१६

अथ पञ्चमांशेषोडशोऽध्यायः

श्रीपराशर उवाच

केशी चापि बलोदग्रः कंसदूतप्रचोदितः ।
कृष्णस्य निधनाकाङ्क्षी वृन्दावनमुपागमत् ॥ १ ॥

केशीति । बृन्दावनम् –कृष्णासन्नभागम् ॥ १ ॥

स खुरक्षतभूपृष्ठःसटाक्षेपधुतांबुदः ।
द्रुतविक्रान्तचन्द्रार्कमार्गो गोपानुपाद्रवत् ॥ २ ॥

स इति ॥ द्रुतैः–उत्प्लुतिर्भिविक्रान्तौ – आक्रान्तौ चंद्रार्कमार्गी येन ॥ २ ॥

तस्य देषितशब्देन गोपाला दैत्यवाजिनः ।
गोप्यश्च भयसंविग्ना गोविन्दं शरणं ययुः ॥ ३ ॥

त्राहित्राहीति गोविन्दःश्रुत्वा तेषां ततो वचः ।
सतोयजलदध्वानगंभीरमिदमुक्तवान् ॥ ४ ॥

तस्येति ॥ भयसंविग्नाः – भयेन चलिताः ॥ ३, ४ ॥

अलं त्रासेन गोपालाः केशिनः किं भयातुरैः ।
भविद्भिर्गोपजाती यैर्वीरवीर्यं विलोप्यते ॥ ५ ॥

अलमिति ॥ केशिनस्रासेनालम। गोपजातीयैर्भवद्भिर्वीगणां वीयं किं विलोप्यते ? गोपजातीयत्व – विशेषणमेषां वीर्यहेतुः ॥ ५ ॥

किमनेनाल्पसारेण हषिताटोपकारिणा ।
दैतेयबलवाह्येन वल्गता दुष्टवाजिना ॥ ६ ॥

एह्येहि दुष्ट कृष्णोऽहं पूष्णस्त्विव पिनाकधृत् ।
पातयिष्यामि दशनान्वदनादखिलांस्तव ॥ ७ ॥

इत्युक्त्वास्फोट्य गोविन्दः केशिनःसंमुखं ययौ ।
विवृतास्यश्च सोऽप्येनं दैतेयाश्व उपाद्रवत् ॥ ८ ॥

किमनेनेति ॥ आटोपः – संभ्रमः । दैतेयश्चासौ बलवाह्यश्च । बटवालः – बलहीनः । बल्गता – नृत्यता ॥ ६ – ८॥

बाहुमाभोगितं कृत्वा मखे तस्य जनार्दनः ।
प्रवेशयामास तदा केशिनो दुष्टवाजिनः ॥ ९ ॥

केशिनो वदनं तेन विशता कृष्णबाहुना ।
शातिता दशनाः पेतुः सिताभ्रावयवा इव ॥ १० ॥

बाहुमिति ॥ आयोगिनम् – परिणाहिनम् ॥ ९ – १० ॥

कृष्णस्य ववृधे बाहुः केशिदेहगतो द्विज ।
विनाशाय यथा व्याधिरासंभूतेरुपेक्षितः ॥ ११ ॥

विपाटितोष्ठो बहुलं सफेनं रुधिरं वमन् ।
सोक्षिणी विवृते चक्रे विशिष्टे मुक्तबन्धने ॥ १२ ॥

जधान धरणीं पादैः शकृन्मूत्रं समुत्सृजन् ।
स्वेदार्द्रगात्रस्शान्तश्च निर्यत्नस्सोऽभवत्तदा ॥ १३ ॥

व्यादितास्यमहांरन्ध्रःसोऽसुरः कृष्णबाहुना ।
निपातितो द्विधा भूमौ वैद्युतेन यथा द्रुमः ॥ १४ ॥

कृष्णस्येति ॥ आसंभूतेः – आवृद्धेः ॥ ११ – १४ ॥

द्विपादे पृष्ठपुच्छार्धे श्रवणेकाक्षिनासिके ।
केशिनस्ते द्विधा भूते शकले द्वे विरेजतुः ॥ १५ ॥

