अथ पञ्चमांशे षष्ठोऽध्यायः
श्रीपराशर उवाच
कदाचिच्छकटस्याधः शयानो मधुसूदनः ।
चिक्षेप चरणावूर्ध्वं स्तन्यार्थी प्ररुरोद ह ॥ १ ॥
॥ १ ॥
तस्य पादप्रहारेण शकटं परिवर्तितम् ।
विध्वस्तकुंभभाण्डं तद्विपरीतं पपात वै ॥ २ ॥
ततो हाहाकृतः सर्वो गोपरोपीजनो द्विज ।
आजगामाथ ददृशे बालमुत्तानशायिनम् ॥ ३ ॥
तस्येति ॥ विध्वस्तकुंभभाण्डं – कुंभाः – घटाः, भाण्डानि – गर्गर्याद्युपकरणानि । कुप्यभाण्ड – पाठे स्वर्णरजतेतरद्रव्यमयभाण्डमित्यर्थः । शकटं मुराविष्टम् । तदा शकटरूपेण दैत्यस्तामाश्रितो मुरः हरिवंशे ॥ २, ३ ॥
गोपाः केनेति केनेदं शकटं परिवर्तितम् ।
तत्रैव बालकाः प्रोचुर्बालेनानेन पातितम् ॥ ४ ॥
रुदता दृष्टमस्माभिः पादविक्षेपपातितम् ।
शकटं परिवृत्तं वै नैतदन्यस्य चेष्टितम् ॥ ५ ॥
ततः पुनरतीवासन्गोपा विस्मयचेतसः ।
नन्दगोपोऽपि जग्राह बालमत्यन्तविस्मितः ॥ ६ ॥
गोपा इति । केनकेनेत्यत्रापि प्रोचुरित्यन्वयः । विस्मयाद्वीप्सा ॥ ४ – ६॥
यशोदा शकटारूढभग्नभाण्डकपालिकाः ।
शकटं चार्चयामास दधिपुष्पफलाक्षतैः ॥ ७ ॥
यशोदेत्यादि । अर्चनार्थं शकटे आरोपिताः भग्नभाण्डकपालिकाः यथा सा ॥ ७ ॥
गर्गश्च गोकुले तत्र वसुदेवप्रचोदितः ।
प्रच्छन्न एव गोपानां संस्कारानकरोत्तयोः ॥ ८ ॥
गर्गश्चेति ॥ गर्गः– यदुपुरोहितः । गोपानां संछन्नः – तैरज्ञातः ॥ ८ ॥
ज्येष्ठं च राममित्याह कृष्णं चैव तथाऽवरम् ।
गर्गो मतिमतां श्रेष्ठो नाम कुर्वन्महामतिः ॥ ९ ॥
ज्येष्ठमिति ॥ मतिमतां – मुनीनाम् ॥ ९ ॥
स्वल्पेनैव तु कालेन रङ्गिणौ तौ तदा व्रजे ।
घृष्टजानुकरौ विप्र बभूवतुरुभावपि ॥ १० ॥
करीषभस्मदिग्धाङ्गौ भ्रममाणावितस्ततः ।
न निवारयितुं सेहे यशोदा तौ न रोहिणी ॥ ११ ॥
स्वल्पेनेति ॥ रंगिणौ–संचारिणौ ॥ १०, ११ ॥
गोवाटमध्ये क्रीडन्तौ वत्सवाटं गतौ पुनः ।
तदहर्जातगोवत्सपुच्छाकर्षणतत्परौ ॥ १२ ॥
यदा यशोदा तौ बालावेकस्थानचरावुभौ ।
शशाक नो वारयितुं क्रीडन्तावतिचञ्चलौ ॥ १३ ॥
दाम्ना मध्ये ततो बद्ध्वा बबन्ध तमुलूखले ।
कृष्णमक्लिष्टकर्माणमाह चेदममर्षिता ॥ १४ ॥
यदि शक्नोषि गच्छ त्वमतिचञ्चलचेष्टित ।
इत्युक्त्वाऽथ निजं कर्म सा चकार कुटुंबिनी ॥ १५ ॥
व्याग्रायामथ तस्यां स कर्षमाण उलूखलम् ।
यमलार्जुनमध्येन जगाम कमलेक्षणः ॥ १६ ॥
कर्षता वृक्षयोर्मध्ये तिर्यग्गतमुलूखलम् ।
भग्नावुत्तुङ्गशाखाग्रौ तेन तौ यमलार्जुनौ ॥ १७ ॥
ततः कटकटाशब्दसमाकर्णनतत्परः ।
आजगाम व्रजजनो ददर्श च महाद्रुमौ ॥ १८ ॥
नवोद्गताल्पदन्तांशुसितहासं च बालकम् ।
तयोर्मध्यगतं दाम्ना बद्धं गाढं तथोदरे ॥ १९ ॥
ततश्च तामोदरतां स ययौ दामबन्धनात् ॥ २० ॥
गोपवृद्धास्ततः सर्वे नन्दगोपपुरोगमाः ।
मन्त्रयामासुरुद्विग्ना महोत्पातातिभीरवः ॥ २१ ॥
