अथ पञ्चमांशेसप्तदशोऽध्यायः
श्रीपराशर उवाच
अक्रूरोऽपि विनिष्क्रम्य स्यन्दनेनाशुगामिना ।
कृष्णसंदर्शनाकाङ्क्षी प्रययौ नन्दगोकुलम् ॥ १ ॥
॥ १ ॥
चिन्तयामास चाक्रूरो नास्ति धन्यतरो मया ।
योऽहमंशावतीर्णस्य मुखं द्रक्ष्यामि चक्रिणः ॥ २ ॥
अद्य मे सफलं जन्म सुप्रभाताऽभवन्निशा ।
यदुन्निद्राब्जपत्राक्षं विष्णोर्द्रक्ष्याम्यहं मुखम् ॥ ३ ॥
चिन्तयामासेति ॥ मया – मत्तः ॥ २,३ ॥
पापं हरति यत्पुंसां स्मृतं संकल्पनामयम् ।
तत्पुण्डरीकनयनं विष्णोर्द्रक्ष्याम्यहं मुखम् ॥ ४ ॥
पापमिति ॥ संकल्पनामयम् – अदितिदेवक्याचाराधनसंकल्पानुरूपं हि भगवतो देवमनुष्यादिसजा – तीयम् इदं रूपम् । इदं विभवार्चावतारसाधारणम् । यथाह ये यथा मां प्रपद्यन्ते इति । हृदयोपासनेऽपि उपासक संकल्पाधीनाङ्गप्रत्यङ्गरूपादिमत्त्वमुक्तं हृदि संकल्प्य यद्रूपमित्यादिना । अथवा संकल्पनामयमिति – स्वसंकल्पकृतमिति; इच्छागृहीतेत्यादि । यथोक्तम् हृयोगे बहिराराधनार्थं तु या मूर्तिरवतिष्ठते । तदाकारं
विचिन्त्याथ यजेत्सर्वेश्वरं हरिम् ॥ इति ॥ ४ ॥
विनिर्जग्मुर्यतो वेदा वेदाङ्गान्यखिलानि च ।
द्रक्ष्यामि तत्परं धाम धाम्रां भगवतो मुखम् ॥ ५ ॥
यज्ञेषु यज्ञपुरुषः पुरुषैः पुरुषोत्तमः ।
इज्यते योऽखिलाधारस्तं द्रक्ष्यामि जगत्पतिम् ॥ ६ ॥
विनिर्जग्मुरिति ॥ धाम – धाम्नां तेजसां स्थान, तेजो वा ॥ ५ – ६ ॥
इष्ट्वा यमिन्द्रो यज्ञानां शतेनामरराजताम् ।
अवाप तमनन्तादिमहं द्रक्ष्यामि केशवम् ॥ ७ ॥
न ब्रह्म नेन्द्ररुद्राश्विवस्वादित्यमरुद्गणाः ।
यस्य स्वरूपं जानन्ति प्रत्यक्षं याति मे हरिः ॥ ८ ॥
दृष्टेति ॥ अनन्तादिम्—आद्यन्तरहितम् ॥ ७, ८ ॥
सर्वात्मा सर्ववित्सर्वः सर्वभूतेष्ववस्थितः ।
योह्यऽचिन्त्योऽव्ययो व्यापी स वक्ष्यति मया सह ॥ ९ ॥
मत्स्य कूर्मवराहाश्वसिंहरूपादिभिः स्थितिम् ।
चकार जगतो योऽजः सोऽद्य मामालपिष्यति ॥ १० ॥
सांप्रतं च जगत्स्वामी कार्यमात्महृदि स्थितम् ।
कर्तुं मनुष्यतां प्राप्तःस्वेच्छादेहधृदव्ययः ॥ ११ ॥
सर्वात्मेति ॥ सर्वस्यात्मा सर्वभूतेष्ववस्थितः व्योमवद्वितत्य व्यापी, नाग्निवाय्वादिषद्विच्छिद्यते ॥ ११ ॥
