष्टे गन्धतन्मात्रे भवत्युर्वी जलात्मिका ।

आपस्तदा प्रवृद्धास्तु वेगवत्यो महास्वनाः ॥ १५ ॥

प्रणष्ट इति ॥ गन्धतन्मात्रे-अत्र तन्मात्रग्रहणं विशेषस्याप्युपलक्षणम् ॥ १५ ॥

सर्वमापूरयन्तीदं तिष्ठन्ति विचरन्ति च ।

सलिलेनोर्मिमालेन आलोकान्तात्समन्ततः ॥ १६ ॥

अपामपि गुणो यस्तु ज्योतिषा पीयते तु सः ।

नश्यन्त्यापस्ततस्ताश्च रसतन्मात्रसंक्षयात् ॥ १७ ॥

ततश्चापो हृतरसाज्योतिष्ट्वं प्राप्नुवन्ति वै ।

अग्न्यवस्थे तु सलिले तेजसा सर्वतो वृते ॥ १८ ॥

स चाग्निः सर्वतो व्याप्य चादत्ते तज्जलं तथा ।

सर्वमापूर्यतेऽर्चिर्भिस्तदा जगदिदं शनैः ॥ १९ ॥

अर्चिर्भिः संवृते तस्मिंस्तिर्यगूर्ध्वमधस्तदा ।

ज्योतिषोऽपि परं रूपं वायुरत्ति प्रभाकरम् ॥ २० ॥

प्रलीने च ततस्तस्मिन्वायुभूतेऽखिलात्मनि ।

प्रनष्टे रूपतन्मात्रे हृतरूपो विभावसुः ॥ २१ ॥

सर्वमिति ॥ सलिलेन-ओघेन, आलोकान्तात्-लोकान्तं यावत् । आलेकस्तेजो वा ॥ १६-२१॥

प्रशाम्यति तदाज्योतिर्वायुर्दोधूयते महान् ।

निरालोके तथा लोके वाय्ववस्थे च तेजसि ॥ २२ ॥

प्रशाम्यतीति ॥ अज्योतिरिति पदच्छेदः । तच्च वायुविशेषणम् । ज्योतिर्विरोधी ॥ २२ ॥

ततस्तु मूलमासाद्य वायुःसंभवमात्मनः ।

ऊर्ध्वं चाधश्च तिर्यक्च दोधवीति दिशो दश ॥ २३ ॥

वायोरपि गुणं स्पर्शमाकाशो ग्रसते ततः ।

प्रशाम्यति ततो वायुः खं तु तिष्ठत्यनावृतम् ॥ २४ ॥

तत इति ॥ तुमुले-सशब्दम् । आत्मनः संभवं-स्वम् ॥ २३, २४ ॥

अरूपरसमस्पर्शमगन्धं न च मूर्तिमत् ।

सर्वमापूरयच्चैव सुमहत्तत्प्रकाशते ॥ २५ ॥

परिमण्डलं च सुषिरमाकाशं शब्दलक्षणम् ।

शब्दमात्रं तदाकाशं सर्वमावृत्य तिष्ठति ॥ २६ ॥

अरूपमिति ॥ न च मूर्त्तिमत्-निरवयवम्, अहंकारावच्छिन्नतया परिमाणनिषेधायोगात् ॥ २५,२६॥

ततश्शब्दगुणं तस्य भूतादिर्ग्रसते पुनः ।

भूतेन्द्रियेषु युगपद्भूतादौ संस्थितेषु वै ॥ २७ ॥

अभिमानात्मको ह्येष भूतादिस्तामसःस्मृतः ।

भूतादिं ग्रसते चापि महान्वै बुद्धिलक्षणः ॥ २८ ॥

तत इति ॥ भूतादिशब्देन त्रिविधाहंकारस्य ग्रहणम् ॥ २७, २८ ॥

उर्वी महंश्च जगतः प्रतिन्तर्बाह्यतस्तथा ॥ २९ ॥

उर्वोत्यादि ॥ उर्वी महांश्च अन्तः- अण्डस्यान्तः स्थितस्य जगतः प्रान्ते-चरमकोट्यां प्रथमकोटयां च, तथा बाह्यतो ऽण्डाद्बहिरपि, तथा-पृथिव्येकप्रान्ते महानितरप्रान्ते ॥ २९ ॥

एवं सप्त महाबुद्धे क्रमात्प्रकृतयःस्मृताः ।

प्रत्याहारे तु ताःसर्वाः प्रविशन्ति परस्परम् ॥ ३० ॥

एवमिति ॥ अयमावरणलयविषयः श्लोकः । महदादयः सप्त क्रमादहंकारादीनां प्रकृतयः स्मृताः । ताः प्रत्याहारे तु परस्परं स्वंस्वं कारणम् एवं-पूर्वोक्तलयक्रमेण प्रविशन्ति ॥ ३० ॥

