अथ षष्ठांशे तृतीयोऽध्यायः
श्रीपराशर उवाच
सर्वेषामेव भूतानां त्रिविधः प्रतिसंचरः ।
नैमित्तिकः प्राकृतिकस् तथैवात्यन्तिको लयः ॥ १ ॥
॥ १ ॥
ब्राह्मो नैमित्तिकस्तेषां कल्पान्ते प्रतिसंचरः ।
आत्यन्तिकस्तु मोक्षाख्यः प्राकृतो द्विपरार्धकः ॥ २ ॥
मैत्रेय उवाच
परार्धसंख्यां भगवन्ममाचक्ष्व यया तु सः ।
द्विगुणीकृतया ज्ञेयः प्राकृतः प्रतिसंचरः ॥ ३ ॥
ब्राह्म इति ॥ प्राकृतो द्विपरार्धक इति जल्पनात् परार्थद्वयात्मके ब्रह्मायुषि पूर्णे प्रकृतौ तत्कार्यस्य लयः प्राकृतः ॥ २,३ ॥
श्रीपराशर उवाच
स्थानात्स्थानं दशगुणमेकस्माद्रण्यते द्विज ।
ततोऽष्टादशमे भागे परार्धमभिधीयते ॥ ४ ॥
परार्धद्विगुणं यत्तु प्राकृतःस लयो द्विज ।
तदाऽव्यक्तेऽखिलं व्यक्तं स्वहेतौ लयमेति वै ॥ ५ ॥
स्थानात् स्थानमिति ॥ एकं दश शतमस्मात्सहस्रमयुतं ततः परं लक्षम् । प्रयुतं कोटिमथार्बुद मब्जं खर्वं ततो निखर्वं च ॥ तस्मान्महासरोजं शङ्कुं सरितां पतिं ततो मध्यम् अन्त्यं परार्धमाहुर्यथोत्तरं दशगुणं हि वे तज्ज्ञाः ॥ एवं द्विपरार्धमानुषवत्सरे तु महासंहारः ॥ ४,५ ॥
निमेषो मानुषो योऽसौ मात्रामात्राप्रमाणतः ।
तैः पञ्चदशभिः काष्ठा त्रिंशत्काष्ठ कला स्मृता ॥ ६ ॥
नाडिका तु प्रमाणेन सा कला दश पञ्च च ॥ ७ ॥
निमेष इत्यादि ॥ यः प्रागुक्तो निमेषो ऽसौ मात्रेत्युच्यते, मात्राप्रमाणत्वात्। एकमात्रलध्ववक्षरो-च्चारणकालसंमितो ह्यसौ ॥ ६,७ ॥
उन्मानेनांभसःसा तु पलान्यर्धत्रयोदश ।
मागधेन तु मानेन जलप्रस्थस्तु स स्मृतः ।
हेममाषैः कृतच्छिद्रचतुर्भिश्चतुरङ्गुलैः ॥ ८ ॥
नाडिकाभ्यामथ द्वाभ्यां मुहूर्तो द्विजसत्तम ।
अहोरात्रं मुहुर्तास्तु त्रिंशन्मासो दिनैस्तथा ॥ ९ ॥
मासैर्द्वादशभिर्वर्षमहोरात्रं तु तद्दिवि ।
त्रिभिर्वर्षशतैर्वर्षं षष्ट्या चैवासुरद्विषाम् ॥ १० ॥
तैस्तु द्वादशसाहस्त्रैश्चतुर्युगमुदाहृतम् ।
चतुर्युगसहस्रं तु कथ्यते ब्रह्मणो दिनम् ॥ ११ ॥
स कल्पस्तत्र मनवश्चतुर्दश महामुने ।
तदन्ते चैव मैत्रेय ब्राह्मो नेमित्तिको लयः ॥ १२ ॥
तस्य स्वरूपमत्युग्रं मैत्रेय गदतो मम ।
शृणुष्व प्राकृतं भूयस्तव वक्ष्याम्यहं लयम् ॥ १३ ॥
चतुर्युगसहस्रान्ते क्षीणप्राये महीतले ।
अनावृष्टिरतीवोग्रा जायते शतवार्षिकी ॥ १४ ॥
ततो यान्यल्पसाराणि तानि सत्त्वान्यशेषतः ।
क्षयं यान्ति मुनिश्रेष्ठ पार्थिवान्यनुपीडनात् ॥ १५ ॥
उन्मानेनेति ॥ तुलया मितस्याम्भसः पलानि, अर्धत्रयोदश–अर्ध त्रयोदशं येषां तानि अर्ध त्रयोदश सार्थद्वादशेत्यर्थः । सा नाडिका-उपचारात्तैर्नाडिका ज्ञातव्येत्यर्थः । कथमित्याह-हेमेति । हेममाषैः-माषः पञ्चगुञ्जा-मानम् । जलस्यैतत्सार्द्धं पलद्वादशकं मगधदेश्यं प्रस्थं पूरयति । स च प्रस्थश्चतुर्गुणस्सन्नाडीज्ञापक इति शेषः । यथा ह वायुः – उन्मानेनाम्भसश्चापि पलान्यर्धत्रयोदश मागधेन तु मानेन जलप्रस्थो विधीयते । एवं
