२१

चतुर्थांश एकविंशोऽध्यायः

श्रीपराशर उवाच

अतः परं भविष्यानहं भूपालान्कीर्तयिष्यामि ॥ १ ॥

योऽयं सांप्रतमवनीपतिः परीक्षित्तस्यापि जनमेजयश्रुतसेनोग्रसेनभीमसेनाश्चत्वारः पुत्रा भविष्यन्ति ॥ २ ॥

जनमेजयस्यापि शतानीको भविष्यति ॥ ३ ॥

॥ १-३ ॥

योऽसौ याज्ञवल्क्याद्वेदमधीत्य कृपादस्त्राण्यवाप्य विषमविषयविरक्तचित्तवृत्तिश्च शौनकोपदेशादात्मज्ञानप्रवीणः परं निर्वाणमवाप्स्यति ॥ ४ ॥

शतानीकादश्वमेधदत्तो भविता ॥ ५ ॥

तस्मादप्यचधिसीमकृष्णः ॥ ६ ॥

अधिसीमकृष्णान्निचक्नुः ॥ ७ ॥

यो गङ्गयाऽपहृते हस्तिनपुरे कौशांब्यां निवत्स्यति ॥ ८ ॥

तस्याप्युष्णः पुत्रो भविता ॥ ९ ॥

उष्णाद्विचित्ररथः ॥ १० ॥

ततः शुचिरथः ॥ ११ ॥

तस्माद्वृष्णिमांस्ततःसुषेणस्तस्यापि सुनीथःसुनीथान्नृपचक्षुस्तस्मादपि सुखिबलस्तस्य च पारिप्लवस्ततश्च सुनयस्तस्यापि मेधावी ॥ १२ ॥

मेधाविनो रिपुञ्जयस्ततोर्वस्तस्माच्च तिग्मस्तस्माद्बृहद्रथः बृहद्रथाद्वसुदासः ॥ १३ ॥

ततोऽपरः शतनीकः ॥ १४ ॥

तस्माच्चोदयन उदयनाद्विहीनरस्ततश्च दण्डपाणिस्ततो निमित्तः ॥ १५ ॥

तस्माच्च क्षेमकः ॥ १६ ॥

अत्रायं श्लोकः ॥ १७ ॥

योऽसाविति ॥ शौनकोपदेशः –विष्णुधर्मोक्तभक्तिज्ञानयोगविधिः ॥ ४-१७ ॥

ब्रह्मक्षत्रस्य यो योनिर्वंशो देवर्षिसत्कृतः ।
क्षेमकं प्राप्य राजानं संस्थानं प्राप्यते कलौ ॥ इति ॥ १८ ॥

ब्रह्मक्षत्रस्येति ॥ संस्थानं – समाप्तिम् ॥ १८ ॥

इति श्रीविष्णुमहापुराणे चतुर्थांश एकविंशोऽध्यायः २१