अथ पञचमांशे पञ्चत्रिंशोऽध्यायः
मैत्रेय उवाच
भूय एवाहमिच्छामि बलभद्रस्य धीमतः ।
श्रोतुं पराक्रमं ब्रह्मन् तन्ममाख्यातुमर्हसि ॥ १ ॥
यमुनाकर्षणादीनि श्रुतानि भगवन्मया ।
तत्कथ्यतां महाभाग यदन्यत्कृतवान्बलः ॥ २ ॥
श्रीपराशर उवाच
मैत्रेय श्रुयतां कर्म यद्रामेणाभवत्कृतम् ।
अनन्तेनाप्रमेयेन शेषेण धरणीधृता ॥ ३ ॥
॥ १ – ३ ॥
सुयोधनस्य तनयां स्वयंवरकृतक्षणाम् ।
बलादादत्तवान्वीरः सांबो जांबवतीसुतः ॥ ४ ॥
ततः क्रुद्धा महावीर्याः कर्णदुर्योधनादयः ।
भीष्मद्रोणादयश्चैनं बबन्धुर्युधि निर्जितम् ॥ ५ ॥
तच्छुत्वा यादवाःसर्वे क्रोधं दुर्योधनादिषु ।
मैत्रेय चक्रुः कृष्णश्च तान्निहन्तुं महोद्यमम् ॥ ६ ॥
तान्निवार्य बलः प्राह मदलोलकलाक्षरम् ।
मोक्ष्यन्ति ते मद्वचनाद्यास्याम्येको हि कौरवान् ॥ ७ ॥
सुयोधनस्येनि ॥ कृतक्षणां – कृतावसराम् । आदत्तवान्–आत्तवान् ॥ ४, ७ ॥
श्रीपराशर उवाच
बलदेवस्ततो दृष्ट्वा नगरं नागसाह्वयम् ।
बाह्योपवनमध्येऽभून्न विवेश च तत्पुरम् ॥ ८ ॥
बलमागतमाज्ञाय भूपा दुर्योधनादयः ।
गामर्घ्यमुदकं चैव रामाय प्रत्यवेदयन् ॥ ९ ॥
गृहीत्वा विधिवत्सर्वं ततस्तानाह कौरवान् ।
आज्ञापयत्युग्रसेनःसांबमाशु विमुञ्चत ॥ १० ॥
ततस्तद्वचनं श्रुत्वा भीष्मद्रोणादयो नृपाः ।
कर्मदुर्योधनाद्याश्च चुक्षुभुर्द्विजसत्तम ॥ ११ ॥
ऊचुश्च कुपिताःसर्वे बाह्लिकाद्याश्च कौरवाः ।
अराज्यार्हं यदोर्वशमवेक्ष्य मुसलायुध ॥ १२ ॥
भोभोः किमेतद्भवता बलभद्रेरितं वचः ।
आज्ञां कुरुकुलोत्थानां यादवः कः प्रदास्यति ॥ १३ ॥
बलदेव इति ॥ पुरं न विवेश, अपेक्षितासिद्धौ विरोद्धुम् ॥ ८ – १३ ॥
उग्रसेनोऽपि यद्याज्ञां कौरवाणां प्रदास्यति ।
तदलं पाण्डुरैश्छत्रैर्नृपयोग्यैर्विडंबनैः ॥ १४ ॥
तद्गच्छ बल मा वा त्वं सांबमन्यायचेष्टितम् ।
विमोक्ष्यामो न भवतश्चोग्रसेनस्य शासनात् ॥ १५ ॥
उग्रसेन इति ॥ विडम्बनैः – हासार्हैः । विडम्बितैरिति पाठे, उग्रसेनेन विडम्बितैर स्मच्छत्रैरलम् ॥ १४, १५ ॥
प्रणतिर्या कृताऽस्माकं मान्यानां कुकुरान्धकैः ।
न नाम सा कृता केयमाज्ञा स्वामिनि भृत्यतः ॥ १६ ॥
प्रणतिरिति ॥ पूर्वं कृता अस्माकं या प्रणतिः सा अधुना, न नाम – न कृताऽस्तु । भृत्यतः – भृत्य – भूतादुग्रसेनात् ॥ १६ ॥
गर्वमारोपिता यूयं समानासनभोजनैः ।
को दोषो भवतां नीतिर्यत्प्रीत्या नावलोकिता ॥ १७ ॥
अस्माभिरर्घो भवतो योऽयं बल निवेदितः ।
प्रेम्णैतन्नैतदस्माकं कुलाद्युष्मत्कुलोचितम् ॥ १८ ॥
श्रीपराशर उवाच
इत्युक्त्वा कुरवः सांबं मुञ्चामो न हरेःसुतम् ।
कृतैतनिश्चयस्तूर्णं विविशुर्गजसाह्वयम् ॥ १९ ॥
मत्तः कोपेन चाघूर्णस्ततोऽधिक्षेपजन्मना ।
उत्थाय पार्ष्ण्या वसुधां जघान स हलायुधः ॥ २० ॥
ततो विदारिता पृथ्वी पार्ष्णिघातान्महात्मनः ।
आस्फोटयामास तदा दिशः शब्देन पूरयन् ॥ २१ ॥
