०७

अथ पञ्चमांशे सप्तमोऽध्यायः

श्रीपराशर उवाच

एकदा तु विना रामं कृष्णो वृन्दावनं ययौ ।
विचचार वृतो गोपैर्वन्यपुष्पस्रगुज्ज्वलः ॥ १ ॥

एकदा त्विति ॥ विना रामम् – स हि तस्य नागह्रदप्रवेशं नानुमन्येत ॥ १ ॥

स जगामाथ कालिन्दीं लोल कल्लोलशालिनीम् ।
तीरसंलग्नफेनौघैर्हसन्तीमिव सर्वतः ॥ २ ॥

स इति ॥ फेनस्य शौक्ल्याद्धसन्ती मिवेत्युत्प्रेक्ष! । हसन्तीम् – अङ्गारशकटिका मिवेत्युपमा वा । अत्र ज्वालावत्कल्लोलः, भस्मवत्फेनः ॥ २ ॥

तस्याश्चतिमहाभीमं विषाग्निश्रितवारिणम् ।
ह्रदं कालीयनागस्य ददर्शातिविभीषणम् ॥ ३ ॥

विषाग्निना प्रसरता दग्धतीरमहीरुहम् ।
वाताहतांबुविक्षेपस्पर्शदग्धविहङ्गमम् ॥ ४ ॥

तमतीव महा रौद्रं मृत्युवक्रमिवापरम् ।
विलोक्य चिन्तयामास भगवान्मधुसूदनः ॥ ५ ॥

तस्या इति ॥ श्रितं – तप्तम् ॥ ३ – ५ ॥

अस्मिन्वसति दुष्टात्मा कालीयोऽसौ विषायुधः ।
यो मया निर्जितस्त्यक्त्वा दुष्टो गच्छेत्पयोनिधिम् ॥ ६ ॥

तेनेयं दूषिता सर्वा यमुना सागरङ्गमा ।
न नरैगोधनैश्चापि तृषार्तैरुपभुज्यते ॥ ७ ॥

तदस्य नागराजस्य कर्तव्यो निग्रहो मया ।
निस्त्रासास्तु सुखं येन चरेयुर्व्रजवासिनः ॥ ८ ॥

एतदर्थं तु लोकेस्मिन्नवतारः कृतो मया ।
यदेषामुत्पथस्थानां कार्या शान्तिर्दुरात्मनाम् ॥ ९ ॥

अस्मिन्निति ॥ यो मयेत्यादि । मया – मद्विभूतिभूतेन तार्क्ष्येत्यर्थः । नष्टः – न दृष्टः । सोऽस्मिन् मत्स्यानुजिवृक्षु सौभरिशापभीततार्क्ष्यदुष्प्रवेशे वसति । अयमर्थो भागवते द्रष्टव्यः ॥ ६ – ९ ॥

तदेतं नातिदूरस्थं कदंबमुरुशाखिनम् ।
अदिरुद्य पतिष्यामि ह्रदेऽस्मिन्ननिलाशिनः ॥ १० ॥

तदिति ॥ कदंबोऽसावमृतमानयता तार्क्ष्येणक्रान्ततत्वान्न दग्ध इति पुराणान्तरसिद्धम् ॥ १० ॥

श्रीपराशर उवाच

इत्थं विचिन्त्य बद्धा च गाढं परिकरं ततः ।
निपपात ह्रदे तत्र नागराजस्य वेगतः ॥ ११ ॥

तेनातिपतता तत्र क्षोभितःस महाह्रदः ।
अत्यर्थं दूरजातांस्तु समसिंचन्महीरुहान् ॥ १२ ॥

ते हि दुष्टविषज्वालातप्तांबुपवनोक्षिताः ।
जज्वलुः पादपाःसद्यो ज्वालाव्याप्तदिगन्तराः ॥ १३ ॥

आस्फोटयामास तदा कृष्णो नागह्रने भुजम् ।
तच्छब्दश्रवणाच्चाशु नागराजोऽभ्युपागमत् ॥ १४ ॥

आताम्रनयनः कोपाद्विषज्वालाकुलैर्मुखैः ।
वृतो महाविषैश्चान्यैरुरगैरनिलाशनैः ॥ १५ ॥

