०९

अथ पञ्चमांशेनवमोऽध्यायः

श्रीपराशर उवाच

तस्मिन्रासभदैतेये सानुगे विनिपातिते ।
सौम्यं तद्गोपगोपीनां रम्यं तालवनं बभौ ॥ १ ॥

ततस्तौ जातहर्षौ तु वसुदेवसुतावुभौ ।
हत्वा धेनुकदैतेयं भाण्डीरं वटमागतौ ॥ २ ॥

॥ १,२ ॥

क्ष्वेलमानौ प्रगायन्तौ विचिन्वन्तौ च पादपान् ।
चारयन्तौ च गा दूरे व्याहरन्तौ च नामभिः ॥ ३ ॥

क्ष्वेलमानाविति ॥ क्ष्वेलन्तो— सिंहवन्नादं कुर्वन्तौ । विचिन्वन्तौ – वासयोग्यान् देशा –

नन्विच्छन्तौ ॥ ३ ॥

निर्योगपाशस्कन्धौ तौ वनमालाविभूषितौ ।
शुशुभाते महात्मानौ बलाशृङ्गाविवर्षभौ ॥ ४ ॥

निर्योगपाश इति ॥ निर्योगपाशः – नियमनरज्जुः ॥ ४ ॥

सुवर्णाञ्जनचूर्णाभ्यां तौ तदा रूषितांबरौ ।
महेन्द्रायुधसंयुक्तौ श्वेतकृष्णाविवांबुदौ ॥ ५ ॥

चेरतुर्लौकसिद्धाभिः क्रीडाभिरितरेतरम् ।
समस्तलोकनाथानां नाथभूतौ भुवं गतौ ॥ ६ ॥

मनुष्यधर्माभिरतौ मानयन्तौ मनुष्यताम् ।
तज्जातिगुणयुक्ताभिः क्रिडाभिश्चेरतुर्वनम् ॥ ७ ॥

सुवर्णेति ॥ रूषिताम्बरो – रञ्जितवस्त्रौ । महेन्द्रायुधसंकाशावित्यम्बुदविशेषणम् । महेंद्रायुधेन प्रकाशमानावित्यर्थः ॥ ५ – ७ ॥

ततस्त्वान्दोलिकाभिश्च नियुद्धैश्च महाबलौ ।
व्यायामं चक्रतुस्तत्र क्षेपणीयैस्तथाऽश्मभिः ॥ ८ ॥

तत इति ॥ आन्दोलिकाभिः – द्वयोर्गोपयोहस्तद्वयमयान्दोलिकाभिः । नियुद्धैः – बाहुयुद्धैः । व्यायामं श्रमम् ॥ ८॥

तल्लिप्सुरसुरस्तत्र ह्युभयो रममाणयोः ।
आजगाम प्रलंबाख्यो गोपवेषतिरोहितः ॥ ९ ॥

सोऽवगाहत निःशङ्कस्तेषां मध्यममानुषः ।
मानुषं वपुरास्थाय प्रलंबो दानवोत्तमः ॥ १० ॥

तल्लिप्सुरिति । तल्लिप्सुः तौ जिघृक्षुः ॥ ९,१० ॥

तयोशिछ्द्रान्तरप्रेप्सुरविषह्यममन्यत ।
कृष्णं ततो रौहिणेयं हन्तुं चक्रे मनोरथम् ॥ ११ ॥

तयोरिति ॥ छिद्रान्तरप्रेप्सुः प्रमादावसरं प्रतीक्षमाणः ॥ ११ ॥

हरिणाक्रीडनं नाम बालक्रीडनकं ततः ।
प्रकुर्वन्तो हि ते सर्वे द्वौद्वौ युगपदुत्थितौ ॥ १२ ॥

हरिणेति ॥ हरिणाक्रीडनम्–हरिणवदाक्रीडनम्, उत्प्लुतिः । द्वयोर्युगपदुत्प्लुतयोरलसः जितः, स्टुर्जेता । तत्र जितो जेतारं वहन् भाण्डीरं गत्वा पुनरुत्प्लुतिस्थानं नयेदिति पणबन्धः ॥ १२ ॥

