३३

अथ पञ्चमांशे त्रयस्त्रिंशोऽध्यायः

श्रीपराशर उवाच

बाणोऽपि प्रणिपत्याग्रे मैत्रेयाह त्रिलोचनम् ।
देव बाहुसहस्रेण निर्विण्णोऽस्म्याहवं विना ॥ १ ॥

बाण इति ॥ अग्रे—अनिरुद्धवृत्तान्तात्प्राक् ॥ १ ॥

कच्चिन्ममैषां बाहूनां साफल्यजनको रणः ।
भविष्यति विना युद्धं भाराय मम किं भुजैः ॥ २ ॥

श्रीशङ्कर उवाच

मयूरध्वजभङ्गस्ते यदा बाणा भविष्यति ।
पिशिताशिजनानन्दं प्रप्स्यसे त्वं तदा रणम् ॥ ३ ॥

कच्चिदिति ॥ भाराय जातैः किं भुजैः ॥ २ – ३॥

श्रीपराशर उवाच

ततः प्रणम्य वरदं शंभुमभ्यागतो गृहम् ।
स भग्नं ध्वजमालोक्य हृष्टो हर्षं पुनर्ययौ ॥ ४ ॥

एतस्मिन्नेव काले तु योगविद्याबलेन तम् ।
अनिरुद्धमथानिन्ये चित्रलेखा वराऽप्सराः ॥ ५ ॥

कन्यान्तःपुरमभ्येत्य रममाणं सहोषया ।
विज्ञाय रक्षिणो गत्वा शशंसुर्दैत्यभूपते ॥ ६ ॥

व्यादिष्टं किङ्कराणां तु सैन्यं तेन महात्मना ।
जघान परिघं घोरमादाय परवीरहा ॥ ७ ॥

हतेषु तेषु बाणोऽपि रथस्थस्तद्वधोद्यतः ।
युध्यमानो यथाशक्ति यदुवीरेण निर्जितः ॥ ८ ॥

मायया युयुधे तेन स तदा मन्त्रिचोदितः ।
ततस्तं पन्नगास्त्रेण बबन्ध यदुनन्दनम् ॥ ९ ॥

तत इति ॥ देववचनात् दृष्टः ध्वजभङ्गदर्शनाद्धान्तरं ययौ ॥ ४–९ ॥

द्वारवत्यां क्व यातोऽसावनिरुद्धेति जल्पताम् ।
यदूनामाचचक्षे तं बद्धं बाणेन नारदः ॥ १० ॥

द्वारवत्यामिति ॥ अनिरुद्धेत्यार्षः संधिः ॥ १० ॥

तं शोशितपुरं नीतं श्रुत्वा विद्याविदग्धया ।
योषिता प्रत्ययं जग्मुर्यादवा नामरैरिति ॥ ११ ॥

ततो गरुडमारुह्य स्मृतमात्रागतं हरिः ।
बलप्रद्युम्नसहितो बाणस्य प्रययौ पुरम् ॥ १२ ॥

पुरप्रवेशे प्रमथैर्युद्धमासीन्महात्मनः ।
ययौ बाणपुराभ्याशं नीत्वा तान्संक्षयं हरिः ॥ १३ ॥

ततस्त्रिपादस्त्रिशिरा ज्वरो माहेश्वरो महान् ।
बाणरक्षार्थमभ्येत्य युयुधे शार्ङ्गधन्वना ॥ १४ ॥

तमिति ॥ नामरैरिति । पारिजातनिमित्तं बद्ध – रैरमरेर निरुद्धो हृतस्स्यादिति शङ्का हरिवंशोक्ता ॥ ११ – १४ ॥

तद्भस्मस्पर्शसंभूततापः कृष्णाङ्गसंगमात्।
अवाप बलदेवोऽपि श्रममामीलितेक्षणः ॥ १५ ॥

तद्भस्मेति ॥ तापः कृष्णांगसंगमात्, अवाप बलदेवोऽपि श्रममामीलितेक्षणः इति पाठः । तापः कृष्णांगसंगमात् शममिति पाठे अपिशब्दों न संगतः ॥ १५ ॥