इत्थमिति ॥ परितः क्रियत इति परिकरो वस्त्रम् । ११ – १५ ॥

नागपत्न्यश्च शतशो हारिहारोपशोभिताः ।
प्रकंपिततनुक्षेपचलत्कुन्तलकान्तयः ॥ १६ ॥

ततः प्रवेष्टितःसर्पैः स कृष्णो भोगबन्धनैः ।
ददंशुस्तेऽपि तं कृष्णं विषज्वालाकुलैर्मुखैः ॥ १७ ॥

नागपत्न्यश्चेति । हारिहारेत्यादिना हारादिभूषितत्वोक्तेः, व्यक्तवाक्योक्तेश्च तासां मनुष्यसमपूर्व – कायत्वं विज्ञेयम् ॥ १६–१७ ॥

तं तत्र पतितं दृष्ट्वा सर्पभोगौर्निपीडितम् ।
गोपा व्रजमुपागम्य चुक्रुशुः शोकलालसाः ॥ १८ ॥

गोपा ऊचुः

एष मोहं गतः कृष्णो मग्नौ वै कालियह्रदे ।
भक्ष्यते नागराजेन तमागच्छत पश्यत ॥ १९ ॥

तच्छुत्वा तत्र ते गोपा वज्रपा तोपमं वचः ।
गोप्यश्च त्वरीता जग्मुर्यशोदाप्रमुखा ह्रदम् ॥ २० ॥

तमिति ॥ लालसाः – व्याकुलाः । पश्यतेति चुक्रुशुः ॥ १८ – २० ॥

हाहा क्वासाविति जनो गोपीनामतिविह्वलः ।
यशोदया समं भ्रान्तो द्रुतप्रस्खलितं ययौ ॥ २१ ॥

हाहेति ॥ विह्वलः –परवशः ।’ २१ ॥

नन्दगोपश्च गोपाश्च रामश्चाद्भुतविक्रमः ।
त्वरितं यमुनां जग्मुः कृष्णदर्शनलालासाः ॥ २२ ॥

ददृशुश्चापि ते तत्र सर्पराजवशङ्गतम् ।
निष्प्रयत्नीकृतं कृष्णं सर्पभोगविवेष्टितम् ॥ २३ ॥

नन्दगोपोऽपि निश्चेष्टो न्यस्य पुत्रमुखे दृशम् ।
यशोदा च महाभागा बभूव मुनिसत्तम ॥ २४ ॥

नन्दगोप इति ॥ कृष्णदर्शनलालसाः । अत्र लालसपदमौत्सुक्यपरम् ॥ २२ – २४ ॥

गोप्यस्त्वन्या रुदन्त्यश्च ददृशुः शोककातराः ।
प्रोचुश्च केशवं प्रीत्या भयकातर्यगद्गदम् ॥ २५ ॥

गोप्य ऊचुः

सर्वा यशोदया सार्धं विशामोऽत्र महाह्रदम् ।
सर्पराजस्य नो गन्तुमस्माभिर्युज्यते व्रजम् ॥ २६ ॥

दिवसः सो विना सूर्यं विना चन्द्रेण का निशा ।
विना वृषेण का गावो विना कृष्णेन को व्रजः ॥ २७ ॥

विनाकृता न यास्यामः कृष्णेनानेन गोकुलम् ।
अरम्यं नातिसेव्यं च वारिहीनं यथा सरः ॥ २८ ॥

गोप्य इति ॥ कातराः – अधीराः ॥ २५ – २८॥

यत्र नेन्दीवरश्यामकायकान्तिरयं हरिः ।
तेनापि पातुर्वासेन रतिरस्तीति विस्मयः ॥ २९ ॥

यत्रेति ॥ यत्र न हरिः तेनापि मातुर्वासेन – जननीगृहेणापि रतिरस्ति चेद्विस्मयः । कृष्णरहित मातृगृहेऽपि प्रीतिर्नास्तीत्यर्थः ॥ २९ ॥

उत्फुल्लपङ्कजदलस्पष्टकान्तिविलोचनम् ।
अपश्यन्तो हरिं दीनाः कथं गोष्ठे भविष्यथ ॥ ३० ॥

उत्फुल्लेति ॥ कथं भविष्यथ – कथमपि भवितुं न शक्ष्यथेत्यर्थः ॥ ३० ॥

अत्यन्त मधुरालापहृताशेषमनोरथम् ।
न विना पुण्डरीकाक्षं यास्यामो नन्दगोकुलम् ॥ ३१ ॥

