अथ पञ्चमांशेऽष्टमोऽध्यायः
श्रीपराशर उवाच
गाः पालयन्तौ च पुनः सहितौ बलकेशवौ ।
भ्रममाणौ वने तस्मिन् रम्यं तालवनं गतौ ॥ १ ॥
तत्तु तालवनं दिव्यं धेनुको नाम दानवः ।
मृगमांसकृताहारः सदाऽध्यास्ते खराकृतिः ॥ २ ॥
तत्तु तालवनं पक्वफलसंपत्समन्वितम् ।
दृष्ट्वा स्पृहान्विता गोपाः फलादानेऽब्रुवन्वचः ॥ ३ ॥
गोपा ऊचुः
हे राम हे कृष्ण सदा धेनुकेनैष रक्ष्यते ।
भूप्रदेशो यतस्तस्मात्पक्वानीमानि संति वै ॥ ४ ॥
फलानि पश्य तालानां गन्धामोदितदिंशि वै ।
वयमेतान्यभीप्सामः पात्यन्तां यदि रोचते ॥ ५ ॥
श्रीपराशर उवाच
इति गोपकुमाराणां श्रुत्वा संकर्षणो वचः ।
एतत्कर्तव्यमित्युक्त्वा पातयामास तानि वै ।
कृष्णश्च पातयामास भुवितानि फलानि वै ॥ ६ ॥
फलानां पततां शब्दमाकर्ण्य सुदुरासदः ।
आजगाम स दुष्टात्मा कोपाद्दैतेयगर्दभः ॥ ७ ॥
॥ १ – ७॥
पद्भ्यामुभाभ्यां स तदा पश्चिमाभ्यां बलं बली ।
जघानोरसि ताभ्यां च स च तेनाभ्यगृह्यत ॥ ८ ॥
पद्भ्यामिति ॥ ताभ्यां । —तयोरित्यर्थः ॥ ८ ॥
गृहीत्वा भ्रामयामास सोंऽबरे गतजीवितम् ।
तस्मिन्नेव स चिक्षेप वेगेन तृणराजनि ॥ ९ ॥
ततः फलान्यनेकानि तालाग्रान्निपतन्खरः ।
पृथिव्यां पातयामास महावातो घनानिव ॥ १० ॥
अन्यानथ सजातीयानागतान्दैत्यगर्दभान् ।
कृष्णश्चिक्षेप तालाग्रे बलभद्रश्च लीलया ॥ ११ ॥
क्षणेनालङ्कृता पृथ्वी पक्वैस्तालफलैस्तदा ।
दैत्य गर्दभदेहैश्च मैत्रेय शुशुभेऽधिकम् ॥ १२ ॥
गृहीत्वेति ॥ तं गृहीत्वा तृणराजनि – ताले ॥ ९ – १२ ॥
ततो गावो निराबाधास्तस्मिंस्तालवने द्विज ।
नवशष्पं सुखं चेरुर्यन्न भुक्तमभूत्पुरा ॥ १३ ॥
इति श्रीविष्णुमहापुराणे पञ्चमांशेऽष्टमोऽध्यायः ॥ ८ ॥