श्रीदाम्ना सह गोविन्दः प्रलंबेन तथा बलः ।
गोपालौरपरैश्चान्ये गोपालाः पुप्लुवुस्ततः ॥ १३ ॥

श्रीदामानं ततः कृष्णः प्रलंबं रोहिणीसुतः ।
जितवान्कृष्णपक्षीयैर्गोपैरन्ये पराजिताः ॥ १४ ॥

ते वाहयन्तस्त्वन्योन्यं भाण्डीरं वटमेत्य वै ।
पुनर्निववृतुःसर्वे येये तत्र परिजिताः ॥ १५ ॥

संकर्षणं तु स्कन्धेन शीघ्रमुत्क्षिप्य दानवः ।
नभःस्थलं जगामाशु सचन्द्र इव वारिदः ॥ १६ ॥

असहन्रौहिणेयस्य स भारं दानवोत्तमः ।
ववृधे स महाकायः प्रावृषीव बलाहकः ॥ १७ ॥

संकर्षणस्तु तं दृष्ट्वा दग्धशैलोपमाकृतिम् ।
स्रग्दामलंबाभरणं मकुटाटोपमस्तकम् ॥ १८ ॥

रौद्रं शकटचक्राक्षं पादन्यासचलत्क्षितिम् ।

अभीतमनसा तेन रक्षसा रोहिणीसुतः ।
ह्रियमामस्ततः कृष्णमिदं वचनमब्रवीत् ॥ १९ ॥

श्रीदाम्नेति ॥ तत्र प्रलंबः श्रीदामपक्षीयः ॥ १३ – १९ ॥

कृष्णा कृष्ण ह्रियाम्येष पर्वतोदग्रमूर्तिना ।
केनापि पश्य दैत्येन गोपालच्छद्मरूपिणा ॥ २० ॥

कृष्णकृष्णेति ॥ ह्रियामि–ह्रिये । गोपालच्छद्मरूपिणा – कृत्रिमगोपालरूपिणा ॥ २० ॥

यदत्र सांप्रतं कार्यं मया मधुनिषूदन ।
तत्कथ्यतां प्रयात्येष दुरात्माऽतित्वरान्वितः ॥ २१ ॥

श्रीपराशर उवाच

तमाह रामं गोविन्दःस्मितभिन्नोष्ठसंपुटः ।
महात्मा रौहिणेयस्य बलवीर्यप्रमाणवित् ॥ २२ ॥

श्रीकृष्ण उवाच

किमयं मानुषो भावो व्यक्तमेवावलंब्यते ।
सर्वात्मन् सर्वगुह्यानां गुह्यगुह्यात्मना त्वया ॥ २३ ॥

यदत्रेति ॥ अत्र—– दानवे ॥ २१ – २३ ॥

स्मराशेषजगद्बीज कारणं कारणाग्रज ।
आत्मानमेकं तद्वच्च जगत्येकार्णवे च यत् ॥ २४ ॥

किं न वेत्सि यथाहं च त्वं चैकं कारणं भुवः ।
भारावतारणार्थाय मर्त्यलोकमुपागतौ ॥ २५ ॥

नभश्शिरस्तेंऽबुवहाश्च केशाः पादौ क्षितिर्वक्त्रमनन्तवह्नि ।
सोमो मनस्ते श्वसितं समीरणो दिशश्चतस्रोऽव्यय बाहवस्ते ॥ २६ ॥

सहस्रबक्त्रो भगवान्महात्मा सहस्रहस्ताङ्घ्रिशरीरभेदः ।
सहस्रपद्मोद्भवयोनिराद्यःसहस्रशस्त्वां मुनयो गृणन्ति ॥ २७ ॥

दिव्यं हि रूपं तव वेत्ति नान्यो देवैरशेषैरवताररूपम् ।
तदर्च्यते वेत्सि न किं यदन्ते त्वय्येव विश्वं लयमभ्युपैति ॥ २८ ॥

