अथ पञ्चमांशे षट्त्रिंशोऽध्यायः
श्रीपराशर उवाच
मैत्रेयैतद्बलं तस्य बलस्य बलशालिनः ।
कृतं यदन्यत्तेनाभूत्तदपि श्रूयतां त्वया ॥ १ ॥
नरकस्यासुरेद्रस्य देवपक्षविरोधिनः ।
सखाऽभवन्महावीर्यो द्विविदो वानरर्षभः ॥ २ ॥
वैरानुबन्धं बलवान्स चकार सुरान्प्रति ।
नरकं हतवान्कृष्णो देवराजेन चोदितः ॥ ३ ॥
करिष्ये सर्वदेवानां तस्मादेतत्प्रतीक्रियाम् ।
यज्ञविध्वंसनं कुर्वन्मर्त्यलोकक्षयं तथा ॥ ४ ॥
ततो विध्वंसयामास यज्ञानज्ञानमोहितः ।
बिभेद साधुमर्यादां क्षयं चक्रे च देहिनाम् ॥ ५ ॥
मैत्रेयेति ॥ एतद्बलं – यमुनाकर्षणादिरूपम् । अन्यत् – द्विविदवधादि ॥ १ – ५॥
ददाह सवनान्देशान्पुरग्रमान्तराणि च ।
क्वचिच्च पर्वताक्षेपैर्ग्रामादीन्समचूर्णयत् ॥ ६ ॥
शैलानुत्पाट्य तोयेषु मुमोचांबुनिधौ तथा ।
पुनश्चार्णवमध्यस्थः क्षोभयामास सागरम् ॥ ७ ॥
ददाहेति ॥ ग्रामान्तराणि – ग्रामविशेषान् ॥ ६, ७ ॥
तेन विक्षोभितश्चाब्धिरुद्वेलो द्विज जायते ।
प्लावयंस्तीरजान्ग्रामान्पुरादीनतिवेगवान् ॥ ८ ॥
कामरूपी महारूपं कृत्वा सस्यान्यशेषतः ।
लुठन्भ्रमणसंमर्दैः संचूर्मयति वानरः ॥ ९ ॥
तेनेति ॥ उद्वेलः – वेलामतिक्रान्तः, जायते ॥ ८, ९ ॥
तेन विप्रकृतं सर्वं जगदेतद्दुरात्मना ।
निःस्वाध्यायवषट्कारं मैत्रेयासीत्सुदुःखितम् ॥ १० ॥
एकदा रैवतोद्याने पपौ पानं हलायुधः ।
रेवती च महाभागा तथैवान्या वरस्त्रियः ॥ ११ ॥
तेनेति ॥ विप्रकृत – विनाशितम् ॥ १०,११ ॥
उद्गीयमानो विलसल्ललनामौलिमध्यगः ।
रेमे यदुकुलश्रेष्ठः कुबेर इव नन्दने ॥ १२ ॥
उद्गीयमान इति ॥ ललनानौलयः विजयिनीश्रेष्ठ्यः अशोकद्भुमो वा । गौलिः किरीटे चूडा – यामशोके केशसंहतौ इति निघण्टुः । तदा ललनोप क्षिताशोकवनान्तस्थः ॥ १२ ॥
ततःस वानरोऽभ्येत्य गृहीत्वा सीरिणो हलम् ।
मुसलं च चकारास्य संमुखं च विडंबनम् ॥ १३ ॥
तथैव योषितां तासां जहासाभिमुखं कपिः ।
पानपूर्णाश्च करकाञ्चिक्षेपाहत्य वै तदा ॥ १४ ॥
ततः कोपपरीतात्मा भर्त्सयामास तं हली ।
तथापि तमवज्ञाय चक्रेकिलकिलध्वनिम् ॥ १५ ॥
ततः स्मयित्वा स बलो जग्राह मुसलं रुषा ।
सोऽपि शैलशिलां भीमां जग्राह प्लवगोत्तमः ॥ १६ ॥
चिक्षेप स च तां क्षिप्तां मुसलेन सहस्रधा ।
विभेद यादवश्रेष्ठःसा पपात महीतले ॥ १७ ॥
अथ तन्मुसलं चासौ समुल्लङ्घ्य प्लवङ्गमः ।
वेगेनागत्य रोषेण करेणोरस्यताडयत् ॥ १८ ॥
तत इति ॥ विडम्बनं —– भ्रूनेत्रादिविकारः । सम्मुखस्येति च पाठः ॥ १३ – १८ ॥
।
ततो बलेन कोपेन मुष्टिना मूर्ध्नि ताडितः ।
पपात रुधिरोद्गारी द्विविदः क्षीणजीवितः ॥ १९ ॥
पतता तच्छरीरेण गिरेः शृगमशीर्यत ।
मैत्रेय शतधा वज्रिवज्रेणेव विदारितम् ॥ २० ॥
पुष्पवृष्टिं ततो देवा रामस्योपरि चिक्षिपुः ।
प्रशशंसुस्ततोऽभ्येत्य साध्वेतत्ते महत्कृतम् ॥ २१ ॥
अनेन दुष्टकपिना दैत्यपक्षोपकारिणा ।
जगन्निराकृतं वीर दिष्ट्या स क्षयमागतः ॥ २२ ॥
इत्युक्त्वा दिवमाजग्मुर्देवा हृष्टःसगुह्यकाः ॥ २३ ॥
श्रीपराशर उवाच
एवंविधान्यनेकानि बलदेवस्य धीमतः ।
कर्माण्यपरिमेयानि शेषस्य धरणीभृतः ॥ २४ ॥
तत इति ॥ क्षीण जीवित इत्यनेनास्या मृतप्राशनाद्दीर्घजीवित्वं महद्धिकारान्नष्टमित्युक्तम्, आयुः श्रियं । वित्तं लोकानाशिष एव च । हंति श्रेयांसि सर्वाणि पुंसो महदतिक्रमः ॥ इति श्रीशुकोक्तेः ॥ १९ – २४ ॥
इति श्रीविष्णुमहापुराणे पञ्चमांशे षट्त्रिंशोध्यायः ॥ ३६ ॥