ततःस युद्ध्यमानस्तु सह देवेन शार्ङ्गिणा ।
वैष्णवेन ज्वरेणाशु कृष्णदेहान्निराकृतः ॥ १६ ॥

नारायणभुजाघातपरिपीडनविह्वलम् ।
तं वीक्ष्य क्षम्यतामस्येत्याह देवः पितामहः ॥ १७ ॥

तत इति ॥ कृष्णस्पर्शी ज्वरो वैष्णवेन ज्वरेण कृष्णदेहान्निराकृतः ॥ १६, १७ ॥

ततश्च क्षान्तमेवेति प्रोक्त्वा तं वैष्णवं ज्वरम् ।
आत्मन्येव लयं निन्ये भगवान्मधुसूदनः ॥ १८ ॥

ततश्चेति ॥ लयं— सौक्ष्म्यं, न नाशम् । युवां ज्वरो ज्वरपती पीडायां मारणे प्रभू । पीडायां भवानस्तु मारणे मामको ज्वरः ॥ इति हरिवंशे भगवदुक्तेः ॥ १८ ॥

ज्वर उवाच

मम त्वया समं युद्धं ये स्मरीष्यन्ति मानवाः ।
विज्वरास्ते भविष्यन्ती त्युक्त्वा चैनं ययौ ज्वरः ॥ १९ ॥

ममेति ॥ मम त्वयेत्यनेन कृष्णज्वरयुद्धस्मरणं ज्वरशान्तिकरमुक्तम । अत्र मन्त्ररूपं श्लोकांतरम् आद्यन्तवन्तः कवय इत्यादि । आद्यन्तवन्तः जगतामाद्यन्तकर्तारः ॥ १९ ॥

ततोऽग्नीन्भगवान्पञ्च जित्वा नीत्वा तथा क्षयम् ।
दानवानां बलं कृष्णश्चूर्णयामास लीलया ॥ २० ॥

ततःसमस्तसैन्येन दैतेयानां बलेःसुतः ।
युयुधे शङ्करश्चैव कार्त्तिकेयश्च शौरिणा ॥ २१ ॥

हरिशङ्करयोर्युद्धमतीवासीत्सुदारुणम् ।
चुक्षुभुःसकला लोकाः शस्त्रास्त्रांशुप्रतापितिः ॥ २२ ॥

प्रलयोऽयमशेषस्य जगतो नूनमागतः ।
मेनिरे त्रिदशास्तत्र वर्तमाने महारणे ॥ २३ ॥

जृंभकास्त्रेण गोविन्दो जृंभयामास शङ्करम् ।
ततः प्रणेशुर्दैतेयाः प्रमथाश्च समन्ततः ॥ २४ ॥

तत इति ॥ आद्यन्तवतः – आद्यन्तकर्तृन् अग्नीन्– पुररक्षकान् रुद्रानुवरान् ॥ २० – २४ ॥

जृंभाभिभूतस्तु हरो रथोपस्थ उपाविशत् ।
न शशाक ततो योद्धुं कृष्णेनाक्लिष्टकर्मणा ॥ २५ ॥

गरुडक्षतवाहश्च प्रद्युम्नास्त्रेण पीडितः ।
कृष्णहुङ्कारनिर्धूतशक्तिश्चापययौ गुहः ॥ २६ ॥

जृंभिते शङ्करे नष्टे दैत्यसैन्ये गुहे जिते ।
नीते प्रमथसैन्ये च संक्षयं शार्ङ्गधन्वना ॥ २७ ॥

नन्दिना संगृहीताश्वमधिरूढो महारथम् ।
बाणस्तत्राययौ योद्धुं कृष्णकार्ष्णिबलैः सह ॥ २८ ॥

