पञ्चमांशेद्वितीयोऽध्यायः
श्रीपराशर उवाच
यथोक्तं सा जगद्धात्रा देवदेवेन वै तथा ।
षड्गर्भगर्भविन्यासं चक्रे चान्यस्य कर्षणम् ॥ १ ॥
यथोक्तमिति ॥ षङ्गर्भाख्यानां गर्भे– देवक्या उदरे निक्षेपम्, अन्यस्य – शेषाख्यस्य सप्तमगर्भस्य तज्जठरात् कर्षणम् ॥ १ ॥
सप्तमे रोहिणीं गर्भे प्राप्ते गर्भं ततो हरिः ।
लोकत्रयोपकाराय देवक्याः प्रविवेश ह ॥ २ ॥
योगनिद्रा यशोदायास्तस्मिन्नेव तथा दिने ।
संभूता जठरे तद्वद्यथोक्तं परमेष्ठिना ॥ ३ ॥
ततो ग्रहगणःसम्यक्प्रचचार दिवि द्विज ।
विष्णोरंशे भुवं याते ऋतवश्चाबभुश्शुभाः ॥ ४ ॥
न सेहे देवकीं द्रष्टं कश्तिदप्यतितेजसा ।
जाज्वल्यमानां तां दृष्ट्वा मनांसि क्षोभमाययुः ॥ ५ ॥
अदृष्टाः पुरुषैः स्त्रीभिर्देवकीं देवतागणाः ।
बिभ्राणां वपुषा विष्णुं तुष्टुवुस्तामहर्निशम् ॥ ६ ॥
सप्तम इति ॥ गर्भ इतो रोहिणीं प्राप्ते देवक्या गर्भं हरिः प्रविवेश ॥ २ – ६ ॥
देवता ऊचुः
प्रकृतिस्त्वं परा सूक्ष्मा ब्रह्मगर्भाऽभवत्पुरा ।
ततो वाणी जगद्धातुर्वेदगर्भाऽसि शोभने ॥ ७ ॥
सृज्यस्वरूपगर्भाऽसि सृष्टिभूता सनातने ।
बीजभूता तु सर्वस्य यज्ञभूता भवस्त्रयी ॥ ८ ॥
फलगर्भा त्वमेवेज्या वह्निगर्भा तथारणिः ।
अदितिर्देवगर्भा त्वं दैत्यगर्भा तथा दितिः ॥ ९ ॥
प्रकृतिरिति ॥ ब्रह्मगर्भा आत्मगर्भा । यद्वा ब्रह्मशब्दों महद्वाची या पुराऽभवत् सा त्वमित्यन्वयः । जगद्धातुः संबन्धिनी । वेदगर्भा वाणी – प्रणवः ॥ ७ – ९ ॥
ज्योत्स्ना वासरगर्भा त्वं ज्ञानगर्भाऽसि सन्नतिः ।
नयगर्भा परा नीतिर्लज्जा त्वं प्रश्रयोद्वहा ॥ १० ॥
ज्योत्स्नेति ॥ ज्योत्स्ना—प्रासंध्या । सत्सु नतिः सन्नतिः, शुश्रूषा । नीतेः – नीतिशास्त्रं, तत्साध्यो न्यायो नयः ॥ १० ॥
कामगर्भा तथेच्छा त्वं तुष्टिः संतोषगर्भिणी ।
मेधा च बोधगर्भाऽसि धैर्यगर्भोद्वहा धृतिः ॥ ११ ॥
कामगर्भेति ॥ कामः – काम्योऽर्थः । तुष्टिस्तृप्तिः, तज्जन्यो हर्षस्संतोषः । मेधा – धारणाशक्तिः । धृतिः—धीप्रतिष्ठा । धैर्यम् – अलौल्यम् ॥ ११ ॥
ग्रहर्क्षतारकागर्भा द्यौरस्यखिलहैतुकी ।
एता विभूतयो देवि तथाऽन्याश्च सहस्रशः ॥ १२ ॥
प्रहर्क्षेति ॥ हेतुरेव हेतुकी। एता इति । एताः प्रकृत्यादयो विभूतयः, अन्याश्च ॥ १२ ॥
तथा संख्या जगद्धात्री सांप्रतं जठरे तव ।
समुद्राद्रिनदीद्वीपवनपत्तनभूषणा ।
ग्रामखर्वटखेटाढ्या समस्ता पृथिवी शुभे ॥ १३ ॥
समस्तवह्नयोंऽभांसि सकलाश्च समीरणाः ।
महोरगास्तथा यक्षा राक्षसाः प्रेतगुद्यकाः ॥ १४ ॥
ग्रहर्क्षतारकाचित्रविमानशतसंकुतम् ।
अवकाशमशेषस्य यद्ददाति नभस्थलम् ॥ १५ ॥
भूलोकश्च भुवर्लोकःस्वर्लोकोऽथ महर्जनः ।
तपश्च ब्रह्मलोकश्च ब्रह्माण्डमखिलं शुभे ॥ १६ ॥
तदन्तरे स्थिता देवा दैत्यगन्धर्वचारणाः ।
महोरगास्तथा यक्षा राक्षसाः प्रेतगुह्यकाः ॥ १७ ॥
मनुष्याः पशवश्चान्ये ये च जीवा यशस्विनि ।
तैरन्तस्थैरनन्तोऽसौ सर्वगः सर्वभावनः ॥ १८ ॥
तथेति ॥ असंख्या जगद्धात्री च तव जठरे ! इदं प्रकृत्यादिभिः तत्सामानाधिकरण्य निबंधनम् ॥ १३ – १८॥
(रूप) नामकर्मस्वरूपाणि न परिच्छेदगोचरे ।
यस्याखिलप्रमाणानां स विष्णुर्गर्भगस्तव ॥ १९ ॥
नामकर्मेति ॥ नामादेः प्रमाणानां परिच्छेदागोचरत्वमनवधित्वम् । प्रमाणानीति पाठे, यस्य विभूत्यादेः ज्ञापकानीत्यर्थः ॥ १९ ॥
त्वं स्वाहा त्वं स्वधा विद्या स्वधा त्वं ज्योतिरंबरे ।
त्वं सर्वलोकरक्षार्थमवतीर्णा महीतले ॥ २० ॥
त्वमिति ॥ ज्योतिरम्बर इति । अत्र ज्योतिश्शब्देन अदितिर्द्योरदितिरन्तरिक्षम् इति मन्त्रोक्ता – दितिरुच्यते । सुरम्यदितिभ्यां प्रलोमितः काश्यपो वरुणस्य गां जहार । ततः कुपितेन ब्रह्मणा गोपो भवेति शप्तोऽसौ वसुदेवत्वं गतो गवाध्यक्षोऽभूत् । अदितिर्देवकी सुरभिः रोहेणीति हि हरिवंशे कथा ॥ २० ॥
प्रसीद देवि सर्वस्य जगतश्शं शुभे कुरु ।
प्रीत्या तं धारयेशानं धृतं येनाखिलं जगत् ॥ २१ ॥
प्रसीदेति ॥ प्रीत्या धारय – मातुः प्रीत्या हि गर्भस्य गुणपोषः ॥ २१ ॥
इति श्रीविष्णुमहापुराणे पञ्चमांशे द्वितीयोऽध्यायः ॥ २ ॥