२०

अथ पञ्चमांशेविंशोऽध्यायः

श्रीपराशर उवाच

राजमार्गे ततः कृष्णःसानुलेपनभाजनाम् ।
ददर्श कुब्जामायान्तीं नवयौवनगोचराम् ॥ १ ॥

॥ १ ॥

तामाह ललितं कृष्णः कस्येदमनुलेपनम् ।
भवत्या नीयते सत्यं वदेन्दीवरलोचने ॥ २ ॥

तामिति ॥ ललितं – सविलासम् ॥ २ ॥

सकामेनेव सा प्रोक्ता सानुरागा हरिं प्रति ।
प्राह सा ललितं कुब्जा तद्दर्शनबलात्कृता ॥ ३ ॥

बलात्कृता – वशीकृता ॥ ३ ॥

कान्त कस्मान्न जानासि कंसेन विनियोजिताम् ।
नैकवक्रेति विख्यातामनुलेपनकर्मणि ॥ ४ ॥

नान्यपिष्टं हि कंसस्य प्रीतये ह्यनुलेपनम् ।
भवाम्यहमतीवास्य प्रसादधनभाजनम् ॥ ५ ॥

श्रीकृष्ण उवाच

सुगन्धमेतद्राजार्हं रुचिरं रुचिरानने ।
आवयोर्गात्र सदृशं दीयतामनुलेपनम् ॥ ६ ॥

श्रीपराशर उवाच

श्रुत्वैतदाह सा कुब्जा गृह्यतामिति सादरम् ।
अनुलेपनं च प्रददौ गात्रयोग्यमथोभयोः ॥ ७ ॥

कान्तेति ॥ अनुलेपनकर्मणि – गन्धवस्तुसाधने, नियुक्ताम् ॥ ४ – ७ ॥

भक्तिच्छेदानुलिप्ताङ्गौ ततस्तौ पुरुषर्षभौ ।
सेंद्रचापो व्यराजेतां सितकृष्णाविवांबुदौ ॥ ८ ॥

भक्तिच्छेदेति ॥ भक्तिच्छेदेन–पत्रमंगिरचनया ॥ ८ ॥

ततस्तां चुबुके शौरिरुल्लाधनविधानवित् ।
उत्पाट्य तोलयामास व्द्यङ्गुलेनाग्रपाणिना ॥ ९ ॥

तत इति ॥ उल्लाघनम् ऋजूकरणम् । उत्पाठ्य – उन्नमय्य, ग्रंथिभेदं कृत्वा तोलयामास तोलनं कंपनम् ॥ ९ ॥

चकर्ष पद्भ्यां च तदा ऋजुत्वं केशवोऽनयत् ।
ततःसा ऋजुतां प्राप्ता योषितामभवद्वरा ॥ १० ॥

चकर्षेति ॥ पद्भ्यां चकर्ष – पादयोः पद्भ्यामाकान्तवान् ॥ १० ॥

विलासलिलितं प्राह प्रेमगर्भभरालसम् ।
वस्त्रे प्रगृह्य गोविन्दं मम गेहं व्रजेति वै ॥ ११ ॥

एवमुक्तस्तया शौरी रामस्यालोक्य चाननम् ।
प्रहस्य कुब्जां तामाह नैकवक्रामनिन्दिताम् ॥ १२ ॥

विलासेति ॥ प्रेमगर्भमरालसम् – अन्तर्गर्मितप्रेमातिशयमंथरम् ॥ ११,१२ ॥

आयास्ये भवतीगेहमिति तां प्रहसन्हरिः ।
विससर्ज जहासोच्चै रामस्यालोक्य चाननम् ॥ १३ ॥

भक्तिभेदानुलिप्ताङ्गौ नीलपीतांबरौ तु तौ ।
धनुःशालां ततो यातौ चित्रमाल्योपशोभितौ ॥ १४ ॥