योऽनन्तः पृथिवीं धत्ते शेखरस्थितिसंस्थिताम् ।
सोऽवतीर्णो जगत्यर्थे माम क्रूरेति वक्ष्यति ॥ १२ ॥
योऽनन्त इति ॥ शेखरेति – शेखरसंनिवेशेन स्थिताम । सः – रामः ॥ १२ ॥
पितृपुत्रसुहृद्भ्रातृमातृबन्धुमयीमिमाम् ।
यन्मायां नालमुत्तर्तुं जगत्तस्मै नमोनमः ॥ १३ ॥
पितृपुत्रेति ॥ अत्र पित्रादिरूपेण परिणता गुणमयी विचित्रकार्य करत्वेन मायेत्युच्यते ॥ १३ ॥
तरत्यविद्यां विततां हृदि यस्मिन्निवेशिते ।
योगमायाममेयाय तस्मै विद्यात्मने नमः ॥ १४ ॥
तरतीति ॥ सैत्र भगवत्स्वरूपतिरोधायकत्वादन्यथाज्ञा नजनकत्वाच्चविद्येत्युच्यते ॥ १४ ॥
यज्वभिर्यज्ञपुरुषो वासुदेवश्च सात्त्वतैः ।
वेदान्तवेदिभिर्विष्णुः प्रोच्यते यो नतोऽस्मि तम् ॥ १५ ॥
यथा यत्र जगद्धाम्नि धातर्येतत्प्रतिष्ठितम् ।
सदसत्तेन सत्येन मय्यसौ यातु सौम्याताम् ॥ १६ ॥
स्मृते सकलकल्याणभाजनं यत्र जायते ।
पुरुषस्तमजं नित्यं व्रजामि शरणं हरिम् ॥ १७ ॥
यज्वभिरिति ॥ सात्वतैः – भगवच्छास्त्रनिष्ठैः ॥ १५ – १७ ॥
श्रीपराशर उवाच
इत्थं संचिन्तयन्विष्णुं भक्तिनम्रात्ममानसः ।
अक्रूरो गोकुलं प्राप्तः किञ्चित्सूर्ये विराजति ॥ १८ ॥
इत्थमिति ॥ भक्तिनम्रात्ममानसः – भक्तिपह्रशरीरान्तः करणः । किंचित्सूर्ये विराजति – अस्तासन्ने ॥ १८ ॥
स ददर्श तदा कृष्णमादावादोहने गवाम् ।
वत्समध्यागतं फुल्लनीलोत्पलदलच्छविम् ॥ १९ ॥
स इति ॥ आदोहने – दोहस्थाने ॥ १९ ॥
प्रफुल्लपद्मपत्राक्षं श्रीवत्सांकितवक्षसम् ।
प्रलंबबाहुमायामतुङ्गोरस्थलमुन्नसम् ॥ २० ॥
सविलासस्मिताधारं बिभ्राणं मुखपङ्कजम् ।
तुङ्गरक्तनखं पद्य्भां धरण्यां सुप्रतिष्ठितम् ॥ २१ ॥
प्रफुल्लेति ॥ आयामतुङ्गो रस्स्थलं – विशालपीनोरस्कमित्यर्थः ॥ २०, २१ ॥
बिभ्राणं वाससी पीते वन्यपुष्पविभूषितम् ।
सेंदुनीलाचलाभं तं सितांभोजावतंसकम् ॥ २२ ॥
हंसकुन्देन्दुधवलं नीलांबरधरं द्विज ।
तस्यानु बलभद्रं च ददर्श यदुनन्दनम् ॥ २३ ॥
बिभ्राणमिति ॥ सेन्दुनीलाचलाभं – सिताम्भोजावतं सवत्वात् ॥ २२, २३ ॥
प्रांशुमुत्तुङ्गबाह्वंसं विकासि मुखपङ्कजम् ।
मेघमालापरिवृतं कैलासाद्रिमिवापरम् ॥ २४ ॥
तौ दृष्ट्वा विकसद्वक्त्रसरोजः स महामतिः ।
पुलकाञ्चितसर्वाङ्गस्तदाऽक्रूरोऽभवन्मुने ॥ २५ ॥
