२२

अथ पञ्चमांशे द्वाविंशोऽध्यायः

श्रीपराशर उवाच

जरासंधसुते कंस उपयेमे महाबलः ।
अस्तिं प्राप्तिं च मैत्रेय तयोर्भर्तृहणं हरिम् ॥ १ ॥

महा बलपरीवारो मगधाधिपतिर्बली ।
हन्तुमभ्याययौ कोपाज्जरासंधःसयादवम् ॥ २ ॥

॥ १, २ ॥

उपेत्य मथुरां सोऽथ रुरोध मगधेश्वरः ।
अक्षौहिणीभिः सैन्यस्य त्रयोविंशतिभिर्वृतः ॥ ३ ॥

निष्क्रम्याल्पपरीवारावुभौ रामजनार्दनौ ।
युयुधाते समं तस्य बलिनौ बलिसैनिकैः ॥ ४ ॥

उपेत्येति ॥ त्रयोविंशतिभिः – त्रयोविंशत्या ॥ ३, ४ ॥

ततो रामश्च कृष्णश्च मतिं चक्रतुरञ्जसा ।
आयुधानां पुराणानामादाने मुनिसत्तम ॥ ५ ॥

अनन्तरं हरेः शार्ङ्गं तूणी चाक्षयसायकौ ।
आकाशादागतौ विप्र तथा कौमोदकी गदा ॥ ६ ॥

हलं च बलभद्रस्य गगनादागतं महत् ।
मनसोऽभिमतं विप्र सानन्दं मुसलं तथा ॥ ७ ॥

ततो युद्धे पराजित्य ससैन्यं मगधाधिपम् ।
पुरीं विविशतुर्वीरावुभौ रामजनार्दनौ ॥ ८ ॥

तत इति ॥ अञ्जसा – शीघ्रम् ॥ ५ – ८॥

जिते तस्मिन्सुदुर्वृत्ते जरासंधे महा मुने ।
जीवमाने गते कृष्णस्तेनामन्यत नाजितम् ॥ ९ ॥

पुनरप्याजगामाथ जरासंधो बलान्वितः ।
जितश्च रामकृष्णाभ्यामपक्रान्तो द्विजोत्तम ॥ १० ॥

दश चाष्टौ च संग्रमानेवमत्यन्तदुर्मदः ।
यदुभिर्मागधो राजा चक्रे कृष्णपुरोगमैः ॥ ११ ॥

सर्वेष्वेतेषु युद्धेषु यादवैस्स पराजितः ।
अपक्राञ्चो जरासंधःस्वल्पसैन्यैर्बलाधिकः ॥ १२ ॥

जित इति ॥ तेन – जरासंधेन आत्मानमजितं न मेने – जितमित्येत्र मेने ॥ ९ – १२ ॥

न तद्बलं यादवानां विजितं यदनेकशः ।
तत्तु संनिधिमाहात्म्यं विष्णोरंशस्य चक्रिणः ॥ १३ ॥

मनुष्यधर्मशीलस्य लीला सा जगतीपतेः ।
अस्त्राण्यनेकरूपाणि यदरातिषु मुञ्चति ॥ १४ ॥

मनसैव जगत्सृष्टिं संहारं च करोति यः ।
तस्यापिपक्षक्षपणे कियानुद्यमविस्तरः ॥ १५ ॥

तथाऽपि यो मनुष्याणां धर्मस्तमनुवर्तते ।
कुर्वन्बलवता संधिं हीनैर्युद्धं करोत्यसौ ॥ १६ ॥

न तदित्यादि ॥ जरासंधेन न जितमिति यत् तद्यादवानां न सामर्थ्यम् ॥ १३ – १६ ॥

साम चोपप्रदानं च तथा भेदं च दर्शयन् ।
करोति दण्डपातं च क्वचिदेव पलायनम् ॥ १७ ॥

मनुष्यदेहिनां चेष्टामित्येवमनुवर्तते ।
लीला जगत्पतेस्तस्य च्छन्दतः परिवर्तते ॥ १८ ॥

साम चेति ॥ क्वचित् – यवनादी ॥ १७, १८ ॥

इति श्रीविष्णुमहापुराणे पञ्चमाशे द्वाविंशोऽध्यायः ॥ २२ ॥