आयास्य इति ॥ प्रहसन् –प्रसादेन हासं कुर्वन् । अस्मदनुग्रहमनुरागं मत्वा इयं मुह्यतीति रामं प्रत्युच्चैर्जहास ॥ १३,१४ ॥

आयागं तद्धनूरत्नं ताभ्यां पृष्टैस्तु रक्षिभिः ।
आख्याते सहसा कृष्णो गृहीत्वाऽपूरयद्धनुः ॥ १५ ॥

ततः पूरयता तेन भज्यमानं बलाद्धनुः ।
चकार सुमहच्छब्दं मथुरा येन पूरिता ॥ १६ ॥

आयागमिति ॥ आयागम् – आभिमुख्येन यागोद्देश्यम् ॥ १५,१६ ॥

अनुयुक्तौ ततस्तौ तु भग्रे धनुषि रक्षिभिः ।
रक्षिसैन्यं निहत्योभौ निष्क्रान्तौ कार्मुकालयात् ॥ १७ ॥

अक्रूरागमवृत्तान्तमुपलभ्य महद्धनुः ।
भग्नं श्रुत्वा च कंसोऽपि प्राह चाणूरमुष्टिकौ ॥ १८ ॥

कंस उवाच

गोपालदारकौ प्राप्तौ भवद्भ्यां तौ ममाग्रतः ।
मल्लयुद्धेन हन्तव्यौ मम प्राणहरौ हि तौ ॥ १९ ॥

अनुयुक्ताविति ॥ अनुयुक्तो – अभियुक्तो ॥ १७ – १९ ॥

नियुद्धे तद्विनाशेन भवद्भ्यां तोषितो ह्यहम् ।
दास्याम्यभिमतान्कामान्नान्यथैतौ महाबलौ ॥ २० ॥

न्यायतोऽन्यायतो वाऽपि भवद्भ्यां तौ ममाहितौ ।
हन्ताव्यौ तद्वधाद्राज्यं सामान्यं वां भविष्यति ॥ २१ ॥

इत्यादिश्य स तौ मल्लौ ततश्चाहूय हस्तिपम् ।
प्रोवाचोच्चैस्त्वया मल्लसमाजद्वारि कुञ्जरः ॥ २२ ॥

स्थाप्यः कुवलयापीडस्तेन तौ गोपदारकौ ।
घातनीयौ नियुद्धाय रङ्गद्वारमुपागतौ ॥ २३ ॥

नियुद्ध इति ॥ नान्यथा – अन्यथा तु न दास्यामि ॥ २० – २३ ॥

तमप्याज्ञाप्य दृष्ट्वा च सर्वान्मञ्चानुपाकृतान् ।
आसन्नमरणः कंसः सूर्योदयमुदैक्षत ॥ २४ ॥

ततः समस्तमञ्चेषु नागरस्स तदा जनः ।
राजमञ्चेषु चारूढाःसह भृत्यैर्नराधिपाः ॥ २५ ॥

तमिति ॥ उपाकृतान् – कल्पितान् ॥ २४,२५ ॥

मल्लप्राश्निकवर्गश्च रङ्गमध्यसमीपगः ।
कृतः कंसेन कंसोऽपि तुङ्गमञ्चे व्यवस्थितः ॥ २६ ॥

अन्तःपुराणां मञ्चाश्च तथाऽन्ये परिकल्पिताः ।
अन्ये च वारमुख्यानामन्ये नागरयोषिताम् ॥ २७ ॥

मल्लप्राश्निकेति ॥ प्राश्निकाः – परीक्षकाः ॥ २६, २७ ॥

नन्दगोपादयो गोपा मञ्चेष्वन्येष्ववस्थिताः ।
अक्रूरवसुदेवौ च मञ्चप्रान्ते व्यवस्थितौ ॥ २८ ॥

