२३

अथ पञ्चमांशे त्रयोविंशोऽध्यायः

श्रीपराशर उवाच

गार्ग्यं गोष्ठ्यां द्विजं श्यालष्षण्ड इत्युक्तवान्द्विज ।
यदूनां सन्निधौ सर्वे जहसुर्यादवास्तदा ॥ १ ॥

गार्ग्यमिति ॥ षण्ड इत्यपहासोऽनपत्यत्वात् ॥ १ ॥

ततः कोपपरीतात्मा दक्षिणापथमेत्य सः ।
सुतमिच्छंस्तपस्तेपे यदुचक्रभयावहम् ॥ २ ॥

आराधयन्महादेवं लोहचूर्णमभक्षयत् ।
ददौ वरं च तुष्टोऽस्मै वर्षे तु द्वादशे हरः ॥ ३ ॥

संतोषयामास च तं यवनेशो ह्यनात्मजः ।
तद्योषित्संगमाच्चास्य पुत्रोऽभूदलिसन्निभः ॥ ४ ॥

तं कालयवनं नाम राज्ये स्वे यवनेश्वरः ।
अभिषिच्य वनं यातो वज्रग्रकठिनोरसम् ॥ ५ ॥

स तु वीर्यमदोन्मत्तः पृथिव्यां बलिनो नृपान् ।
अपृच्छन्नारदस्तस्मै कथयामास यादवान् ॥ ६ ॥

म्लेच्छकोटिसहस्राणां सहस्रैः सोऽभिसंवृतः ।
गजाश्वरथसंपन्नैश्चकार परमोद्यमम् ॥ ७ ॥

तत इति ॥ दक्षिणापथं – विन्ध्याद्दक्षिणदेशम् ॥ २ – ७ ॥

प्रययौ स व्यवच्छिन्नं छिन्नयानो दिनेदिने ।
यादवान्प्रति सामर्षो मैत्रेय मथुरां पुरीम् ॥ ८ ॥

प्रययाविति ॥ छिन्नयानः – त्यक्तयानः । दिनेदिने श्रान्तं श्रान्तं यानं त्यक्त्वा अन्येना श्रान्तेन प्रययावित्यर्थः ॥ ८ ॥

कृष्णोऽपि चिन्तयामास क्षपितं यादवं बलम् ।
यवनेन रणे गम्यं मागधस्य भविष्यति ॥ ९ ॥

मागधस्य बलं क्षीणं स कालयवनो बली ।
हन्तैतदेवमायातं यदूनां व्यसनं द्विधा ॥ १० ॥

तस्माद्दुर्गं करिष्यामि यदूनामरिदुर्जयम् ।
स्त्रियोऽपि यत्र युद्धेयुः किं पुनर्वृष्णिपुङ्गवाः ॥ ११ ॥

कृष्णोऽपीत्यादि ॥ प्रागेव क्षीणं मागधस्य बलं स कालयवनों बलिवाद्वन्ता । अतोऽस्य बलं गदवैर्दुर्धर्षम् । यादवबलं चानेन क्षपितं चेत् मागधस्य गम्यं साध्यं भविष्यति । अतो द्विधा व्यसनमायातमिति चिन्तयामासेत्यन्वयः । अथवा यवनेन क्षपितं यादववलं मागधस्य गम्यं च भविष्यति । यद्यपि मागघस्य बलं प्रागेव क्षीणम, तथापि तत्सहायो यवनो बली हन्तैतदिति । एतत् एतस्मात् कारणात् द्विविधं व्यसनमायातमिति चिन्तयामासेति । हन्तेति विषादे ॥ ९ – ११ ॥

मयि मत्ते प्रमत्ते वा सुप्ते प्रवसितेऽपि वा ।
यादवाभिभवं दुष्टा मा कुर्वन्त्वरयोऽधिकाः ॥ १२ ॥

इति संचिन्त्य गोविन्दो योजनानां महोदधिम् ।
ययाचे द्वादश पुरीं द्वारकां तत्र निर्ममे ॥ १३ ॥