अत्यर्थेति ॥ अत्यर्थम् –अत्यन्तम् ॥ ३१ ॥

भोगेनाविष्टितस्यापि सर्पराजस्य पश्यत ।
स्मितशोभिमुखं गोप्यः कृष्णस्यास्मद्विलोकने ॥ ३२ ॥

भोगेनेति ॥ अस्मद्विलोकने सतीति शेषः ॥ ३२ ॥

श्रीपराशर उवाच

इति गोपीवचः श्रुत्वा रौहिणेयो महाबलः ।
गोपांश्च त्रासविधुरान्विलोक्य स्तिमितेक्षणान् ॥ ३३ ॥

इतीति ॥ त्रासविधुरान् – त्रासनिश्चेष्टान् ॥ ३३ ॥

नन्दं च दीनमत्यर्थं न्यस्तदृष्टिं सुतानने ।
मूर्छाकुलां यशोदां च कृष्णमाहात्मसंज्ञया ॥ ३४ ॥

नन्दं चेति ॥ आत्मसंज्ञया— अनन्यवेद्येन संकेतेन ॥ ५७ ॥

किमिदं देवदेवेश भावोऽयं मानुषस्त्वया ।
व्यज्यतेऽत्यन्तमात्मानं किमनन्तं न वेत्सि यत् ॥ ३५ ॥

किमिदमिति ॥ किं त्वमात्मानमनन्तम् – ईश्वरं यन्न वेत्सि, तेन सर्पदष्टत्वमूर्च्छादिरयं मानुषो भावः अत्यन्तं व्यज्यते, किमिदमित्मन्वयः ॥ ३५ ॥

त्वमेव जगतो नाभिरराणामिव संश्रयः ।
कर्ताऽपहर्ता पाता च त्रौलोक्यं त्वं त्रयीमयः ॥ ३६ ॥

सेन्द्रै रुद्राग्निवसुभिरादित्यैर्मरुदश्विभिः ।
चिन्त्यसे त्वमचिन्त्यात्मन् समस्तैश्चैव योगिभिः ॥ ३७ ॥

त्वमेवेति ॥ अराणां नाभिरिव त्वमस्य जगतः संश्रयः ॥ ३६,३७ ॥

जगत्यर्थं जगन्नाथ भारावतरणेच्छया ।
अवतीर्णोऽसि मर्त्येषु तवांशश्चाहमग्रजः ॥ ३८ ॥

जगत्यर्थमिति ॥ तवांशः – तव विभूतिः ॥ ३८ ॥

मनुष्यलीलां भगवन् भजता भवता सुराः ।
विडम्बयन्तस्त्वल्लीलां सर्व एव सहासते ॥ ३९ ॥

अवतार्य भवान्पूर्वं गोकुले तु सुराङ्गनाः ।
क्रीडार्थमात्मनः पश्चादवर्तीर्णोऽसि शाश्वत ॥ ४० ॥

अत्रावतीर्णयोः कृष्ण गोपा एव हि बान्धवाः ।
गोप्यश्च सीदतः कस्मादेतान्बन्धूनुपेक्षसे ॥ ४१ ॥

दर्शितो मानुषो भावो दर्शितं बालचापलम् ।
तदयं दम्यतां कृष्ण दुष्टत्मा दशनायुधः ॥ ४२ ॥

मनुष्येत्यादि । मनुष्यदेहग्रहणात्मिका लीलां भजता त्वया हेतुभूतेन सुराश्च गोपेषु जातास्त्वल्लीलां विडंबयन्तः–अनुकुर्वन्त आसते ॥ ३९ – ४२ ॥

श्रीपराशर उवाच

इति संस्मारितः कृष्णः स्मितभिन्नोष्ठसंपुटः ।
आस्फोट्य मोचयामास स्वदेहं भोगिबन्धनात् ॥ ४३ ॥

आनम्य चापि हस्ताभ्यामुभाभ्यां मध्यमं शिरः ।
आरुह्याभुग्नशिरसः प्रणनर्तोरुविक्रमः ॥ ४४ ॥