नन्दगोपेति ॥ राजमञ्चप्रान्ते व्यवस्थितौ रहसि स्वैरालापार्थम ॥ २८ ॥

नागरीयोषितां मध्ये देवकी पुत्रगर्धिनी ।
अन्तकालेऽपि पुत्रस्य द्रक्ष्यामीति मुखं स्थिता ॥ २९ ॥

वाद्यमानेषु तुर्येषु चाणूरे चातिवल्गति ।
हाहाकारपरे लोके ह्यास्फोटयति मुष्टिके ॥ ३० ॥

ईषद्धसंतौ तौ वीरौ बलभद्रजनार्दनौ ।
गोपवेषधरौ बालौ रङ्गद्वारमुपागतौ ॥ ३१ ॥

ततः कुवलयापीडो महामात्रप्रचोदितः ।
अभ्यधावत्सुवेगेन हन्तुं गोपकुमारकौ ॥ ३२ ॥

हाहाकारो महाञ्जज्ञे रङ्गमध्ये द्विजोत्तम ।
बलदेवोऽनुजं दृष्ट्वा वचनं चेदमब्रवीत् ॥ ३३ ॥

हन्तव्यो हि महाभाग नागोऽयं शत्रुचोदितः ॥ ३४ ॥

इत्युक्तःसोऽग्रजेनाथ बलदेवेन वै द्विज ।
सिंहनादं ततश्चक्रे माधवः परवीरहा ॥ ३५ ॥

करेण करमाकृष्य तस्य केशिनिषूदनः ।
भ्रमयामास तं शैरिरैरावतसमं बले ॥ ३६ ॥

ईशोऽपि सर्वजगतां बाललीलानुसारतः ।
क्रीडित्वा सुचिरं कृष्णः करिदन्तपदान्तरे ॥ ३७ ॥

उत्पाट्य वामदन्तं तु दक्षिणेनैव पाणिना ।
ताडयामास यन्तारं तस्यासीच्छतधा शिरः ॥ ३८ ॥

दक्षिणं दन्तमुत्पाट्य बलभद्रोऽपि तत्क्षणात् ।
स रोषस्तेन पार्श्वस्थान् गजपालानपोथयत् ॥ ३९ ॥

ततस्तूत्प्लुत्य वेगेन रौहिणेयो महाबलः ।
जघान वामपादेन मस्तके हस्तिनं रुषा ॥ ४० ॥

स पपात हतस्तेन बलभद्रेण लीलया ।
सहस्राक्षेण वज्रेण ताडितः पर्वतो यथा ॥ ४१ ॥

हत्वा कुवलयापीडं हस्त्यारोहप्रचोदितम् ।
मदासृगनुलिप्ताङ्गौ हस्तिदन्तवरायुधौ ॥ ४२ ॥

मृगमध्ये यथा सिंहौ गर्वलीलावलोकिनौ ।
प्रविष्टौ सुमहारङ्गं बलभद्रजनार्दनौ ॥ ४३ ॥

हाहाकारो महाञ्जज्ञे महारङ्गे त्वनन्तरम् ।
कृष्णोऽयं बलभद्रोऽयमिति लोकस्य विस्मयः ॥ ४४ ॥

सोऽयं येन हता घोरा पूतना बालघातिनी ।
क्षिप्तं तु शकटं येन भग्नौ तु यमलार्जुनौ ॥ ४५ ॥

सोयं यः कालियं नागं ममर्दारुह्य बालकः ।
धृतो गोवर्धनो येन सप्तरात्रं महागिरिः ॥ ४६ ॥

अरिष्टो धेनुकः केशी लीलयैव महात्मना ।
निहता येन दुर्वृत्ता दृश्यतामेष सोऽच्युतः ॥ ४७ ॥

अयं चास्य महाबाहुर्बलभद्रोऽग्रतोऽग्रजः ।
प्रयाति लीलया योषिन्मनोनयननन्दनः ॥ ४८ ॥

अयं स कथ्यते प्राज्ञैः पुराणार्थविशारदैः ।
गोपालो यादवं वंशं मग्नमभ्यद्धरिष्यति ॥ ४९ ॥