जृम्भेति ॥ जृम्भो गात्रपारवश्यम् ॥ २५ – २८ ॥

बलभद्रो महावीर्यो बाणसैन्यमनेकधा ।
विव्याध बाणैः प्रभ्रश्य धर्मतश्चापलायत ॥ २९ ॥

बलभद्र इति ॥ प्रभ्रश्येति । धर्मतः— युद्धधर्मात् प्रभ्रश्यापलायत ॥ २९ ॥

आकृष्य लाङ्गलाग्रेण मुकलेनाशु ताडितम् ।
बलं बलेन ददृशे बाणो बाणैश्च चक्रिणा ॥ ३० ॥

ततः कृष्णेन बाणस्य युद्धमासीत्सुदारुणम् ॥ ३१ ॥

आकृष्येति ॥ बलेन चक्रिणा मुसलेन बाणैश्च पीडितं स्वचलं बाणो ददर्शेत्यन्वयः ॥ ३०, ३१ ॥

समस्यतोरिषून्दीप्तान्कायत्राणविभेदिनः ।

कृष्णश्चिच्छेद बाणैस्तान् बाणेन प्रहिताञ्छितान् ।
विव्याध केशवं बाणो बाणं विव्याध चक्रधृक् ॥ ३२ ॥

मुमुचाते तथाऽस्त्राणि बाणकृष्णौ जिगीषया ।
परस्परक्षतिकरौ लाघवादनिशं द्विज ॥ ३३ ॥

समस्यतोरिति ॥ समस्यतोः कृष्णबाणर्योर्मध्ये कृष्णः बाणप्रहितान् तान् बाणांश्चिच्छेद ॥ ३२, ३३ ॥

भिद्यमानेष्वशेषेषु शरेष्वस्त्रे च सीदति ।
प्राचुर्येण ततो बाणं हन्तुं चक्रे हरिर्मनः ॥ ३४ ॥

ततोऽर्कशतसंघाततेजसा सदृशद्युति ।
जग्राह दैत्यचक्रारिर्हरिश्चक्रं सुदर्शनम् ॥ ३५ ॥

मिद्यमानेष्विति ॥ प्राचुर्येणास्त्रे व सीदति ॥ ३४, ३५ ॥

मुञ्चतो बाणनाशाय ततश्चक्रं मधुद्विषः ।
नग्ना दैतेयविद्याभूत्कोटरी पुरतो हरेः ॥ ३६ ॥

तामग्रतो हरिर्दृष्ट्वा मीलिताक्षःसुदर्शनम् ।
मुमोच बाणमुद्दिश्य च्छेत्तुं बाहुवनं रिपोः ॥ ३७ ॥

मुञ्चत इति ॥ कोटरी विद्यारूपा दैतेयकुलदेवता गोर्याश्शक्तिः । तथा माथुरे हरिवंशे दिग्वासा देववचनात्प्रातिष्ठत्तत्र कोटरी लंवमाना महाभागा गौरीदेव्यास्तथाऽष्टमी ” इति । गोमंतद्धरिवंशे च शशाप चैनां भगवान्यश्च मां भक्तिसंयुतः । द्वादशाब्दं नमस्कुर्यात्तेना भूद्यत्फलं महत् ॥ त्वन्नमस्करणात्तस्य तत्सर्वं नश्यतां तदा । सदा दिगंबरा भूयास्तिष्ठ वा गच्छ वाऽग्रतः ॥ इति ॥ ३६, ३७ ॥

क्रमेण तत्तु बाहूनां बाणस्याच्युतचोदितम् ।
छेदं चक्रेऽसुरापास्तशस्त्रौ घक्षपणादृतम् ॥ ३८ ॥

छिन्ने बाहुवने तत्तु करस्थं मधुसूदनः ।
मुमुक्षुर्बाणनाशाय विज्ञातस्त्रिपुरद्विषा ॥ ३९ ॥