इतीति ॥ स्मितभिन्नेति । मायोद्घाटनात् स्मितोदयः ॥ ४३ – ४४ ॥

प्राणाः फणेऽभवंश्चास्य कृष्णस्याङ्घ्रिनिकुट्टनैः ।
यत्रोन्नतिं च कुरुते ननामास्य ततः शिरः ॥ ४५ ॥

प्राणा इति ॥ निकुट्टनै— प्रहारैः ॥ ४५ ॥

मूर्छामुपाययौ भ्रान्त्या नागः कृष्णस्य रेचकैः ।
दण्डपातनिपातेन ववाम रुधिरं बहु ॥ ४६ ॥

तं विभुग्रशिरोग्रीवमास्येभ्यस्स्रुतशोणितम् ।
विलोक्य करुणं जग्मुस्तत्पत्न्यो मधुसूदनम् ॥ ४७ ॥

नागपत्न्य ऊचुः

ज्ञातोऽसि देवदेवेश सर्वज्ञस्त्वमनुत्तमः ।
परं ज्योतिरचिन्त्यं यत्तदंशः परमेश्वरः ॥ ४८ ॥

न समर्थाः सुराःस्तोतुं यमनन्यभवं विभुम् ।
स्वरूपवर्णनं तस्य कथं योषित्करिष्यति ॥ ४९ ॥

यस्याखिलमहीव्योमजलाग्निपवनात्मकम् ।
ब्रह्माण्डमल्पकाल्पांशः स्तोष्यामस्तं कथं वयम् ॥ ५० ॥

यमतो न विदुर्नित्यं यत्स्वरूपं हि योगिनः ।
परमार्थमणोरल्पं स्थूलात्स्थूलं नताः स्म तम् ॥ ५१ ॥

न यस्य जन्मने धाता यस्य चान्ताय नान्तकः ।
स्थितिकर्ता न चान्योऽस्ति यस्य तस्मै नमःसदा ॥ ५२ ॥

मूर्च्छामिति ॥ भ्रान्तिरेचकदण्डपाताः नृत्तोक्ताः पादन्यासविशेषाः । यथाह भरतः अन्तर्भ्रम – रिका ज्ञेया भ्रमरी बाह्यपूर्विका । अलग्नभ्रमरी च स्यादुचितभ्रमरी तथा ॥ चित्रभ्रमरिका चैव चक्रभ्रमरिका तथा । तिर्यग्म्रमरिका चेति भ्रमासप्त प्रकीर्तिताः ॥ पार्श्वातपार्श्वं तु गमनं स्खलितेश्वलितैः पदैः । विविधैश्चैव पादैश्च पादरेचक उच्यते ॥ पार्ष्णी यस्य स्थितौ भूमावूर्ध्वमग्रतलं तथा । अङ्गुल्यश्वाञ्चितास्सर्वास्सपादस्वञ्चित – सुस्मृतः ॥ पृष्ठतो ह्यश्चितं कृत्वा पादमग्रतलेन तु । द्रुतं निपातयेद्भूमौ चादिनू पुरपादिका ॥ चरणं नू पुरं कृत्वा पुरतः संप्रसारयेत् । क्षिप्रमाविद्धकरणं दण्डपाता तु सा स्मृता ॥ इति ॥ ४६ – ५२ ॥

कोपः स्वल्पोऽपि ते नास्ति स्थितिपालनमेव ते ।
कारणं कालियस्यास्य दमने श्रुयतां वचः ॥ ५३ ॥

स्त्रियोऽनुकंप्याःसाधूनां मूढा दीनाश्च जन्तवः ।
यतस्ततोऽस्य दीनस्य क्षम्यतां क्षमतां वर ॥ ५४ ॥

समस्तजगदाधारो भवानल्पबलः फणी ।
त्वत्पादपीडितो जह्यान्मुहूर्तार्धेन जीवितम् ॥ ५५ ॥

कोप इति ॥ स्थितिपालनं– लोकमर्यादास्थापनम् । श्रूयतामय – अथ अस्मद्वचनं श्रूयताम ॥ ५३ – ५५ ॥

क्व पन्नगोऽल्पवीर्योऽयं क्व भवान्भुवनाश्रयः ।
प्रीतिद्वेषौ समोत्कृष्टगोचरौ भवतोऽव्यय ॥ ५६ ॥

