चतुर्थांशे विंशोऽध्यायः
श्रीपराशर उवाच
परीक्षितश्च जनमेजयश्रुतसेनोग्रसेनभीमसेनाश्चात्वारः पुत्राः ॥ १ ॥
जह्नोस्तु सुरथोनामात्मजो बभूव ॥ २ ॥
तस्यापि विदूरथः ॥ ३ ॥
तस्मात्सार्वभोमःसार्वभौमाज्जयत्सेनस्तस्मादाराधितस्ततश्चायुतायुरयुतायोरक्रोधनः ॥ ४ ॥
तस्माद्देवातिथिः ॥ ५ ॥
ततश्च ऋक्षोऽन्योभवत् ॥ ६ ॥
ऋक्षाद्भीमसेनस्ततश्च दिलीपः ॥ ७ ॥
दिलीपात्प्रतीपः ॥ ८ ॥
तस्यापि देवापिशन्तनुबाह्लीकसंज्ञास्त्रयः पुत्रा बभूवुः ॥ ९ ॥
देवापिर्बाल एवारण्यं विवेश ॥ १० ॥
शन्तनुस्तु महीपालोऽभूत् ॥ ११ ॥
अयं च तस्य श्लोकः पृथिव्यां गीयते ॥ १२ ॥
यंयं कराभ्यां स्पृशति वीर्णं यौवनमेति सः ।
शान्तिं चाप्नोति येनाग्र्यां कर्मणा तेन शन्तनुः ॥ १३ ॥
तस्य च शन्तनो राष्ट्रे द्वादशवर्षाणि देवो न ववर्ष ॥ १४ ॥
ततश्चाशेषराष्ट्रविनाशमवेक्ष्यासौ राजा ब्राह्मणानपृच्छत्कस्मादस्माकं राष्ट्रे देवो न वर्षति को ममापराध इति ॥ १५ ॥
ततश्च तमूचुर्ब्राह्मणाः ॥ १६ ॥
अग्रजस्य ते हीयमवनिस्त्वया संभुज्यते अतः परिवेत्ता त्वमित्युक्तःस राजा पुनस्तानपृच्छत् ॥ १७ ॥
किं मयात्र विधेयमिति ॥ १८ ॥
ततस्ते पुनरप्यूचुः ॥ १९ ॥
यावद्देवापिर्न पतनादिभिर्देषैरभिभूयते तावदेतत्तस्यार्हं राज्यम् ॥ २० ॥
तदलमेतेन तु तस्मै दीयतामित्युक्ते तस्यं मन्त्रिप्रवरेणाश्मराविणा तत्रारण्ये तपस्विनो वेदवादविरोधवक्तारः प्रयुक्ताः ॥ २१ ॥
तैरस्याप्यतिऋजुमतेर्महीपतिपुत्रस्य बुद्धिर्वेदवादविरोधमार्गानुसारिण्यक्रियत ॥ २२ ॥
राजा च शन्तनुर्द्विजवचनोत्पन्नपरिदेवनशोकस्तान् ब्राह्मणानग्रतः कृत्वाग्रजस्य प्रदानायारण्यं जगाम ॥ २३ ॥
तदाश्रममुपगताश्च तमवनतमवनीपतिपुत्रं देवापिमुपतस्थुः ॥ २४ ॥
ते ब्राह्मणा वेदवादानुबन्धीनि वचांसि राज्यमग्रजेन कर्तव्यमित्यर्थवन्ति तमूचुः ॥ २५ ॥
परीक्षित इति ॥ परीक्षितः कुरुपुत्रात् ॥ १-२५ ॥
असावपि देवापिर्वेदवादविरोधयुक्तिदूषितमनेकप्रकारं तानाह ॥ २६ ॥
ततस्ते ब्राह्मणाः शन्तनुमूचुः ॥ २७ ॥
आगच्छ हे राजन्नलमत्रातिनिर्बधेन । प्रशान्त एवासावनावृष्टिदोषः । पतितोऽयमनादिकालमभिहितवेदवचनदूषणोच्चरणात् ॥ २८ ॥
पतिते चाग्रजे नैव ते परिवेतृत्वं भवतीत्युक्तः शन्तनुःस्वपुरमागम्य राज्यमकरोत् ॥ २९ ॥
वेदवादविरोधवचनोच्चारणदूषिते च तस्मिन्देवापौ तिष्ठत्यपि ज्येष्ठभ्रातर्यखिलसस्यनिष्पत्तये ववर्ष भगवान्पर्जन्यः ॥ ३० ॥
बाह्लीकात्सोमदत्तः पुत्रोऽभूत् ॥ ३१ ॥
सोमदत्तस्यापि भूरिभूरिश्रवशल्यसंज्ञास्त्रयः पुत्रा बभूवुः ॥ ३२ ॥
शन्तनोरप्यमरनद्यां जाह्नव्यामुदारकीर्तिरशेषशास्त्रर्थविद्भीष्मः पुत्रोऽभूत् ॥ ३३ ॥