समुपेत्याह गोविन्दं सामपूर्वमुमापतिः ।
विलोक्य बामं दोर्दण्डच्छेदासृक्स्राववर्षिणम् ॥ ४० ॥

शङ्कर उवाच

कृष्णकृष्ण जगन्नाथ जाने त्वां पुरुषोत्तमम् ।
परेशं परमात्मानमनादिनिधनं हरिम् ॥ ४१ ॥

क्रमेणेति ॥ असुरेति । असुरक्षिप्तशस्त्रौघक्षपणे आदृतम् ॥ ३८ – ४१ ॥

देवतिर्यङ्मनुष्येषु शरीरग्रहणात्मिका ।
लीलेयं सर्वभूतस्य तव चेष्टोपलक्षणा ॥ ४२ ॥

तत्प्रसीदाभयं दत्तं बाणस्यास्य मया प्रभो ।
तत्त्वाय नानृतं कार्यं यन्मया व्याहृतं वचः ॥ ४३ ॥

अस्मत्संश्रयदृप्तोऽयं नापराधी तवाव्यय ।
मया दत्तवरो दैत्यस्ततस्त्वां क्षमयाम्यहम् ॥ ४४ ॥

श्रीपराशर उवाच

इत्युक्तः प्राह गोविदः शुलपाणिमुमापतिम् ।
प्रसन्नवदनो भूत्वा गतामर्षोऽसुरं प्रति ॥ ४५ ॥

श्रीभगवानुवाच

युष्मद्दत्तवरो बाणो जीवतामेष शङ्कर ।
त्वद्वाक्यगौरवादेतन्मया चक्रं निवर्तितम् ॥ ४६ ॥

देवेति ॥ देवतिर्यङ्मनुष्येषु मध्ये देवादिशरीरग्रहणात्मिका तत्तच्चेष्टा विशिष्ट। तव लीलेयम् ॥ ४२ – ४६ ॥

त्वया यदभयं दत्तं तद्दत्तमखिलं मया ।
मत्तोऽविभिन्नमात्मानं द्रष्टुमर्हसि शङ्कर ॥ ४७ ॥

योऽहं स त्वं जगच्चेदं सदेवासुरमानुषम् ।
मत्तो नान्यदशेषं यत्तत्त्वञ्ज्ञातुमिहार्हसि ॥ ४८ ॥

त्वयेति ॥ मत्तोविभिन्नमात्मानमित्यत्र अविभिन्नमिति च्छेदः । योऽहं स त्वमितिवत् जगच्चेदं सदेवा – सुरमानुषंमित्युक्तत्वात् इतर क्षेत्रज्ञवदस्य ब्रह्मात्मकत्वेनैक्यमुच्यते, न तु स्वरूपतः ॥ ४७ – ४८ ॥

अविद्यामोहितात्मानः पुरुषा भिन्नदर्शिनः ।
वदन्ति भेदं पश्यन्ति चावयोरन्तरं हर ॥ ४९ ॥

प्रसन्नोऽहं गमिष्यामि त्वं गच्छ वृषभध्वज ॥ ५० ॥

श्रीपराशर उवाच

इत्युक्त्वा प्रययौ कृष्णः प्राद्युम्निर्यत्र तिष्ठति ।
तद्बन्धफणिनो नेशुर्गरुडानिलपोथिताः ॥ ५१ ॥

ततोऽनिरुद्धमारोप्य सपत्नीकं गरुत्मति ।
आजग्मुर्द्वारकां रामकार्ष्णिदामोदराः पुरीम् ॥ ५२ ॥

पुत्रपौत्रैः परिवृतस्तत्र रेमे जनार्दनः ।
देवीभिः सततं विप्र भूभारतरणेच्छया ॥ ५३ ॥

अविद्येति ॥ भिन्नदर्शिनः – अब्रह्मात्मकत्वेन भिन्नदर्शिनः ॥ ४९ – ५३ ॥

इति श्रीविष्णुमहापुराणे पञ्चमांशे त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