ततः कुरु जगत्स्वामिन्प्रसादमवसीदतः ।
प्राणांस्त्यजति नागोऽयं भर्तृभिक्षा प्रदीयताम् ॥ ५७ ॥

भुवनेश जगन्नाथ महापुरुषपूर्वज ।
प्राणांस्त्यजति नागोऽयं भर्तृभिक्षां प्रयच्छ नः ॥ ५८ ॥

वेदान्तवेद्य देवेश दुष्टदैत्यनिबर्हम ।
प्राणांस्त्यजति नागोऽयं भर्तृभिक्षा प्रदीयताम् ॥ ५९ ॥

श्रीपराशर उवाच

इत्युक्ते ताभिराश्वस्य क्लान्तदेहोपि पन्नगः ।
प्रसीद देवदेवेति प्राह वाक्यं शनैः शनैः ॥ ६० ॥

क्वेति ॥ समोत्कृष्टयोः प्रीतिर्द्वेषो वा कार्यः । न स्वीदृशे निकृष्ट इति भावः ॥ ५६ – ६० ॥

कालिय उवाच

तवाष्टगुणमैश्वर्यं नाथ स्वाभाविकं परम् ।
निरस्तातिशयं यस्य तस्य स्तोष्यामि किन्वहम् ॥ ६१ ॥

तवेत्यादि ॥ किन्नु स्तोष्यामीति भावः । अष्टौ गुणा यस्य तदष्टगुणमैश्वर्यम् । ते चाणिमादयः । स्वाभाविकत्वादि विशेषणैस्सनकादिव्यावृत्तिः ॥ ६१ ॥

त्वं परस्त्वं परस्याद्यः परं त्वत्तः परात्मकम् ।
परस्मात्परमो यस्त्वं तस्य स्तोष्यामि किन्वहम् ॥ ६२ ॥

यस्माद्बह्मा च रुद्रश्च चन्द्रेन्द्रमरुदश्विनः ।
वसवश्च सहादित्यैस्तस्य स्तोष्यामि किन्वहम् ॥ ६३ ॥

स्वं पर इत्यादि ॥ प्रकृतेः परः पुमांस्त्वम् । परस्माद्यः परः मुक्तः स त्वम् । परं त्वत्तः परात्मकम् – इन्द्रियादेरुत्कृष्टं प्रधानमपि त्वत्तो भवति । परस्मात्परमो यस्त्वम् – उक्ताद्बद्धमुक्तप्रधानरूपात्परस्मात् परमो यः सः त्वम् ; तस्य तब किं स्तोष्यामीति । परं त्वत्तः परात्मकेति पाठे, हे परात्मक – उत्कृष्टस्वरूप ! त्वत्तः परं प्रधानं प्रवर्तते । परस्माद्यः मुक्तः स त्वमिति शेषः । त्वं परस्त्वं परस्माद्यः परं त्वत्तः परात्मकम् इति च पाठः ॥ ६२, ६३ ॥

एकावयवसूक्ष्मांशो यस्यैतदखिलं जगत् ।
कल्पनावयवस्यांशस्तस्य स्तोष्यामि किन्वहम् ॥ ६४ ॥

एकावयवेति ॥ कल्पनावयवात्मा—संकल्पसिद्धावयवात्मा । इच्छागृहीता भिमतोरुदेह इति यावत् ॥ ६४ ॥

सदसद्रूपिणो यस्य ब्रह्माद्यास्त्रिदशेश्वराः ।
परमार्थं न जानन्ति तस्य स्तोष्यामि किन्वहम् ॥ ६५ ॥

ब्रह्माद्येरर्चिते यस्तु गन्धपुष्पानुलेपनैः ।
नन्दनादिसमुद्भूतैः सोऽर्च्यते वा कथं मया ॥ ६६ ॥

यस्यावताररूपाणि देवराजःसदाऽर्चति ।
न वेत्ति परमं रूपं सोऽर्च्यते वा कथं मया ॥ ६७ ॥

विषयेभ्यः समावृत्त्य सर्वाक्षाणि च योगिनः ।
यमर्चयन्ति ध्यानेन सोऽर्च्यते वा कथं मया ॥ ६८ ॥