मयीति ॥ प्रमत्ते—अनवहिते । प्रवसिते – प्रोषिते ॥ १२, १३ ॥

महोद्यानां महावप्रां तटाकशतशोभिताम् ।
प्रासादगृहसंबाधामिन्द्रस्येवामरावतीम् ॥ १४ ॥

मथुरावासिनं लोकं तत्रानीय जनार्दनः ।
आसन्ने कालयवने मथुरां च स्वयं ययौ ॥ १५ ॥

महोद्यानामिति ॥ वप्रः – प्राकारमूलधिष्ण्यम् ॥ १४, १५ ॥

बहिरावासिते सैन्ये मथुराया निरायुधः ।
निर्जगाम च गोविन्दो ददर्श यवनश्च तम् ॥ १६ ॥

बहिरिति ॥ बहिरावासिते सैन्ये । कालयवनेनेति शेषः ॥ १६ ॥

स ज्ञात्वा वासुदेवं तं बाहुप्रहरणं नृपः ।
अनुयातो महायोगी चेतोभिः प्राप्यते न यः ॥ १७ ॥

तेनानुयातः कृष्णोऽपि प्रविवेश महागुहाम् ।
यत्र शेते महावीर्यो मुचुकुन्दो नरेश्वरः ॥ १८ ॥

सोऽपि प्रविष्टो यवनो दृष्ट्वा शय्यागतं नृपम् ।
पादेन ताडयामास मत्वा कृष्णं सुदुर्मतिः ॥ १९ ॥

उत्थाय मुचुकुन्दोऽपि ददर्श यवनं नृपः ॥ २० ॥

दृष्टमात्रश्च तेनासौ जज्वाल यवनोऽग्निना ।
तत्क्रोधजेन मैत्रेय भस्मीभूतश्च तत्क्षणात् ॥ २१ ॥

स हि देवासुरे युद्धे गतो हत्वा महासुरान् ।
निद्रार्तःसुमहाकालं निद्रां वव्रे वरं सुरान् ॥ २२ ॥

प्रोक्तश्च देवैः संसुप्तं यस्त्वामुत्थापयिष्यति ।
देहजेनाग्निना सद्यःस तु भस्मीभविष्यति ॥ २३ ॥

एवं दग्ध्वा स तं पापं दृष्ट्वा च मधुसूदनम् ।

कस्त्वमित्याह सोऽप्याह जातोऽहं शशिनः कुले ।
वसुदेवस्य तनयो यदोर्वंशसमुद्भवः ॥ २४ ॥

स इति ॥ सः ज्ञात्वा –नारदोक्तलक्षणैः ॥ १७ – २४॥

मुचुकुन्दोऽपि तत्रासौ वृद्धगर्ग्यावचोऽस्मरत् ॥ २५ ॥

संस्मृत्य प्रणिपत्यैनं सर्वं सर्वेश्वरं हरिम् ।
प्राह ज्ञातो भवान् विष्णोरंशस्त्वं परमेश्वर ॥ २६ ॥

पुरा गार्ग्येण कथितमष्टाविंशतिमे युगे ।
द्वापरान्ते हरेर्जन्म यदुवंशे भविष्यति ॥ २७ ॥

स त्वं प्राप्तो न संदेहो मर्त्यानामुपकारकृत् ॥ २८ ॥

तथाहि सुमहत्तेजो नालं सोढुमहं तव ।

तथाहि सजलांभोदनादधीरतरं तव ।
वाक्यं नमति चैवोर्वी युष्मत्पादप्रपीडिता ॥ २९ ॥

देवासुरमहायुद्धे दैत्यसैन्यमहाभटाः ।
न सेहुर्मम तेजस्ते त्वत्तेजो न सहाम्यहम् ॥ ३० ॥

संसारपतितस्यैको जन्तोस्त्वं शरणं परम् ।
प्रसीद त्वं प्रपन्नार्तिहर नाशय मेऽशुभम् ॥ ३१ ॥

त्वं पयो निधयः शैलसरितस्त्वं वनानि च ।
मेदिनी गगनं वायुरापोऽग्निस्त्वं तथा मनः ॥ ३२ ॥