नागरीयोषितामिति ॥ पुत्रगर्धिनी – गृधु अभिकांक्षायामित्यस्माद्धातोर्णिनिः, पुत्रवत्सा ॥ २९ – ४९॥

अयं हि सर्वलोकस्य विष्णोरखिलजन्मनः ।
अवतीर्णो महीमंशो नूनं भारहरो भुवः ॥ ५० ॥

अयं हीति ॥ अखिलजन्मनः – अखिलस्य जन्म यस्मिन्निति विग्रहः ॥ ५० ॥

इत्येवं वर्णिते पौरै रामे कृष्णे च तत्क्षणात् ।
उरस्तताप देवक्याः स्नेहस्नुतपयोधरम् ॥ ५१ ॥

महोत्सवमिवासाद्य पुत्राननविलोकनात् ।
युवेव वसुदेवोऽभूद्विहायाभ्यागतां जराम् ॥ ५२ ॥

इतीति ॥ तताप – तप्तम् ॥ ५१, ५२ ॥

विस्तारिताक्षियुगलो राजान्तःपुरयोषिताम् ।
नागारस्त्रीसमूहश्च द्रष्टुं न विरराम तम् ॥ ५३ ॥

सख्यः पश्यत कृष्णस्य मुखमत्यरुणेक्षणम् ।
गजयुद्धकृतायासस्वेदांबुकणिकचितम् ॥ ५४ ॥

विकासिशरदंभोजमपश्यामजलोक्षितम् ।
परिभूयं स्थितं जन्म सफलं क्रियतां दृशः ॥ ५५ ॥

विस्तारितेति ॥ राजान्तः पुरयोषितां समूह इति शेषः ॥ ५३ – ५५ ॥

श्रीवत्सांकं महद्धाम बालस्यैतद्विलोक्यताम् ।
विपक्षक्षपणं वक्षो भुजयुग्यं च भामीनि ॥ ५६ ॥

किं न पश्यसि दुग्धेन्दुमृणालधवलाकृतिम् ।
बलभद्रमिमं नीलपरिधानमुपगतम् ॥ ५७ ॥

श्रीवत्साङ्कमिति ॥ महद्धाम – महतो लक्ष्म्यादेर्धाम ॥ ५६, ५७ ॥

वल्गता मुष्टिकेनैव चाणूरेण तथा सखि ।
क्रीडतो बलभद्रस्य हरेर्हास्यं विलोक्यताम् ॥ ५८ ॥

सख्यः पश्यत चाणूरं नियुद्धार्थमयं हरिः ।
समुपैति न संत्यत्र किं वृद्धा मुक्तकारिमः ॥ ५९ ॥

क्व यौवनोन्मुखीभूतमुकुमारतनुर्हरिः ।
क्व वज्रकठिनाभोगशरीरोऽयं महासुरः ॥ ६० ॥

इमौ सुललितैरङ्गैर्वर्तेते नवयौवनौ ।
दैतेयमल्लाश्चाणूरप्रमुखास्त्वतिदारुणाः ॥ ६१ ॥

नियुद्धप्राश्निकानां तु महानेष व्यतिक्रमः ।
यद्बालबलिनोर्युद्धं मध्यस्थैः समुपेक्ष्यते ॥ ६२ ॥

वल्गतेति ॥ वल्गतेत्यादि हेतो तृतीया । हास्यमनादरकृतम् ॥ ५८ – ६२ ॥

श्रीपारशर उवाच

इत्थं पुरस्त्रीलोकस्य वदतश्चालयन्भुवम् ।
ववल्ग बद्धकक्ष्योऽन्तर्जनस्य भगवान्हरिः ॥ ६३ ॥

बलभद्रोऽपि चास्फोट्य ववल्ग ललितं तथा ।
पदेपदे तथा भूमिर्यन्न शीर्णा तदद्भुतम् ॥ ६४ ॥