चाप्युदकप्रस्थाश्चत्वारो नाडिका घटः । हेममाषैः कृतच्छिद्र श्चतुर्भिश्चतुरङ्गुलैः ॥ इति । एवं चतुर्माषसुवर्णरचित-चतुरङ्गुलसूचीकृताधश्छिद्रादाढकजलपूर्णात् पंचाशत् पलपरिमाणाद्धटात्तच्छिद्रेण पश्चाशत्पलं जलं यावता कालेन निस्सरति तावत्कालो नाडित्युक्तं भवति । अथवा अहोरात्रे जलस्य पूरणं निस्सरणं वा षष्ठिवारं यथा स्यात्
तथा तत्पात्रमानं कार्यम् । अन्ये तु चतुर्माषनिर्मितया चतुरङ्गलया सूच्या कृतच्छिद्रे सार्धद्वादशपले ताम्रपात्रे तत्प्रमाणं जलं तच्छिद्रेण यावता कालेन प्रविशति स काल एका नाडिका, तानि पलानि मागधमानेन जलप्रस्थ इति वर्णयन्ति । कृतच्छिद्रैरिति च पठन्ति । तत्रायमन्ययः- सा नाडिका चतुर्भिर्हेममाषैः कृतच्छिद्रै र्निष्पन्नान्यम्भसोऽर्धत्रयोदश पलानीति ॥ ८-१५ ॥
ततः सभगवान्विष्णु रुद्ररूपधरोऽव्ययः ।
क्षयाय यतते कर्तुमात्मस्थाःसकलाः प्रजाः ॥ १६ ॥
तत इति ॥ क्षयाय रुद्ररूपधरो भूत्वा ॥ १६ ॥
ततः स भगवान् विष्णुर्भानोः सप्तसु रश्मिषु ।
स्थितः पिबत्यशेषाणि जलानि मुनिसप्तम ॥ १७ ॥
पीत्वांऽभांसि समस्तानि प्राणिभूमिगतान्यपि ।
शोषं नयति मैत्रेय समस्तं पृथिवीतलम् ॥ १८ ॥
समुद्रान्सरितः शैलनदीप्रस्रवणानि च ।
पातालेषु च यत्तोयं तत्सर्वं नयति क्षयम् ॥ १९ ॥
तत इति ॥ सप्त रश्मयः- सुषुम्णो हरिकेशश्च विश्वकर्मा तथैव च । विश्वव्यचा स्वधा संयद्वसुर-र्वाग्वसुस्तथा” इत्युक्ताः ॥ १७-१९ ॥
ततस्तस्यानुभावेन तोयाहारोपबृंहिताः ।
त एव रश्मयःसप्त जायन्ते सप्त भास्कराः ॥ २० ॥
अधश्चोर्ध्वं च ते दीप्ता स्ततःसप्त दिवाकराः ।
दहन्त्यशेषं त्रैलोक्यं सपातालतलं द्विज ॥ २१ ॥
दह्यमानं तु तैर्दीप्तैस्त्रैलोक्यं द्विज भास्करैः ।
साद्रिनद्यर्णवाभोगं निस्नेहमभिजायते ॥ २२ ॥
ततो निर्दग्धवृक्षांबुत्रैलोक्यमाखितं द्विज ।
भवत्येषा च वसुधा कूर्मपृष्ठोपमाकृतिः ॥ २३ ॥
ततः कालाग्निरुद्रोऽसौ भूत्वा सर्वहरोऽनलः ।
शेषाहिश्वाससंभूतः पातालानि दहत्यधः ॥ २४ ॥
तत इति ॥ भास्कराः- आरोगो भ्राज इत्यादयः ॥ २०-२४ ॥
पातालानि समस्तानि स दग्ध्वा ज्वलनो महान् ।
भूमिमभ्येत्य सकलं बभस्ति वसुधातलम् ॥ २५ ॥
भुवर्लोकं ततःसर्वं स्वर्लोकं च सुदारुणः ।
ज्वालामालामहावर्तस्तत्रैव परिवर्तते ॥ २६ ॥
पातालानीति ॥ बभस्ति-भक्षयति । भस-भक्षणदीप्त्योः ॥ २५,२६ ॥
अंबरीषमिवाभाति त्रैलोक्यमखिलं तदा ।
ज्वालावर्तपरिवारमुपक्षीणचराचरम् ॥ २७ ॥
अम्बरीषमिवेति ॥ अम्बरीषं-भर्जनभाण्डम् ॥ २७ ॥
ततस्तापपरीतास्तु लोकद्वयनिवासिनः ।
कृताधिकारागच्छन्ति महर्लोकं महामुने ॥ २८ ॥
तस्मादपि महातापतप्ता लोकात्ततः परम् ।
गच्छन्ति जनलोकं ते दशावृत्त्या परैषिणः ॥ २९ ॥
ततो दग्ध्वा जगत्सर्वं रुद्ररूपी जनार्दनः ।
मुखनिश्वासजान्मेघान्करोति मुनिसत्तम ॥ ३० ॥
ततो गजकुलप्रख्यास्तटित्वन्तोऽतिनादिनः ।