उवाच चातिताम्राक्षो भृकुटीकुटिलाननः ॥ २२ ॥
गर्वमिति ॥ नीतिर्यत्प्रीत्या नावलोकितेति । नीचेष्वपि युष्मासु प्रीत्या युष्माकमुचितमवमानमकृत्वा आसनभोजनैः अस्मत्साम्यं नयद्भिरस्माभिरेव नीतिरुपेक्षिता । प्रीतिर्यत्प्रीत्येति पाठे, अस्माभिः समानासन – तैः युष्माकं कृता प्रीतिः एभिः प्रीत्या कृतेति नावलोकिता, किंतु मीत्येति ॥ १७ – २२ ॥
अहो मदावलेपोऽयमसाराणां दुरात्मनाम् ।
कौरवाणां महीपत्वमस्माकं किल कालजम् ।
उग्रसेनस्य येनाज्ञां मन्यन्तेऽद्यापि लङ्घनम् ॥ २३ ॥
अहो इति । अस्माकं – यादवानां महीपत्वं कालजं – कस्मिंश्चित्काले जातं नान्वयागतमिति । अवलेपेन । लङ्घनम् – अतिक्रमम् । यद्वा ये कौरवाः आज्ञां न मन्यन्ते, किं तु लङ्घनं मन्यन्ते ॥ २३ ॥
उग्रसेनः समध्यास्ते सुधर्मां न शचीपतिः ।
धिङ्मानुषशतोच्छिष्टे तुष्टिरेषां नृपासने ॥ २४ ॥
पारिजाततरोः पुष्पमञ्जरीर्वनिताजनः ।
बिभर्ति यस्य भृत्यानां सोऽप्येषां न महीपतिः ॥ २५ ॥
समस्तभूभृतां नाथ उग्रसेनः स तिष्ठतु ।
अद्य निष्कौरवामुर्वीं कृत्वा यास्यामि तत्पुरीम् ॥ २६ ॥
कर्णं दुर्योधनं द्रोणमद्य भीष्मं सबाह्लिकम् ।
दुश्सासनादीन्भूरिं च भूरिश्रवसमेव च ॥ २७ ॥
सोमदत्तं शलं चैव भीमार्जुनयुधिष्ठिरान् ।
यमौ च कौरवांश्चान्यान्हत्वा साश्वरथद्विपान् ॥ २८ ॥
वीरमादाय तं सांबं सपत्नीकं ततः पुरीम् ।
द्वारकामुग्रसेनादीन्गत्वा द्रक्ष्यामि बान्धवान् ॥ २९ ॥
अथवा कौरवावासं समस्तैः कुरुभिः सह ।
भागीरथ्यां क्षिपाम्याशु नगरं नागसाह्वयम् ॥ ३० ॥
अद्यापीति सूचितमैश्वर्यं दर्शयति उग्रसेन इत्यादिना ॥ उग्रसेन इति ॥ एषां मनुष्यशतोच्छिष्टेने तुष्टिः । घिगेतान् । २४ – ३० ॥
श्रीपराशर उवाच
इत्युक्त्वा मदरक्ताक्षः कर्षणाधोमुखं हलम् ।
प्राकारवप्रदुर्गस्य चकर्ष मुसलायुधः ॥ ३१ ॥
आघूर्णितं तत्सहसा ततो वै हास्तिनं पुरम् ।
दृष्ट्वा संक्षुब्धहृदयाश्चुक्रुशुस्सर्वकौरवाः ॥ ३२ ॥
रामराम महाबाहो क्षम्यतां क्षम्यतां त्वया ।
उपसंह्रियतां कोपः प्रसीद मुसलायुध ॥ ३३ ॥
एष सांबःसपत्नीकस्तव निर्यातितो बलात् ।
अविज्ञातप्रभावानां क्षम्यतामपराधिनाम् ॥ ३४ ॥
श्रीपराशर उवाच
ततो निर्यातयामासुःसांबं पत्नीसमन्वितम् ।
निष्क्रम्य स्वपुरात्तूर्णं कौरवा मुनिपुङ्गव ॥ ३५ ॥
भीष्मद्रोणकृपादीनां प्रणम्य वदतां प्रियम् ।
क्षान्तमेव मयेत्याह बलो बलवतां वरः ॥ ३६ ॥
अद्याप्याघूर्णिताकारं लक्ष्यते तत्पुरं द्विज ।
एष प्रभावो रामस्य बलशौर्योपलक्षणः ॥ ३७ ॥
ततस्तु कौरवाःसांबं संपूज्य बलि ना सह ।
प्रेषयामासुरुद्वाहधनभार्यासमन्वितम् ॥ ३८ ॥
इत्युक्त्वेति ॥ कर्षणाधोमुखं – कर्षणार्थमधोमुखम् ॥ ३१ – ३८ ॥
इति श्रीविष्णुमहापुराणे पञ्चमांशे पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