चाणूरेण ततः कृष्णो ययुधेऽमितविक्रमः ।
नियुद्धकुशलो दैत्यौ बलभद्रेण मुष्टिकः ॥ ६५ ॥

इत्यमिति ॥ बद्धकक्ष्यः – दृढीकृतपरिकरः ॥ ६३ – ६५ ॥

सन्निपातावधूतैस्तु चाणूरेण समं हरिः ।
प्रक्षेपणैर्मुष्टिभिश्च कीलवज्रनिपातनैः ॥ ६६ ॥

सन्निपातेति ॥ सन्निपातैः – आदावन्योन्यं हस्तसंन्नट्टैः । अवधूतैः – अपहस्ताख्येन बहिर्हस्तेन संश्लिष्टाङ्गमोचनैः । प्रक्षेपणैः – आकृष्य निरसनैः । कीलपातः कूर्परेण घातः । वज्रपातः – अरत्रिद्वयस्वस्तिकान्त – रेतान्यगात्रघातः, मध्यमानामिकान्तर्गताङ्गुष्ठमुष्टि विशेषघातो वा ॥ ६६ ॥

पादोद्धूतैः प्रमृष्टैश्च तयोर्युद्धमभून्महत् ॥ ६७ ॥

पादोद्धूतैरिति ॥ पादेन परस्योधूतैः । प्रमृष्टैः – सर्वाङ्गग्रहणान्निपात्य निष्पेषणैः। प्रसृष्टैरिति पाठे उत्पाव्य निरसनैः ॥ ६७ ॥

अशस्त्रमतिघोरं तत्तयोर्युद्धं सुदारुणम् ।
बलप्राणविनिष्पाद्यं समाजोत्सवसन्निधौ ॥ ६८ ॥

यावद्यावच्च चाणूरो युयुधे हरिणा सह ।
प्रामहानिमवापाग्र्यां तावत्तावल्लवाल्लवम् ॥ ६९ ॥

कृष्णोऽपि युयुधे तेन लीलयैव जगन्मयः ।
खेदाच्चालयता कोपान्निजकेसरशेखरम् ॥ ७० ॥

बलक्षयं विवृद्धिं च दृष्ट्वा चाणूरकृष्णयोः ।
वारयामास तूर्याणि कंसः कोपपरायणः ॥ ७१ ॥

मृदङ्गादिषु तूर्येषु प्रतिषिद्धेषु तत्क्षणात् ।
खे संगतान्यवाद्यन्त देवतूर्याण्यनेकशः ॥ ७२ ॥

अशस्त्रमिति बलप्राणौ – मनस्तनुशक्ती । समाजोत्सव सन्निधौ – सोत्सवसमाजसन्निधौ ॥ ६८ – ७२ ॥

जय गोविन्द चाणूरं जहि केशव दानवम् ।
अन्तर्धानगता देवास्तमूचुरतिहर्षिताः ॥ ७३ ॥

चाणूरेण चिरं कालं पीडित्वा मधुसूदनः ।
उत्पाट्य भ्रमयामास तद्वधाय कृतोद्यमः ॥ ७४ ॥

जयेति ॥ जय, न तावतालम् जहि च ॥ ७३, ७४ ॥

भ्रामयित्वा शतगुणं दैत्यमल्लममित्रजित् ।
भूभावात्फोटयामास गगने गतजीवितम् ॥ ७५ ॥

भूमावास्फोटितस्तेनचाणूरः शतधाभवत् ।
रक्तस्रावमहापङ्कां चकार च तदा भवम् ॥ ७६ ॥

बलदेवोऽपि तत्कालं मुष्टिकेन महाबलः ।
युयुधे दैत्यमल्लेन चाणूरेण यथा हरिः ॥ ७७ ॥

सोऽप्येनं मुष्टिना मूर्ध्नि वक्षस्याहत्य जानुना ।
पातयित्वा धरापृष्ठे निष्पिपेष गतायुषम् ॥ ७८ ॥