उत्तिष्ठन्ति तथा व्योम्नि घोराःसंवर्तका घनाः ॥ ३१ ॥
केचिन्नीलोत्पलश्यामाः केचित्कुमुदसन्निभाः ।
धूम्रवर्णा घनाः केचित्केचित्पीताः पयो धराः ॥ ३२ ॥
केचिद्रासभवर्णाभा लाक्षारसनिभास्तथा ।
केचिद्वैडूर्यसंकाशा इन्द्रनीलनिभाः क्वचित् ॥ ३३ ॥
शङ्खकुन्दनिभाश्चान्ये जात्यं जननिभाः परे ।
इन्द्रगोपनिभाः केचित्ततश्शिखिनिभास्तथा ॥ ३४ ॥
मनःशिलाभाः केचिद्वै हरितालनिभाः परे ।
चाषपत्रनिभाः केचिदुत्तिष्ठन्ते महाघनाः ॥ ३५ ॥
केचित्पुरवराकाराः केचित्पर्वतसन्निभाः ।
कूटागारनिभाश्चान्ये केचित्स्थलनिभा घनाः ॥ ३६ ॥
महारावा महाकायाः पूरयन्ति नभःस्थलम् ।
वर्षन्तस्ते महासारास्तमग्निमतिभैरवम् ।
शमयन्त्यखिलं विप्र त्रैलोक्यान्तरधिष्ठितम् ॥ ३७ ॥
नष्टे चाग्नौ च सततं वर्षमाणा ह्यहर्निशम् ।
प्लावयन्ति जगत्सर्वमंभोभिर्मुनिसत्तम ॥ ३८ ॥
धाराभिरतिमात्राभिः प्लावयित्वाऽखिलां भुवम् ।
भुवर्लोकं तथैवोर्ध्वं प्लावयन्ति हि ते द्विज ॥ ३९ ॥
अन्धकारीकृते लोके नष्टे स्थावरजङ्गमे ।
वर्षन्ति ते महामेघा वर्षाणामधिकं शतम् ॥ ४० ॥
एवं भवति कल्पान्ते समस्तं मुनिसत्तम ।
वासुदेवस्य माहात्म्यान्नित्यस्य परमात्मनः ॥ ४१ ॥
तत इति ॥ कृताधिकाराः- मन्वादयः । दशावृत्या – सप्त पातालानि त्रयो लोका इति दश, तेष्व-वृत्त्या–वृत्त्यभावेन । यद्वा, तावद्दशाया आवृत्या । परैषिणः- परस्थानैषिणः । अथवा त्रैलोक्ये ये कृताधिकारा मन्वाद्यास् ते हृताधिकाराःभोगात्प्रक्षीणतद्देशभोग्यक्रर्माणः सन्तो महर्लोकं प्राप्य तस्मादपि तप्तात्तल्लोक-वासिभिस्सह सशरीरा जनलोकं यान्ति । तेषां मध्ये ये परैषिणः- परं प्राप्तुमिच्छवस्ते दशवारावृत्यैव क्रमात्त-पस्सत्यप्राप्तिद्वारा ततः परमीश्वरं विशन्ति । अन्ये त्रैलोक्यस्था जीवाः स्वात्मनि संलीयन्ते । यथाह वायुः-
पितृमभिर्मनुभिश्चैव साध्यैस्सप्तर्षिभिस्तथा । यज्वानश्चैव येऽप्यन्ये तद्भकाश्चैव तैस्सह । महर्लोकं गमिष्यन्ति त्यक्त्वा त्रैलोक्यमीश्वराः। महर्लोकं परित्यज्य गणास्तेऽपि चतुर्दश । सशरीराश्च यान्त्यन्ये जनलोकं सहानुगैः । एवं देवास्सपितर ऋषयो मानवाश्च ये । मित्रैस्सहोर्ध्वं गच्छन्ति व्यावर्त्तन्ते च तैस्सह । जनलोकात्सुरास्सर्वे दश- कल्पान्पुनः पुनः । पर्यायकाले संप्राप्ते संभूतानि धनेष्विह । अवश्यभाविनाऽर्थेन संबध्यन्ते तथा तु ते । निवर्त्तन्ते तथा वृत्या तेषां सद्यो न निस्तरः। महर्जन चापि जनात्तपं च ढोकान्ततस्तानि भवन्ति सत्ये । मन्वन्तराणां परिवर्तनानि मुश्चन्ति सत्येन तपोऽवराणि । तपोभियोगाद्विषय- प्रहाणाद्विशन्ति तेऽपीश्वरमेव देवम् ॥ इति । अथात्मनि महातेजास्सर्वमाधाय सर्वकृत् । ततस्स रात्रिं स्वपिति तमस्येकार्णवे जले ॥ इति । हृताधिकारा गच्छन्तीति च पाठः ॥ २८-४१ ॥
इति श्रीविष्णुमहापुराणे षष्ठांशे तृतीयोऽध्यायः ॥ ३ ॥