अथ पञ्चमांशे तृतीयोऽध्यायः
श्रीपराशर उवाच
एवं संस्तूयमाना सा देवैर्देवमधारयत् ।
गर्भेण पुण्डरीकाक्षं जगतस्त्राणकारणम् ॥ १ ॥
ततोऽखिलजगत्पद्मबोधायाच्युतभानुना ।
देवकीपूर्वसंध्यायाम् आविर्भूतं महात्मना ॥ २ ॥
॥ १,२ ॥
तज्जन्मदिनमत्यर्थमाह्लाद्यमलदिङ्मुखम् ।
बभूव सर्वलोकस्य कौमुदी शशिनो यथा ॥ ३ ॥
संतःसंतोषमधकं प्रशमं चण्डमारुताः ।
प्रसादं निम्नगा याता जायमाने जनार्दने ॥ ४ ॥
सिंधवो निजशब्देन वाद्यं चक्रुर्मनोहरम् ।
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥ ५ ॥
ससृजुः पुष्पवर्षाणि देवा भुव्यन्तरिक्षगाः ।
जज्वलुश्चाग्नयः शान्ता जायमाने जनार्दने ॥ ६ ॥
मदं जगर्जुर्जलदाः पुष्पवृष्टिमुचो द्विज ।
अर्धरात्रेऽखिलाधारे जायमाने जनार्दने ॥ ७ ॥
फुल्लेन्दीवरपत्राभं चतुर्बाहुमुदीक्ष्य तम् ।
श्रीवत्सवक्षसं जातं तुष्टावानकदुन्दुभिः ॥ ८ ॥
अभिष्टूय च तं वाग्भिः प्रसन्नाभिर्महामतिः ।
विज्ञापयामास तदा कंसाद्भीतो द्विजोत्तम ॥ ९ ॥
वसुदेव उवाच
जातोऽसि देवदेवेश शङ्खचक्रगदाधरम् ।
दिव्यरूपमिदं देव प्रसादेनोपसंहर ॥ १० ॥
अद्यैव देव कंसोऽयं कुरुते मम घातनम् ।
अवतीर्ण इति ज्ञात्वा त्वमस्मिन्मममन्दिरे ॥ ११ ॥
तज्जन्मेति ॥ आह्लादि – आह्लादकम् ॥ ३ – ११ ॥
देवक्युवाच
योऽनन्तरूपोऽखिलविश्वरूपो गर्भेऽपि लोकान्वपुषा बिभर्ति ।
प्रसीतदामेष स देवदेवो यो माययाऽविष्कृतबालरूपः ॥ १२ ॥
य इति ॥ अखिलविश्वरूपः – अखिलजगद्रूपः । गर्भेऽपि – गर्भस्थितोऽपि । मायया – आश्चर्यरूपया शतया ॥ १२ ॥
उपसंहर सर्वात्मन् रूपमेतच्चतुर्भुजम् ।
जानातु माऽवतारं ते कंसोऽयं दितिजन्मजः ॥ १३ ॥
उपसंहरेति ॥ दितिजन्मजः – दितिजन्मा दैत्यः, तस्माज्जातः । द्रमिडाख्येन दैत्येनोप्रसेनस्य वेष – वरेण तद्भार्यायां चौर्येणोत्पादितः कंस इति हरिवंशोक्तेः ॥ १३ ॥
श्रीभगवानुवाच
स्तुतोऽहं यत्त्वया पूर्वं पुत्रार्थिन्या तदद्य ते ।
सफलं देवि संजातं जातोऽहं यत्तवोदरात् ॥ १४ ॥
श्रीपराशर उवाच
इत्युक्त्वा भगवांस्तूष्णीं बभूव मुनिसत्तम ।
वसुदेवोऽपि तं रात्रावादाय प्रययौ बहिः ॥ १५ ॥
मोहिताश्चाभवंस्तत्र रक्षिणो योगनिद्रया ।
मथुराद्वारपालाश्च व्रजत्यानकदुन्दुभौ ॥ १६ ॥