मुचुकुंद इति ॥ वृद्धगार्ग्यत्रचः वधार्यंत द्वापरस्यान्ते समुतत्स्यति केशवः इत्यादि ॥ २५ – ३२ ॥

बुद्धिरव्याकृतप्राणाः प्राणेशस्त्वं तथा पुमान् ।
पुंसः परतरं यच्च व्याप्यजन्मविकारवत् ॥ ३३ ॥

शब्दादिहीनमजरममेयं क्षयवर्जितम् ।
अवृद्धिनाशं तद्ब्रह्म त्वमाद्यन्तविवर्जितम् ॥ ३४ ॥

त्वत्तोऽमरास्सपितरो यक्षगन्धर्वकिन्नराः ।
सिद्धाश्चाप्सरसस्त्वत्तो मनुष्याः पशवः खगाः ॥ ३५ ॥

सरीसृपा मृगास्सर्वे त्वत्तस्सर्वे महीरुहाः ।
यच्च भूतं भविष्यं च किञ्चिदत्र चराचरम् ॥ ३६ ॥

मूर्तामूर्तं तथा चापि स्थूलं सूक्ष्मतरं तथा ।
तत्सर्वं त्वं जगत्कर्ता नास्ति किञ्चित्त्वया विना ॥ ३७ ॥

मया संसारचक्रेऽस्मिन्भ्रमता भगवंस्तदा ।
तापत्रयाभिभूतेन न प्राप्ता निर्वृतिः क्विचित् ॥ ३८ ॥

दुःखान्येव सुखानीति मृगतृष्णाजलाशयाः ।
मया नाथ गृहीतानि तानि तापाय मेऽभवन् ॥ ३९ ॥

राज्यमुर्वी बलं कोशो मित्रपक्षस्तथात्मजाः ।
भार्या भृत्यजनो ये च शब्दाद्या विषयाः प्रभो ॥ ४० ॥

सुखबुद्ध्या मया सर्वं गृहीतमिदमव्ययम् ।
परिणामे तदेवेश तापात्मकमभून्मम ॥ ४१ ॥

देवलोकगतिं प्राप्तो नाथ देवगणोऽपि हि ।
मत्तस्साहाय्यकामोऽभूच्छाश्वती कुत्र निर्वृतिः ॥ ४२ ॥

त्वामनाराध्य जगतां सर्वेषां प्रभवास्पदम् ।
शाश्वती प्राप्यते केन परमेश्वर निर्वृतिः ॥ ४३ ॥

त्वन्मायामूढमनसो जन्ममृत्युजरादिकान् ।
अवाप्य तापान्पश्यन्ति प्रेतराजमनन्तरम् ॥ ४४ ॥

बुद्धिरिति ॥ प्राणेशः – व्यष्टिवर्गः । पुमान् – समष्टिपुरुषः । पुंसः परतरमिति परस्वरूपमाह ॥ ३३ – ४४ ॥

ततो निजक्रियासूतिनरकेष्वतिदारुणम् ।
प्राप्नुवन्ति नरा दुःखमस्वरूपविदस्तव ॥ ४५ ॥

अहमत्यन्तविषयी मोहितस्तव मायया ।
ममत्वगर्वगर्तान्तर्भ्रमामि परमेश्वर ॥ ४६ ॥

तत इति । निजक्रियासूति – स्वकर्मजम् ॥ ४५, ४६ ॥

सोऽहं त्वां शरणमपारमप्रमेयं संप्राप्तः परमपदं यतो न किञ्चित् ।
संसारभ्रमपरितापतप्तचेता निर्वाणे परिणतधाम्नि साभिलाषः ॥ ४७ ॥

सोऽहमिति ॥ परमपदं परमप्राप्यम् । यतः परमपदं न किंचित, तं त्वामित्यन्वयः । परिणत – धाम्नि – निरतिशयतेजसि ॥ ४७ ॥

इति श्रीविष्णुमहापुराणेच पञ्चमांशे त्रयोविंशोऽध्यायः ॥ २३ ॥