प्रांशुमिति ॥ उत्तुङ्गबाहंसं—पीनबाह्वंसम् ॥ २४,२५ ॥
तदेतत्परमं धाम तदेतत्परमं पदम् ।
भगवद्वासुदेवांशो द्विधा योऽयं व्यवस्थितः ॥ २६ ॥
तदेतदिति ॥ धाम—तेजः । परमं पदं परमं प्राप्यम् । पद्यते इति पदं, भगवद्वासुदेवांशत्वात् ॥ २६ ॥
साफल्यमक्ष्णोर्युगमेतदत्र दृष्टे जगद्धातरि यातमुच्चैः ।
अप्यङ्गमेतद्भगवत्प्रसादात्तदङ्गसंगे फलवन्मम स्यात् ॥ २७ ॥
साफल्यमिति ॥ अङ्गं फलवदपि स्यादित्याशंसा ॥ २७ ॥
अप्येष पृष्ठे मम हस्तपद्मं करिष्यति श्रीमदनन्तमूर्तिः ।
यस्याङ्गुलिस्पर्शहताखिलाघैरवाप्यते सिद्धिरपास्तदोषा ॥ २८ ॥
भगवत्पाणिपद्मस्य शुद्धिशौर्यौदार्याण्याह – अप्येष इत्यादिश्लोकत्रणयेण ॥ अप्येष इति ॥ श्रीमदिति हस्तपद्मविशेषणम् । यस्येति च तस्यैव निर्देशः । अनाशदोषा – नाशदोषाभ्यां हीना। अपास्तदोषेति च पाठः ॥ २८ ॥
येनाग्निविद्युद्रविरश्मिमालाकरालमत्युग्रमपेत चक्रम् ।
चक्रं घ्नता दैत्यपतेर्हृतानि दैत्याङ्गनानां नयनाञ्जनानि ॥ २९ ॥
यत्रांबु विन्यस्य बलिर्मनोज्ञानवाप भोगान्वसुधातवलस्थः ।
तथाऽमरत्वं त्रिदशाधिपत्वं मन्वन्तरं पूर्णमपेतशत्रुः ॥ ३० ॥
येनेति ॥ चक्रं–बलम् । अपेतचक्रमिति क्रियाविशेषणम् । अपास्य चक्रमिति च पाठः ॥ २९,३० ॥
अप्येष मां कंसपरिग्रहेण दोषास्पदीभूतमदोषदुष्टम् ।
कर्ताऽवमानोपहतं धिगस्तु तज्जन्म यत्साधुबहिष्कृतस्य ॥ ३१ ॥
अप्येष इति ॥ अदोषदुष्टं मां कंसपरिग्रहेण दोषास्पदीभूतमपि । कर्ता करिष्यतीत्यन्वयः । अपमानेत्यादि वाक्यान्तरम् ॥ ३१ ॥
ज्ञानात्मकस्यामलसत्त्वराशेरपेतदोषस्य सदा स्फुटस्य ।
किं वा जगत्यत्र समस्तपुंसामज्ञातमस्यास्ति हृदि स्थितस्य ॥ ३२ ॥
तस्मादहं भक्तिविनम्रचेता व्रजामि सर्वेश्वमीश्वराणाम् ।
अंशावतारं पुरुषोत्तमस्य ह्यनादिमध्यान्तमजस्य विष्णोः ॥ ३३ ॥
भगवान् सर्वज्ञत्वान्मां निरागसं ज्ञात्वा स्वीकरिष्यतीत्याह – ज्ञानात्मकस्येति ॥ जीवस्य ज्ञानात्मकत्वेऽपि रजस्तमोमूलरागादिदोषतिरोहितस्वरूपत्वात, ततो भगवन्तं व्यावर्तयति – अमलसत्वेत्यादिना । सदा स्फुटस्य–अतिरोहितस्वरूपस्य ॥ ३२, ३३ ॥
इति श्रीविष्णुमहापुराणे पञ्चमांशे सप्तदशोऽध्यायः ॥ १७ ॥