हत्वा तु केशिनं कृष्णो गोपालैर्मुदितैर्वृतः ।
अनायस्ततनुःस्वस्थो हसंस्तत्रैव तस्थिवान् ॥ १६ ॥

द्विपादे इति ॥ द्वो पादौ ययोः अर्धरूपे पृष्ठे पृच्छे च ययोस्ते। द्विपादपृष्ठपुच्छार्ध इत्यैकपद्यपाठश्च । श्रवणेति । एकशब्दः श्रवणपदात्प्राग्योज्यः । एका श्रवणाक्षिनासिका ययोस्ते – श्रवणैकाशिनासिके ॥ १५,१६ ॥

ततो गोप्यश्च गोपाश्च हते केशिनि विस्मिताः ।
तुष्टुवुः पुण्डरीकाक्षमनुरागमनोरमम् ॥ १७ ॥

अथाहान्तर्हितो विप्र नारदो जलदे स्थितः ।
केशिनं निहतं दृष्ट्वा हर्षनिर्भरमानसः ॥ १८ ॥

साधुसाधु जगन्नाथ लीलयैव यदच्युत ।
निहतोऽयं त्वया केशी क्लेशदस्त्रिदिवौकसाम् ॥ १९ ॥

तत इति ॥ अनुरागेण मनोरमं यथा भवति तथा ॥ १७ – १९ ॥

युद्धोत्सुकोऽहमत्यर्थं नरवाजिमहाहवम् ।
अभूतपूर्वमन्यत्र द्रष्टुं स्वर्गादिहागतः ॥ २० ॥

कर्माण्यऽत्रावतारे ते कृतानि मधुसूदन ।
यानि तैर्विस्मितं चेतस्तोषमेतेन मे गतम् ॥ २१ ॥

तुरङ्गस्यास्य शक्रोऽपि कृष्ण देवाश्च बिभ्यति ।
धुतकेसरजालस्य ह्रेषतोऽभ्रावलोकिनः ॥ २२ ॥

यस्मात्त्वयैष दुष्टात्मा हतः केशी जनार्दन ।
तस्मात्केशवनाम्ना त्वं लोके ख्यातो भविष्यसि ॥ २३ ॥

युद्धोत्सुक इति ॥ युद्धोत्सुकः – युद्धदर्शनोत्सुकः ॥ २० – २३ ॥

स्वस्त्यस्तु ते गमिष्यामि कंसयुद्धेऽधुना पुनः ।
परश्वोऽह समेष्यामि त्वया केशिनिषूदन ॥ २४ ॥

स्वस्त्यस्त्विति ॥ अधुना गमिष्यामीत्यन्वयः ॥ २४ ॥

उग्रसेनसुते कंसे सानुगे विनिपातिते ।
भारावतारकर्ता त्वं पृथिव्या पृथिवीधर ॥ २५ ॥

उग्रसेनेति ॥ कर्ता – भविष्यसि ॥ २५ ॥

तत्रानेक प्रकाराणि युद्धानि पृथिवीक्षिताम् ।
द्रष्टव्यानि मया युष्मत्प्रणीतानि जनार्दन ॥ २६ ॥

सोऽहं यास्यामि गोविन्द देवकार्यं महत्कृतम् ।
त्वयैव विदितं सर्वं स्वस्ति तेऽस्तु व्रजाम्यहम् ॥ २७ ॥

तत्रेति ॥ तत्र – भारावतरणे। आयुष्मप्रणीतानीति पदच्छेदः । यामोषधीमिवा – युष्मन्नितिवन्मङ्गला आसनोक्तिः ॥२६, २७ ॥

नारदे तु गते कृष्णः सह गोपैः सभाजितः ।
विवेश गोकुलं गोपीनेत्रपानैकभाजनम् ॥ २८ ॥

नारद इति ॥ नेत्रेति । नेत्रैः पानक्रियाणामेको विषयः ॥ २८ ॥

इति श्रीविष्णुमाहपुराणे पञ्चमांशे षोटशोऽध्यायः ॥ १६ ॥