कृष्णस्तोशलकं भूयो मल्लराजं महाबलम् ।
वाममुष्टिप्रहारेण पातयामास भूतले ॥ ७९ ॥

चाणूरे नहते मल्ले मुष्टिके विनिपातिते ।
नीते क्षयं तोशलके सर्वे मल्लाः प्रदुद्रुवुः ॥ ८० ॥

ववल्गतुस्ततो रङ्गे कृष्णसंकर्षणावुभौ ।
समानवयसो गोपान्बलादाकृष्य हर्षितौ ॥ ८१ ॥

भ्रामयित्वेति ॥ शतगुणं – शतकृत्वः ॥ ७५ – ८१ ॥

कंसोऽपि कोपरक्ताक्षः प्राहोच्चैर्व्यायतान्नरान् ।
गोपावेतौ समाजौघान्निष्क्राम्येतां बलादितः ॥ ८२ ॥

नन्दोऽपि गृह्यतां पापो निर्गलैरायसैरिह ।
अवृद्धार्हैण दण्डेन वसुदेवोऽपि बध्यताम् ॥ ८३ ॥

कंस इति ॥ व्यायतान्– कृतश्रमान् ॥ ८२, ८३ ॥

वल्गन्ति गोपाः कृष्णेन ये चेमे सहिताः पुरः ।
गावो निगृह्यतामेषां यच्चास्ति वसु किञ्चन ॥ ८४ ॥

एवमाज्ञापयानं तु प्रहस्य मधुसूदनः ।
उत्प्लुत्यारुह्य तं मञ्चं कंसं जग्राह वेगतः ॥ ८५ ॥

केशेष्वाकृष्य विगलत्किरीटमवनीतले ।
स कंसं पातयामास तस्योपरि पपात च ॥ ८६ ॥

अशेषजगदाधारगुरुणा पततोपरि ।
कृष्णेन त्याजितः प्राणानुग्रसेनात्मजो नृपः ॥ ८७ ॥

मृतस्य केशेषु तदा गृहीत्वा मधुसूदनः ।
चकर्ष देहं कंसस्य रङ्गमध्ये महाबलः ॥ ८८ ॥

वल्गन्तीति ॥ गावः यत्किंचन अस्ति वसु तत्सर्वं निगृह्यताम् ॥ ८४ – ८८ ॥

गौरवेणातिपतता परिघा तेन कृष्यता ।
कृता कंसस्य देहेन वेगेनेव महांभसः ॥ ८९ ॥

कंसे गृहीते कृष्णेन तद्भ्राताऽभ्यागतो रुषा ।
सुनामा बलभद्रेण लीलयैव निपातितः ॥ ९० ॥

ततो हाहाकृतं सर्वमासीत्तद्रङ्गमण्डलम् ।
अवज्ञया हतं दृष्ट्वा कृष्णेन मथुरेश्वरम् ॥ ९१ ॥

कृष्णेऽपि वसुदेवस्य पादौ जग्राह सत्वरः ।
देवक्याश्च महाबाहुर्बलदेवसहायवान् ॥ ९२ ॥

उत्थाप्य वसुदेवस्तं देवकी च जनार्दनम् ।
स्मृतजन्मोक्तवचनौ तावेव प्रणतौ स्थितौ ॥ ९३ ॥

गौरवेणेति ॥ कृष्यमाणेन देहेन परिघा कृता ॥ ८९ – ९३ ॥

श्रीवसुदेव उवाच

प्रसीद सीदतां दत्तो देवानां यो वरः प्रभो ।
तथाऽऽवयोः प्रसादेन कृतोद्धारःस केशव ॥ ९४ ॥

आराधितो यद्भगवानवतीर्णो गृहे मम ।
दुर्वृत्तनिधनार्थाय तेन नः पावितं कुलम् ॥ ९५ ॥

प्रसीदेत्यादि । सीदतां देवानां यो वरो दत्तः सः आवयोः प्रसादेन जननरूपेण कृतोद्धारः – निर्व्यूढः ॥ ९४, ९५ ॥