येनेदमावृतं सर्वमण्डमप्सु प्रलीयते ।

सप्तद्वीपसमुद्रान्तं सप्तलोकं सपर्वतम् ॥ ३१ ॥

उदकावरणं यत्तु ज्योतिषा पीयते तु तम् ।

ज्योतिर्वायौ लयं याति यात्याकाशे समीरणः ॥ ३२ ॥

आकाशं चैव भूतादिर्ग्रसते तं तथा महान् ।

महान्तमेभिः सहितं प्रकृतिर्ग्रसते द्विज ॥ ३३ ॥

गुमसाम्यमनुद्रिक्तमन्यूनं च महामुने ।

प्रोच्यते प्रकतिर्हेतुः प्रधानङ्कारणं परम् ॥ ३४ ॥

एतदेव प्रपञ्चयति-येनेति ॥ एवंभूतमिदमण्डं येनावृतं तत्पृथिव्यावरणमप्सु लीयते ॥ ३१, ३४ ॥

इत्येषा प्रकृतिःसर्वा व्यक्ताव्यक्तस्वरूपिणी ।

व्यक्तस्वरूपमव्यक्ते तस्मान्मैत्रेय लीयते ॥ ३५ ॥

इत्येषा प्रकृतिरिति ॥ व्यक्तावस्थमपि प्रकृतिद्रव्यमेव न द्रव्यान्तरम् । तस्माद्व्यक्तमव्यक्ते लीयते । तस्या इति पाठे स्वरूपमित्यनुषङ्गः ॥ ३५ ॥

एकः शुद्धोऽक्षरो नित्यःसर्वव्यापी तथा पुमान् ।

सोऽप्यंशःसर्वभूतस्य मैत्रेय परमात्मनः ॥ ३६ ॥

एक इति । एकः शुद्धः-प्रकृतिवदनेकत्वानर्हः वैचित्र्यानर्हश्च, अनेकत्वबोधक वैचित्र्यार्ह सत्यादि-गुणमयत्वाभावात् । अत एकाक्षरो नित्यश्च । तत्र हेतुमाह-पूर्वव्यापीति सूक्ष्मत्वात्प्रकृतेरपि व्यापन स्वभावः । सोऽसि पुमान् परमात्मनोंऽशः, यथा प्रकृतिः । अत्र लयस्थानत्वेन प्रकृतेः प्रकृतत्वात् प्रसङ्गात् पुरुषपरमात्मनोः प्रस्तावः ॥ ३६ ॥

न संति यत्र सर्वेशे नामजात्यादिकल्पनाः ।

सत्तामात्रत्मके ज्ञेये ज्ञानात्मन्यात्मनः परे ॥ ३७ ॥

तद्ब्रह्म परमं धाम परमात्मा स चेश्वरः ।

स विष्णुःसर्वमेवेदं यतो नावर्तते यतिः ॥ ३८ ॥

परमाह-न सन्तीति ॥ नन्वंशत्ववचनात् पुरुषस्य परमात्मैकद्रव्यत्वं स्यात् । नैवं समस्त यरहितं स सर्वभूतप्रकृति विकारान् विष्णुस्समस्तेन्द्रिय देहदेही, क्षेत्रज्ञशक्तिः सा वेष्टिता, नित्यो नेत्यानाम् पृथगात्मानं प्रेरितारं च मला उत्तमः पुरुषस्त्वन्य इत्यादिभिस्त पोरत्यन्त वै लक्षण्यस्योक्तत्वात् । कथमंशत्वमित्याशंक्य प्रकाशादि वन्नैवं पर इत्यादिना सूत्रकारः प्रकाश जातिगुणदेहवदात्मनोऽपि शरीर- भूतस्य तिष्ठतः परमात्मै कदेहत्वाद् अंशत्वमुपयादितवान् । सत्तामात्रात्मक इति विकारनिषेधः । ज्ञेये- नारायण महाज्ञेयम् इत्यादिना । आत्मनः परे-यस्यात्मा शरीरमिति शरीरत्वेनोक्तत्वाद् बद्धान्मुक्ताच्चात्मनो- ऽत्यन्त- विलक्षणे । प्रकाशतद्वतोरिव जगद्ब्रह्मणोश्शरीशरीरिभावस्वाभाविक न जीववत्कर्मकृतः। तत्पुरुषस्य विश्व- माजानमग्रे वेदात्मशक्तिं स्वाच्छरीराद् इत्यादेः ॥ ३७, ३८ ॥

प्रकृतिर्या मयाऽऽख्याता व्यक्ताव्यक्तस्वरूपिणी ।

पुरुषश्चाप्युभावेतौ लीयेते परमात्मनि ॥ ३९ ॥

प्रकृतिरित्यादि ॥ प्रकृतेः परमात्मनि लयः पुरुषे लयद्वारा, अव्यकमक्षरे लीयते अक्षरं तमसि लीयते तमः परे देव एकीभवति इति श्रुतेः ॥ ३९ ॥

