२४

अथ पञ्चमांशे चतुर्विंशोऽध्यायः

श्रीपराशर उवाच

इत्थं स्तुतस्तदा तेन मुचुकुन्देन धीमता ।
प्राहेशः सर्वभूतानामनादिनिधनो हरिः ॥ १ ॥

श्रीभगवानुवाच

यथाभिवाञ्छितान्दिव्यान्गच्छ लोकान्नराधिप ।
अव्याहतपरैश्वर्यो मत्प्रसादोपबृंहितः ॥ २ ॥

भुक्त्वा दिव्यन्महाभोगान्भविष्यसि महाकुले ।
जातिस्मरो मत्प्रसादात्ततो मोक्षमवाप्स्यसि ॥ ३ ॥

श्रीपराशर उवाच

इत्युक्तः प्रणिपत्येशं जगतामच्युतं नृपः ।
गुहामुखाद्विनिष्क्रान्तस्स ददर्शाल्पकान्नरान् ॥ ४ ॥

॥ १ – ४ ॥

ततः कलियुगं मत्वा प्राप्तं तप्तुं नृपस्तपः ।
नरनारायणस्थानं प्रययौ गन्धमादनम् ॥ ५ ॥

कृष्णोऽपि घातयित्वाऽरिमुपायेन हि तद्वलम् ।
जग्राह मथुरामेत्य हस्त्यश्वस्यन्दनोज्ज्वलम् ॥ ६ ॥

आनीय चोग्रसेनाय द्वारवत्वां न्यवेदयत् ।
पराभिभवनिः शङ्कं बभूव च यदोः कुलम् ॥ ७ ॥

बलदेवोऽपि मैत्रेय प्रशान्ताखिलविग्रहः ।
ज्ञातिदर्शनसोत्कण्ठः प्रययौ नन्दगोकुलम् ॥ ८ ॥

ततो गोपाश्च गोप्यश्च यथा पूर्वममित्रजित् ।
तथैवाभ्यवदत्प्रेम्णा बहुमानपुरःसरम् ॥ ९ ॥

तत इति ॥ प्राप्तम् – आसन्नम् ॥ ५ – ९ ॥

स कैश्चित्संपरिष्वक्तः कांश्चिच्च परिषस्वजे ।
हास्यं चक्रे समं कैश्चिद्गोपैर्गोपीजनैस्तथा ॥ १० ॥

स इति ॥ कैश्चित् — वृद्धैः, कांश्चित् – यवीयसः, कैश्चित् – समैः ॥ १० ॥

प्रियाण्यनेकान्यवदन् गोपास्तत्र हलायुधम् ।
गोप्यश्च प्रेमकुपिताः प्रोचुस्सेर्ष्यमथापराः ॥ ११ ॥

प्रियाणीति ॥ गोप्यश्च मध्यस्थाः । अपरा रामकान्ताः ॥ ११ ॥

गोप्यः पप्रच्छुरपरा नागरीजनवल्लभम् ।
कच्चिदास्ते सुखं कृष्णश्चलप्रेमलवात्मकः ॥ १२ ॥

गोप्य इति ॥ अपराः— कृष्णकान्ता गोप्यः पप्रच्छुः ॥ १२॥

अस्मच्चेष्टामपहसन्न कच्चित्पुरयोषिताम् ।
सौभाग्यमानमधिकं करोति क्षणसौहृदः ॥ १३ ॥

अस्मदिति ॥ सौभाग्यमेव मानम् । अस्मच्चेष्टामपहसन्निति नागरीगर्वहेतुः । चेष्टापहसन मिति पाठेऽप्यमहसनं गर्वहेतुः ॥ १३ ॥

कच्चित्स्मरति नः कृष्णो गीतानुगमनं कलम् ।
अप्यसौ मातरं द्रष्टुं सकृदप्यागमिष्यति ॥ १४ ॥

कच्चिदिति ॥ गीतानुगमनं— गीतस्यानुगमनम् । अप्यसावित्युत्कण्ठा, चकारोऽध्याहार्यः ॥ १४ ॥

अथवा किं तदालापैः क्रियन्तामपराः कथाः ।
यस्यास्मभिर्विना तेन विनाऽस्माकं भविष्यति ॥ १५ ॥

अथवेति ॥ अथवेति निर्वेदः । भविष्यति – जीवनं कालयात्रा वा । इदं चित्तसमाधानम् । विनेति स्नेहानुतापौ ॥ १५ ॥

पिता माता तथा भ्राता भर्ता बन्धुजनश्च किम् ।
संत्यक्तस्तत्कृतेऽस्माभिरकृतज्ञध्वजो हि सः ॥ १६ ॥

पितेति ॥ किं – किमर्थं संत्यक्तः ! अकृतज्ञानां ध्वजः – प्रधानः ॥ १६ ॥

तथापि कच्चिदालापमिहागमनसंश्रयम् ।
करोति कृष्णो वक्तव्यं भवता राम नानृतम् ॥ १७ ॥

तथापीति ॥ तथापीति प्रत्याशा ॥ १७ ॥

दामोदरोऽसौ गोविन्दः पुरस्त्रीसक्तमानसः ।
अपेतप्रीतिरस्मासु दुर्दर्शः प्रतिभाति नः ॥ १८ ॥

दामोदर इति ॥ दुर्दर्श इति नैराश्योक्तिः ॥ १८ ॥

आमन्त्रितश्च कृष्णेति पुनर्दामोदरेति च ।
जहसुस्सस्वरं गोप्यो हरिणा हृतचेतसः ॥ १९ ॥

संदेशैस्साममधुरैः प्रेमगर्भैरगर्वितैः ।
रामेणाश्वासिता गोप्यः कृष्णस्यातिमनोहरैः ॥ २० ॥

गोपैश्च पूर्ववद्रामः परिहासमनोहराः ।
कथाश्चकार रेमे च सह तैर्व्रजभूमिषु ॥ २१ ॥

आमन्त्रितश्चेति ॥ अत्र भावसंकरस्य बीज हरिणा हृतचेतस्त्वम् । अत्र कृष्णरतिरूपस्थायीभावः । तत्संचारीभावस्तु निर्वेदादिः ॥ १९ – २१ ॥

इति श्रीविष्णुमहापुराणे पञ्चमांशे चतुर्विंशोध्यायः ॥ २४ ॥