अथ पञ्चमांशे द्वादशोऽध्यायः
श्रीपराशर उवाच
धृते गोवर्धने शैले परित्राते च गोकुले ।
रोचयामास कृष्णस्य दर्शनं पाकशासनः ॥ १ ॥
सोऽधिरुह्य महानागमैरावतममित्रजित् ।
गोवर्धनगिरौ कृष्णं ददर्श त्रिदशेश्वरः ॥ २ ॥
चारयन्तं महावीर्यं गास्तु गोपवपुर्धरम् ।
कृत्स्नस्य जगतो गोपं वृतं गोपकुमारकैः ॥ ३ ॥
गरुडं च ददर्शोच्चैरन्तर्धानगतं द्विज ।
कृतच्छायं हरेर्मूर्ध्नि पक्षाभ्यां पक्षिपुङ्गवम् ॥ ४ ॥
अवरुह्य स नागेन्द्रादेकान्ते मधुसूदनम् ।
शक्रःसस्मितमाद्देदं प्रीतिविस्तारितेक्षणः ॥ ५ ॥
॥ १ – ५॥
इन्द्र उवाच
कृष्णकृष्ण शृणुष्वेदं यदर्थ महमागतः ।
त्वत्समीपं महाबाहो नैतच्चिन्त्यं त्वयाऽन्यथा ॥ ६ ॥
भारावतारणार्थाय पृथिव्याः पृथिवीतले ।
अवतीर्णोऽखिलाधार त्वमेव परमेश्वर ॥ ७ ॥
कृष्णकृष्णेति ॥ नेतदिति । एतत् – आगमनम् । अन्यथा – विरोधघिया ॥ ६, ७ ॥
मखभङ्गविरोधेन मया गोकुलानाशकाः ।
समादिष्टा महामेघास्तैश्चेदं कदनं कृतम् ॥ ८ ॥
त्रातास्ताश्च त्वाया गावःसमुत्पाट्य महीधरम् ।
तेनाहं तोषितो वीर कर्मणाऽत्यद्भुतेन ते ॥ ९ ॥
साधितं कृष्ण देवानामहं मन्ये प्रयोजनम् ।
त्वयाऽयमद्रिप्रवरः करेणैकेनयद्धृतः ॥ १० ॥
मस्वभङ्गेति ॥ कदनं संकुलवधः ॥ ८ – १० ॥
गोभिश्च चोदितः कृष्ण त्वत्सकाशमिहागतः ।
त्वया त्राताभिरत्यर्थं युष्मत्सत्कारकारणात् ॥ ११ ॥
गोभिश्चेति ॥ गोभिः गोलोकस्थाभिः । इह त्राताभिगोभिरेककुलत्वात् त्रातामिरित्युक्तम् ॥ ११ ॥
स त्वां कृष्णाभिषेक्ष्यामि गावं वाक्यप्रचोदितः ।
उपेन्द्रत्वे गवामिद्रो गोविन्दस्त्वं भविष्यसि ॥ १२ ॥
श्रीपराशर उवाच
अथोपवाह्यदादाय घण्टामैरावताद्गजात् ।
अभिषेकं तया चक्रे पवित्रजलपीर्णया ॥ १३ ॥
क्रियमाणेऽभिषेके तु गावः कृष्णस्य तत्क्षणात् ।
प्रस्नवोद्भूतदृग्धार्द्रां सद्यश्चक्रुर्वसुन्धरम् ॥ १४ ॥
अभिषिच्च गवां वाक्यादुपेन्द्रं वै जनार्दनात् ।
प्रीत्या सप्रश्रयं वाक्यं पुनराह शचीपतिः ॥ १५ ॥
गवामेतत्कृतं वाक्यं तथाऽन्यदपि मे श्रुणु ।
यद्ब्रवीमि महाभाग भारावतरणेच्छया ॥ १६ ॥
ममांशः पुरुषव्याघ्र पृथिव्यां पृथिवीधर ।
अवतीर्णोऽर्जुनो नाम संरक्ष्यो भवता सदा ॥ १७ ॥
भारावतरणो साह्यं स ते वीरः करिष्यति ।
संरक्षणीयो भवता यथाऽऽत्मा मधुसूदन ॥ १८ ॥
श्रीभगवानुवाच
जानामि भारते वंशे जातं पार्थं तवांशतः ।
तमहं पालयिष्यामि यावत्स्थास्यमि भूतले ॥ १९ ॥
यावन्महीतले शक्र स्थास्याम्यहमरिन्दम ।
न तावदर्जुनं कश्चिद्देवेन्द्र युधि जेष्यति ॥ २० ॥
कंसो नाम महाबाहुर्दैत्योऽरिष्टस्तथाऽसुरः ।
केशी कुवलयापीडो नरकाद्यास्तथा परे ॥ २१ ॥
हतेषु तेषु देवेन्द्र भविष्यति महाहवः ।
तत्र विद्धि सहस्राक्ष भारावतरणं कृतम् ॥ २२ ॥
स त्वं गच्छ न संतापं पुत्रार्थे कर्तुमर्हसि ।
नार्जुनस्य रिपुः कश्चिन्ममाग्रे प्रभविष्यति ॥ २३ ॥
अर्जुनार्थे त्वहं सर्वान्युधिष्ठिरपुरोगमान् ।
निवृत्ते भारते युद्धे कुन्त्यै दास्याम्यविक्षताम् ॥ २४ ॥
श्रीपराशर उवाच
इत्युक्तः संपरिष्वज्य देवाराजो जनार्दनम् ।
आरुह्यौरावतं नागं पुनरेव दिवं ययौ ॥ २५ ॥
कृष्णो हि सहितो गोभिर्गोपालैश्च पुनर्व्रजम् ।
आजगामाथ गोपीनां दृष्टिपूतेन वर्त्मना ॥ २६ ॥
स त्वामिति ॥ सोऽहं त्वामुपेन्द्रत्वे उप – उपरि सत्यलोको परिभाग स्थगोलोके श्वरत्वे अभिरषेक्ष्यामि । यथोक्तं हरिवंशे ममोपरि यथेन्द्रस्त्वं स्थापितो गोभिरीश्वरः । उपेन्द्र इति लोके त्वां गायन्ति दिवि देवताः ॥ इति । अतो गवामिन्द्रो गोविन्दो भविष्यसि । १२ – २६
इति श्रीविष्णुमहापुराणे पञ्चमांशे द्वादशोऽध्यायः ॥ १२ ॥