सदसद्रूपिण इति ॥ सदसदूपिणः– मूर्तामूर्तरूपवतः ॥ ६५ – ६८ ॥

हृदि संकल्प्य यद्रूपं ध्यानेनार्चन्ति योगिनः ।
भावपुष्पादिना नाथः सोऽर्च्यते वा कथं मया ॥ ६९ ॥

सोऽहं ते देवदेवेश नार्चनादौ स्तुतौ न च ।
सामर्थ्यवान् कृपामात्रमनोवृत्तिः प्रसीद मे ॥ ७० ॥

सर्पजातिरियं क्रुरा यस्यां जातोऽस्मि केशव ।
तत्स्वभावोऽयमत्रास्ति नापराधो ममाच्युत ॥ ७१ ॥

सृज्यते भवता सर्वं तथा संह्रीयते जगत् ।
जातिरूपस्वभावाश्च सृज्यन्ते सृजता त्वया ॥ ७२ ॥

यथाहं भवता सृष्टो जात्या रूपेण चेश्वर ।
स्वभावेन च साधुत्वं तथेदं चेष्टितं मया ॥ ७३ ॥

यद्यन्यथा प्रवर्तेयं देवदेव ततो मयि ।
न्याय्यो दण्डनिपातो वै तवैव वचनं यथा ॥ ७४ ॥

हृदीत्यादि ॥ यद्रूपं ध्यानेन संकल्प्य । भावमयानि पुष्पाणि – अहिंसादीनि, अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः । सर्वभूतदया पुष्पं क्षमा पुष्पं विशिष्यते ॥ शमः पुष्पं दमः पुष्पं ध्यानपुष्पं च सप्तमम् । सत्यं चैवाष्टमं पुष्पमेभिस्तुष्यति केशवः ॥ इति वचनात् ॥ ६९ – ७४ ॥

तथाप्यज्ञे जगत्स्वामिन्दण्डं पातितवान्मयि ।
स सोढव्यो मया दण्डस्त्वत्तो मे मामेत्ययं वरः ॥ ७५ ॥

हतवीर्यो हतविषो दमितोऽहं त्वयाऽच्युत ।
जीवितं दीयतामेकमाज्ञापय करोमि किम् ॥ ७६ ॥

श्रीभगवानुवाच

नात्र स्थेयन्त्वया सर्प कदाचिद्यमुनाजले ।
सपुत्रपरिवारस्त्वं समुद्रसलिलं व्रज ॥ ७७ ॥

मत्पदानि च ते सर्प दृष्ट्वा मूर्धनि सागर ।
गरुडः पन्नगरिपुस्त्वयि न प्रहरिष्यति ॥ ७८ ॥

श्रीपराशर उवाच

इत्युक्त्वा सर्पराजं तं मुमोच भगवान्हरिः ।
प्रणम्य सोऽपि कृष्णाय जगाम पयसां निधिम् ॥ ७९ ॥

पश्यतां सर्वभूतानां सभृत्यसुतबान्धवः ।
समस्तभार्यासहितः परित्यज्य स्वकं ह्रदम् ॥ ८० ॥

तथेति ॥ स सोढव्य इति । अयं दण्डरूपो वरस्वत्तो मामेति, मया सोढव्यः । स श्लाघ्योऽयं वरो दण्डस्त्वत्तो मे नान्यतो वरः, इति च पाठः ॥ ७५ – ८० ॥

गते सर्पे परिष्वज्य मृतं पुनरिवागतम् ।
गोपा मूर्धनि हार्देन सिषिचुर्नेत्रजैर्जलैः ॥ ८१ ॥

गत इति ॥ गोपाः नन्दाद्या वृद्धाः ॥ ८१ ॥

कृष्णामाक्लिष्टकर्माणमन्ये विस्मितचेतसः ।
तुष्टुवुर्मुदिता गोपा दृष्ट्वा शिवजलां नदीम् ॥ ८२ ॥

कृष्णमिति ॥ अन्ये – श्रीदामादिसवयसः ॥ ८२ ॥

गीयमानः स गोपीभिश्चारितैः साधुचेष्टितैः ।
संस्तूयमानो गोपैश्च कृष्णो व्रजमुपागमत् ॥ ८३ ॥

गीयमान इति ॥ चरितैः हेतुभिः ॥ ८३ ॥

इति श्रीविष्णुमहापुराणे पञ्चमांशे सप्तमोऽध्यायः ॥ ७ ॥