सत्यवत्यां च चित्राङ्गदविचित्रवीर्यौ द्वौ पुत्रावुत्पादयामास शन्तनुः ॥ ३४ ॥
चित्राङ्गदस्तु बाल एव चित्राङ्गदेनैव गन्धर्वोणहवे निहतः ॥ ३५ ॥
विचित्रवीर्योऽपि काशीराजतनये अंबांवालिके उपयेमे ॥ ३६ ॥
तदुपभोगातिखेदाच्च यक्ष्मणा गृहीतः स पञ्चत्वमगमत् ॥ ३७ ॥
असाविति ॥ वेदवादविरोधयुक्तिभिः तेषां वचो यथा दूषितं भवति तथाऽनेकप्रकार तानाह।
देवापेस्तत्कालमेव पातित्यं योगसिद्धया आगामिकृतयुगे क्षत्रवंशकृत्वेन वक्ष्यमाणत्वात् । यद्देवापिः शंतनवे पुरोहितमिति मंत्रप्रस्तुतं तत्कल्पांतरविषयं नेतन्यम् ॥ २६-३७ ॥
सत्यवतीनियोगाच्च मत्पुत्रः कृष्णद्वैपायनो मातुर्वचनमनतिक्रमणीयमिति कृत्वा विचित्रवीर्यक्षेत्रे धृतराष्ट्रपाण्डु तत्प्रहितभुजिष्यायां विदुरं चोत्पादयामास ॥ ३८ ॥
धतराष्ट्रोऽपि गान्धार्यां दुर्योधनदुः शासनप्रधानं पुत्रशतमुत्पादयामास ॥ ३९ ॥
सत्यवतीति ॥ मुजिष्या-दासी, तस्याम् ॥ ३८-३९ ॥
पाण्ढोरप्यरण्ये मृगयायामृषिशापोपहतप्रजाजननसामर्थ्यस्य धर्मवायुशक्रैर्युधिष्ठिरभीमसेनार्जुनाः कुन्त्यां नकुलसहदेवौ चाश्विभ्यां माद्रयां पञ्चपुत्राःसमुत्पादिताः ॥ ४० ॥
तेषां च द्रौपद्यां पञ्चैव पुत्रा बभूवुः ॥ ४१ ॥
युधिष्ठिरात्प्रतिविन्ध्यः भीमसेनाच्छुतसेनः श्रुतकीर्तिरर्जुनाच्छुतानीको नकुलाच्छुतकर्मा सहदेवात् ॥ ४२ ॥
अन्ये च पाण्डवानामात्मजास्तद्यथा ॥ ४३ ॥
यौधेयी युधिष्छिराद्देवकं पुत्रमवाप ॥ ४४ ॥
हिडिंबा घटोत्कचं भीमसेनात्पुत्रं लेभे ॥ ४५ ॥
काशी च भीमसेनादेव सर्वगं सुतमवाप ॥ ४६ ॥
सहदेवाच्च विजयी कुहोत्रं पुत्रमवाप ॥ ४७ ॥
रेणुमत्यां च नकुलोऽपि निरमित्रमजीजनत् ॥ ४८ ॥
अर्जुनस्याप्युलूप्यां नागकन्यायामिरावान्नाम पुत्रोऽभवत् ॥ ४९ ॥
पांडोरिति ॥ पूर्वं यदुवंशशूरदुहितृकुंतीप्रसंगात् पांडवजन्मोक्तम् इदानीं पुरुवंश्यशंतनुपुत्रसंततिप्राप्तत्वात् पुनर्विस्तृत्त्योक्तम् । महत्वादर्जुनसंतानोंऽन्ते प्रोक्तः ॥ ४०–४९ ॥
मणीपुरपतिपुत्र्यां पुत्रिकाधर्मेण बभ्रुवाहनं नाम पुत्रमर्जुनोऽजनयत् ॥ ५० ॥
सुभद्रायां चार्भकत्वेऽपि योऽसावतिबलपराक्रमःसमस्तारातिरथजेता सोऽभिमन्युरजायत ॥ ५१ ॥
अभिमन्योरुत्तरायां परिक्षीणेषु कुरुष्वश्वत्थामप्रयुक्तब्रह्मस्त्रेण गर्भ एव भस्मीकृतो भगवतः सकलसुरासुरवन्दितचरणयुगलस्यात्मेच्छया कारणमानुषरूपधारीणोऽनुभावात्पुनर्जीवितमवाप्य परीक्षिज्जज्ञे ॥ ५२ ॥
मणिपुरपतीति ॥ पुत्रिकाधर्मेण अस्यां यो जायते पुत्रस्स मे पुत्रो भविष्यति इति परिभाषितदानेन ॥ ५०-५२ ॥
योऽयं सांप्रतमेतद्भूमण्डलमखण्डितायति धर्मेण पालयतीति ॥ ५३ ॥
य इति ॥ आयतिः – धनागमः ॥ ५३ ॥
इति श्रीविष्णुमहापुराणे चतुर्थांशे विंशोऽध्यायः २०