परमात्मा च सर्वेषामाधारः परमेश्वरः ।

विष्णुनामा स वेदेषु वेदान्तेषु च गीयते ॥ ४० ॥

परमात्मेति ॥ विष्णुनामा स वेदेषु वेदान्तेषु च गीयते-विष्णुनामा स एव परमेश्वरो वेदेषु वेदान्तेषु च सब्रह्मादिशब्दैर्गीयते ॥ ४० ॥

प्रवृत्तं च निवृत्तं च द्विविधङ्कर्म वैदिकम् ।

ताभ्यामुभाभ्यां पुरुषैः सर्वमूर्तिःस इज्यते ॥ ४१ ॥

ऋग्यजुःसामभिर्मार्गैः प्रवृत्तैरिज्यते ह्यसौ ।

यज्ञेश्वरो यज्ञपुमान्पुरुषैः पुरुषोत्तमः ॥ ४२ ॥

प्रवृत्तमिति ॥ कथमिन्द्रादियागैरस्येज्यत्व मित्यत्राह सर्वमूर्तिरिति ॥ ४१, ४२ ॥

ज्ञानात्मा ज्ञानयोगेन ज्ञानमूर्तिः स चेज्यते ।

निवृत्ते योगिभिर्मार्गे विष्णुर्मुक्तिफलप्रदः ॥ ४३ ॥

ज्ञानात्मेति ॥ ज्ञानात्मा-ज्ञानस्वरूपः । ज्ञानमूर्तिः- ज्ञानात्मिका मूर्तिर्विग्रहो यस्य । निवृत्ते मार्गे ज्ञानयोगेन-ज्ञानयोगप्रधानेन कर्मणा इज्यते । मुक्तिफलप्रदः – निवृत्तिमार्गेणेष्ट एव ॥ ४३ ॥

ह्रस्वदीर्घप्लुतैर्यत्तु किञ्चिद्वस्त्वभिधीयते ।

यच्च वाचामविषयं तत्सर्वं विष्णुरव्ययः ॥ ४४ ॥

ह्रस्वेति ॥ ह्रस्वादिशब्दैरभिधेगमचिद्वस्तु । वाचामविपये चिद्वस्तु । तत्सर्वं विष्णुः- तदात्मकम् ॥ ४४ ॥

व्यक्तःस एव चाव्यक्तःस एव पुरुषोत्तमः ।

परमात्मा च विश्वात्मा विश्वरूपधरोहरिः ॥ ४५ ॥

व्यक्तमिति ॥ व्यक्तादिसामानाधिकरण्य हेतुर्विश्वात्मा विश्वरूपधर इति । पुरुषः कार्यकारणरूपोभ- ग्रावस्थः । परमात्मा मुक्तः । व्यक्तं स एव चाव्यक्तमिति च पाठः ॥ ४५ ॥

व्यक्ताव्यक्तात्मिका तस्मिन्प्रकृतिःसंप्रलीयते ।

पुरुषश्चापि मैत्रेय व्यापिन्यव्याहतात्मनि ॥ ४६ ॥

द्विपरार्धात्मकः कालः कथितो यो मया तव ।

तदहस्तस्य मैत्रेय विष्णोरीशस्य कथ्यते ॥ ४७ ॥

व्यक्तेत्यादि ॥ उक्तस्यैवानुवादो गुणान्तरविध्यर्थः । अव्याहतात्मनि- अविकृत स्वरूपे ॥ ४६, ४७ ॥

व्यक्ते च प्रकृतौ लीने प्रकृत्यां पुरुषे तथा ।

तत्र स्थिते निशा चास्य तत्प्रमाणा महामुने ॥ ४८ ॥

व्यक्त इति ॥ प्रकृत्यां पुरुषे लीनायामिति शेषः । तथा-तत्र स्थिते, तथाभूते पुरुषे तत्र परमात्मनि स्थिते । द्वयोर्युगपल्लयपक्षे ग्रंथस्सुगमः । व्यक्त इति पुनर्लयानुवादः परमात्मनो रात्र्यादिकल्पनाविध्यर्थः ॥ ४८ ॥

नैवाहस्तस्य न निशा नित्यस्य परमात्मनः ।

उपचारस्तथाऽप्येष तस्येशस्य द्विजोच्यते ॥ ४९ ॥

इत्येष तव मैत्रेय कथितः प्राकृतो लयः ।

आत्यन्तिकमथो ब्रह्मन्निबोध प्रतिसंचरम् ॥ ५० ॥

नैवेति ॥ नित्यस्य परमात्मन इति । अत्र स्वरूपनित्यत्वस्य ब्रह्मादीनामपि साधारण्याद्विग्रहवत्वस्य नित्यत्वमभिप्रेतम्, सदैकरूपरूपाय इत्यादिभिर्विग्रहनित्यत्वस्य प्रतिपादनात् ॥ ४९, ५० ॥

इति श्रीविष्णुमहापुराणे षष्ठांशे चतुर्थोऽध्यायः ॥ ४ ॥