स्तुत इति । पूर्वं–स्वायंभुवे मन्वन्तरे । युवयोः पृश्निसुतपस्त्वे पृश्निगर्भः स एवादितिकाश्यप – रोर्वामनः, देवकीवसुदेवत्वे कृष्ण इति जातोऽहम् । इत्थं भागवतोक्तम् । कृष्णस्य चतुर्भुजरूपोपसंहारोक्त्या कवसबधान्तं द्विभुजत्वोपलब्धिः। परमार्थतस्तु चतुर्भुजत्वमेव, नरकशिशुपालपौण्ड्क बधादिषु प्रसिद्धेः॥ १४ – १६
वर्षतां जलदानां च तोयमात्युल्बणं निशि ।
संवृत्यानुययौ शेषः फणैरानकदुन्दुभिम् ॥ १७ ॥
वर्षतामिति ॥ अत्युल्बणम् – अतिशब्दम् ॥ १७ ॥
यमुनां चातिगंभीरां नानावर्तशताकुलाम् ।
वसुदेवो वहन्विष्णुं जानुमात्रवहां ययौ ॥ १८ ॥
यमुनामिति ॥ जानुमात्रवहामित्यत्र हेतुः – – वहन् विष्णुमिति ॥ १८ ॥
कंसस्य करदानाय तत्रैवाभ्यागतांस्तटे ।
नन्दादीन्गोपवुद्धांश्च यमुनाया ददर्श सः ॥ १९ ॥
तस्मिन्काले यशोदाऽपि मोहिता योगनिद्रया ।
तामेव कन्यां मैत्रेय प्रसूता मोहिते जने ॥ २० ॥
वसुदेवोऽपि विन्यस्य बालमादाय दारिकाम् ।
यशोदाशयनात्तूर्णमाजगामामितद्युतिः ॥ २१ ॥
ददृशे च प्रबुद्धा सा यशोदा जातमात्मजम् ।
नीलोत्पलदलश्यामं ततोऽत्यर्थं मुदं ययौ ॥ २२ ॥
आदाय वसुदेवोऽपि दारिकां निजमन्दिरे ।
देवकीशयने न्यस्य यथापूर्वमतिष्ठत ॥ २३ ॥
ततो बालध्वनिं श्रुत्वा रक्षिणः सहसोत्थिताः ।
कंसायावेदयामासुर्देवकीप्रसवन् द्विज ॥ २४ ॥
कंसस्तूर्णमुपेत्यैनां ततो जग्राह बालिकाम् ।
मुञ्चमुञ्चेति देवक्या सन्नकण्ठ्या निवारितः ॥ २५ ॥
चिक्षेप च शिलापृष्ठे सा क्षिप्ता वियति स्थिता ।
अवाप रूपं सुमहत्सायुधाष्टमहाभुजम् ॥ २६ ॥
कंसस्येति ॥ नन्दादीन् ददर्श, स्वयं तैरदृष्टः ॥ १९ – २६ ॥
प्रजहास तथैवोच्चैः कंसं च रुषिताऽब्रवीत् ।
किं मया क्षिप्तया कंस जातो यस्त्वां वधिष्यति ॥ २७ ॥
प्रजहासेति ॥ यस्त्वां वषिष्यति स जात इत्यन्वयः ॥ २७ ॥
सर्वस्वभूतो देवानामासीन्मृत्युः पुरा स ते ।
तदेतत्संप्रधार्याशु क्रियतां हितमात्मनः ॥ २८ ॥
इत्युक्त्वा प्रययौ देवी दिव्यस्रग्गन्धभूषणा ।
पश्यतो भोजराजस्य स्तुता सिद्धैर्विहायसा ॥ २९ ॥
सर्वस्वभूत इति ॥ पुरा– कालनेमित्वे ॥ २८,२९ ॥
इति श्रीविष्णुमहापुराणे पञ्चमांशे तृतीयोऽध्यायः ॥ ३ ॥