त्वमन्तः सर्वभूतानां सर्वभूतमयस्थितः ।
प्रवर्तेते समस्तात्मंस्त्वत्तो भूतभविष्यति ॥ ९६ ॥

यज्ञैस्त्वमिज्यसेऽचिन्त्य सर्वदेवमयाच्युत ।
त्वमेव यज्ञो यष्टा च यज्वनां परमेश्वरः ॥ ९७ ॥

समुद्भवःसमस्तस्य जगतस्त्वं जनार्दन ॥ ९८ ॥

त्वमिति ॥ अन्तः – अवसानं प्रवर्तते । अत्र लड्विवक्षितः ॥ ९६ – ९८ ॥

सापह्नवं मम मनो यदेतत्त्वयि जायते ।
देवक्याश्चात्मजप्रीत्या तदत्यन्तविडंबना ॥ ९९ ॥

सापह्नवमिति ॥ त्वयि– ईश्वरे पुत्रप्रीत्या सापह्ववं – सस्नेहं मनो जायते इति यत् मम तत् अत्यन्तबिडम्बना अत्यन्तहास्यत्वावहम् ॥ ९९ ॥

त्वं कर्ता सर्वभूतानामनादिनिधनो भवान् ।
त्वं मनुष्यस्य कस्यैषा जिह्वा पुत्रेति वक्ष्यति ॥ १०० ॥

त्वमिति ॥ त्वां के मानुषकस्येति पाठे, मानुषकस्य कुत्सायां कः पुत्रेति वक्ष्यती – वदन्ती जिह्वा क्व – कुत्र ॥ १०० ॥

जगदेतज्जगन्नाथ संभूतमखिलं यतः ।
कया युक्त्या विना मायां सोऽस्मत्तः संभविष्यति ॥ १०१ ॥

जगदिति ॥ माया––मोहिनी भगवच्छक्तिः ॥ १०१ ॥

यस्मिन्प्रतिष्ठितं सर्वं जगत्स्थावरजङ्गमम् ।
स कोष्ठोत्संगशयने मानुषो जायते कथम् ॥ १०२ ॥

स त्वं प्रसीद परमेश्वर पाहि विश्वमंशावतारकरणैर्न ममासि पुत्रः ।
आब्रह्यपादपमिदं जगदेतदीश त्वत्तो विमोहयसि किं पुरुषोत्तमास्मान् ॥ १०३ ॥

मायाविमोहितदृशा तनयो ममेति कंसाद्भायं कृतमपास्तभयोऽतितीव्रम् ।
नीतोऽसि गोकुलमरातिभयाकुलेन वृद्धिं गतोऽसि मम नास्ति ममत्वमीश ॥ १०४ ॥

यस्मिन्निति ॥ कोष्ठोत्सङ्गशयनः – गर्भावस्थायां कोष्ठे शेते, बाल्ये तत्सङ्गे ॥ १०२ – १०४ ॥

कर्माणि रुद्रमरुदश्विशतक्रतूनां साध्यानि यस्य न भवन्ति निरीक्षितानि ।
त्वं विष्णुरीश जगतामुपकारहेतोः प्राप्तोऽसि नः परिगतो विगतो हि मोहः ॥ १०५ ॥

कर्माणीति ॥ यस्य कर्माणि रुद्रादीनामप्यसाध्यानि प्रत्यक्षितानि स त्वं जगदर्थं पुत्रतयाऽस्मान् प्राप्तोऽसीति इदं परिगतं – ज्ञानम् । हि हेतौ । हि – यस्मान्मोहो विगतः । यानीति पाठे तानीति च तस्मादित्य – ध्याहृत्य योज्यम् ॥ १०५ ॥

इति श्रीविष्णुमहापुराणे पञ्चमांशे विंशोध्यायः ॥२० ॥