गोवाटमध्य इति ॥ गोवाटं— गोक्षेत्रम् ॥ १२ – २१ ॥
स्थाने नेह न नः कार्यं व्रजामोऽन्यन्महावनम् ।
उत्पाता बहवो ह्यत्र दृश्यन्ते नाशहेतवः ॥ २२ ॥
पूतनाया विनाशश्च शकटस्य विपर्ययः ।
विना वातादिदोषेण द्रुमयोः पतनन्तथा ॥ २३ ॥
स्थानेनेति ॥ स्थानेन — स्थित्या ॥ २२ – २३ ॥
वृन्दावनमितःस्थानात्तस्माद्गच्छाम मा चिरम् ।
यावद्भौममहोत्पातदोषो नाभिभवेद्व्रजम् ॥ २४ ॥
वृन्दावनमिति ॥ इतः—बृहद्वनाख्यात्, भौममहोत्पातः – चरस्थिरेषु विकृतिः । स सप्तरात्रपाकः । तत्पाककालात्प्राक् तद्भूमित्यागिनां न दोष इति श्रूयते ॥ २४ ॥
इति कृत्वा मतिं सर्वे गमने ते व्रजौकसः ।
ऊचुस्स्वं स्वं कुलं शीघ्रं गम्यतां मा विलंबथ ॥ २५ ॥
इतीति ॥ कुलं कुटुंबम् ॥ २५ ॥
ततः क्षणेन प्रययुः शकटैर्गोधनैस्तथा ।
यूथशो वत्सपालाश्च कालयन्तो व्रजौकसः ॥ २६ ॥
तत इति ॥ कालयन्तः – चारयन्तः । गोधनमिति शेषः ॥ २६ ॥
द्रव्यावयवनिर्धूतं क्षणमात्रेण तत्तथा ।
काकभाससमाकीर्णं व्रजस्थानमभूद्विज ॥ २७ ॥
वृन्दावनं भगवता कृष्णेनाक्लिष्टकर्मणा ।
शुभेन मनसा ध्यातं गवं सिद्धिमभीप्सता ॥ २८ ॥
ततस्तत्रातिरूक्षेऽपि घर्मकाले द्विजोत्तम ।
प्रावृट्काल इवोद्भूतं नवशष्पं समन्ततः ॥ २९ ॥
द्रव्यावयवेति ॥ द्रव्यावयवनिर्धूतं – वीह्यन्नदध्यादिद्रव्यावयवाः निर्धूनाः – आकीर्णा यत्र । क्तोऽधि – करणे च इति सूत्रम् ॥ २७ – २९ ॥
स समावासितः सर्वो व्रजो वृन्दावने ततः ।
शकटावाटपर्यन्तश्चन्द्रार्धाकारसंस्थितः ॥ ३० ॥
स इति ॥ शकटीवाटः – अल्पशकटीश्रेणी प्रान्ते यस्य सः । व्रततिवावी वा वाटशब्दः । चंद्रार्द्धाकारत्वं यमुनानुरोधात् । शकटीवाटपर्यन्त इति च पाठः ॥ ३० ॥
वत्सपालौ च संवृत्तौ रामदामोदरौ ततः ।
एकस्थानस्थितौ गोष्ठे चेरतुर्बाललीलया ॥ ३१ ॥
वत्सपालाविति ॥ एकस्थान स्थितौ — लीलास्थान स्थितौ ॥ ३१ ॥
बर्हिपत्रकृतापीडौ वन्यपुष्पावतंसकौ ।
गोपवेणुकृतातोद्यपत्रवाद्यकृतस्वनौ ॥ ३२ ॥
बर्होति ॥ आपीडः — शेखरः । गोपवेणुकृतातोद्यपत्रवाद्यकृत स्वनौ – गोपोचितवेणुभिरेव रचित – मुरजादिकृत्यौ, पर्णमयत्राद्यैः कृतस्वनौ च ॥ ३२ ॥
काकपक्षधरौ बालौ कुमाराविव पावकी ।
हसंतौ च रमन्तौ च चेरतुः स्म महावनम् ॥ ३३ ॥
क्वचिद्वहन्तावन्योन्यं क्रीडमानौ तथा परैः ।
गोपपुत्रैः समं वत्सांश्चारयन्तौ विचेरतुः ॥ ३४ ॥
कालेन गच्छता तौ तु सप्तवर्षौ महाव्रजे ।
सर्वस्य जगतः पालौ वत्सपालौ बभूवतुः ॥ ३५ ॥
प्रावृट्कालस्ततोऽतीव मेघौघस्थगितांबरः ।
बभूव वारिधाराभिरैक्यं कुर्वन्दिशामिव ॥ ३६ ॥
काकपक्षधराविति ॥ काकपक्षः – शिखा । पात्रकी – शाख विशाखाख्यौ स्कन्दांशौ ॥ ३३ – ३६ ॥
प्ररूढनवशष्पाढ्या शक्रगोपाचिता मही ।