त्वया धृतेयं धरणी बिभर्ति चराचरं विश्वमनन्तमूर्ते ।
कृतादिभेदैरज कालरूपो निमेषपूर्वो जगदेतदत्सि ॥ २९ ॥

स्मरेत्यादि ॥ जगद्वीज – कारणानामप्या दिभूत। जगति – जगदवस्थायाम, तद्वदेकार्णेवे च – एकार्णवावस्थायां च यत्तदेकं कारणमात्मानं किं न वेत्सि ॥ २४ – २९ ॥

अत्तं यथा बाडबवह्निनांऽबु हिमस्वरूपं परिगृह्य कास्तम् ।
हिमाचले भानुमतोंऽशुसंगाज्जलत्वमभ्येति पुनस्तदेव ॥ ३० ॥

अत्तमिति ॥ अत्तं – चर्वितम् । कास्तं – छर्दितम् । यद्वा, केन वायुना, अस्तं वडवाग्निगतत्वे – नार्करश्मिनाडीमयेन क्षिप्तम् । अयमर्थः – सवायुना बडबाग्निना पीतं समुदाम्बु घनीभूय हिमतां गतं तेन वायु – नाडीमयार्करश्मिना सोमद्वारा हिमतौ हिमाद्रौ क्षिप्तं ग्रीष्मे पुनगदिव्यांशुसंयोगाद्विलीनं सत् यथा जलतां यातीति । अयमेवार्थः सरित्समुद्रेत्यादिना पूर्वमुक्तः ॥ ३० ॥

एवं त्वया संहरणेऽत्तमेतज्जगत्समस्तं त्वदधीनकं पुनः ।
तवैव सर्गाय समुद्यतस्य जगत्त्वमभ्येत्यसुकल्पमीश ॥ ३१ ॥

भवानहं च विश्वात्मन्नेकमेव च कारणम् ।
जगतोऽस्य जगत्यर्थे भेदेनावां व्यवस्थितौ ॥ ३२ ॥

एवमित्यादि ॥ संहरणात्तम् – संहरणकाले अत्तम् । तवैव सर्गाय समुद्यतस्य त्वप्येव सर्गाय समुद्यते सति ॥ ३१,३२ ॥

तत्स्मर्यताममेयात्मंस्त्वयाऽऽत्मा जहि दानवम् ।
मानुष्यमेवावलंब्य बन्धूनां क्रियतां हितम् ॥ ३३ ॥

तदिति ॥ मानुष्यमेवेति । स्तुत्युद्बोधितदिव्यशक्तिरपि मानुष्यमवलम्ब्यैव – मनुष्यमूर्त्यैव दानवे जहि ॥ ३३ ॥

श्री पराशर उवाच

इति संस्मारितो विप्र कृष्णेन सुमहात्मना ।
विहस्य पीडयामास प्रलंबं बलवान्बलः ॥ ३४ ॥

मुष्टिना सोऽहनन्मूर्ध्नि कोपसंरक्तलोचनः ।
तेन चास्य प्रहारेण बहिर्याते विलोचने ॥ ३५ ॥

इतीति । विहस्येति उद्बोधितस्वरूपानुसंधानचिह्नम् ॥ ३४,३५ ॥

स निष्कासितमस्तिष्को मुखाच्छोणितमुद्वमन् ।
निपपात महीपृष्ठे दैत्यवर्यो ममार च ॥ ३६ ॥

प्रलंबं निहतं दृष्ट्वा बलेनाद्भुतकर्मणा ।
प्रहृष्टास्तुष्टुवुर्गौपाःसाधुसाध्विति चाब्रुवन् ॥ ३७ ॥

संस्तूयमानो गोपैस्तु रामो दैत्ये निपातिते ।
प्रलंबे सह कृष्णेन पुनर्गोकुलमाययौ ॥ ३८ ॥

स इति ॥ निष्कासितमस्तिष्कः निर्गमितमस्तकस्नेहः ॥ ३६ – ३८ ॥

इति श्रीविष्णुमहापुराणे पञ्चमांशे नवमोऽध्यायः ॥ ९ ॥