तथा मारकतीवासीत्पद्मरागविभूषिता ॥ ३७ ॥
प्ररूढेति ॥ शक्रगोपः – अरुणः कीट विशेषः । मारकती – मरकतमयी ॥ ३७ ॥
ऊहुरुन्मार्गवाहीनि निम्नगांभांसि सर्वतः ।
मनांसि दुर्विनीतानां प्राप्य लक्ष्मीं नवामिव ॥ ३८ ॥
ऊहुरितिः ॥ ऊहुः – जग्मुः । वहतिरत्र प्रापणे ॥ ३८ ॥
न रेजेऽन्तरितश्चन्द्रो निर्मलो मलिनैर्घनैः ।
सद्वादिवादो मूर्खाणां प्रगल्भाभिरिवोक्तिभिः ॥ ३९ ॥
नेति ॥ सद्वादिवादः – वैदिकवादः । मूर्खाः – वेदबाह्यकुदृष्टयः ॥ ३९ ॥
निर्गुणेनापि चापेन शक्रस्य गगने पदम् ।
अवाप्यताविवेकस्य नृपस्येव परिग्रहे ॥ ४० ॥
निर्गुणेनेति ॥ अविवेकनृपतिपरिग्रहे निर्गुणेन पुरुषेणेव ॥ ४० ॥
मेघपृष्ठे बलाकानां रराज विमला ततिः ।
दुर्वत्ते वृत्तचेष्टेव कुलीनस्यातिशौभना ॥ ४१ ॥
न बबन्धांबरे स्थैर्यं विद्युदत्यन्तचञ्चला ।
मैत्रीव प्रवरे पुंसि दुर्जनेन प्रयोजिता ॥ ४२ ॥
मेघपृष्ठ इति ॥ दुर्वृत्ते–अपकारिणि, कुलीनस्य – अभिजातस्य, वृत्तचेष्टा – सच्चरितमुपकारादिकं लब्धपरभागमौज्ज्वल्यं याति । यद्वा दुर्वृत्तलक्षणं दृष्ट्वा सज्जनचेष्टेव ॥ ४१,४२ ॥
मार्गा बभूवुरस्पष्टास्तृणशष्पचयावृताः ।
अर्थान्तरमनुप्राप्ताः प्रजडानामिवोक्तयः ॥ ४३ ॥
मार्गा इति ॥ अर्थान्तरं – स्वविवक्षितादन्यमर्थम् ॥ ४३ ॥
उन्मत्तशिखिसारङ्गे तस्मिन्काले महावने ।
कृष्णरामौ मुदायुक्तौ गोपालैश्चेरतुः सह ॥ ४४ ॥
उन्मत्तेति ॥ सारंगः– चातकः ऋष्यो वा ॥ ४४ ॥
क्वचिद्गोभिः समं रम्यं गेयतानरतावुभौ ।
चेरतुः क्वचिदत्यर्थं शीतवृक्षतलाश्रितौ ॥ ४५ ॥
क्वचित्कदंबस्रक्चित्रौ मयूरस्रग्विराजितौ ।
विलिप्तौ क्वचिदासातां विविधैर्गिरिधातुभिः ॥ ४६ ॥
कचिदिति ॥ गेयतानरतौ – तानो नाम गायतोऽन्यस्यान्येन वेण्वादिकृत्य श्रुत्याद्यनुग्रहः ॥ ४५ – ४६ ॥
पर्णशय्यासु संसुप्तौ क्वचिन्निद्रान्तरैषिणौ ।
क्वचिद्गर्जति जीमूते हाहाकाररवाकुलौ ॥ ४७ ॥
पर्णशय्यास्वति ॥ निद्रान्तरैषिणौ – निद्रार्थमवकाशार्थिनौ ॥ ४७ ॥
गायतामन्य गोपानां प्रशंसापरमौ क्वचित् ।
मयूरकेकानुगतौ गोपवेणुप्रवादकौ ॥ ४८ ॥
इति नानाविधैर्भावैरुत्तमप्रीतिसंयुतौ ।
क्रीडन्तौ तौ वने तस्मिञ्चेरतुस्तुष्टमानसौ ॥ ४९ ॥
गायतामिति ॥ केकानुगतौ – तारध्वन्यनुगतौ । तदुक्तम् तारं तु विद्यात्सवनं तृतीयं शिरोगतं तच्च सदा प्रयोग्यम् । मयूरहंसान्यभृतस्वराणां तुल्येन नादेन शिरः स्थितेन इति ॥ ४८, ४९ ॥
विकाले च समं गोभिर्गोपवृन्दसमन्वितौ ।
विहृत्याथ यथायोगं व्रजमेत्य महाबलौ ॥ ५० ॥
गोपैः समानैः सहितौ क्रीडन्तावमराविव ।
एवं तावूषतुस्तत्र रामकृष्णौ महाद्युती ॥ ५१ ॥
विकाले चेति ॥ विकाले – रात्रावपि ॥ ५०, ५१ ॥
इति श्रीविष्णुमहापुराणे पञ्चमांशे षष्ठोध्यायः ॥ ६ ॥