१८

चतुर्थांशेऽष्टादशोऽध्यायः

श्रीपराशर उवाच

ययातेश्चतुर्थपुत्रस्यानोःसभानलचक्षुः परमेषुसंज्ञास्त्रयः पुत्राः बभूवुः ॥ १ ॥

सभानलपुत्रः कालानलः ॥ २ ॥

कालानलात्सृंजयः ॥ ३ ॥

सृंजयात्पुरञ्जयः ॥ ४ ॥

पुरञ्जयाज्जनमेजयः ॥ ५ ॥

तस्मान्महाशालः ॥ ६ ॥

तस्माच्च महामनाः ॥ ७ ॥

तस्मादुशीनरतितीक्षू द्वौ पुत्रावुत्पन्नौ ॥ ८ ॥

उशीनरस्यापि शिबिनृगनवकृमिवर्माख्याः पञ्च पुत्रा बभूवुः ॥ ९ ॥

पृषदर्भसुवीरकेकयमद्रकाश्चत्वारः शिबिपुत्राः ॥ १० ॥

तितीक्षोरपि रुशद्रथः पुत्रोऽभूत् ॥ ११ ॥

तस्यापि हेमः हेमस्यापि सुतपाः सुतपसश्च बलिः ॥ १२ ॥

॥ १-१२ ॥

यस्य क्षेत्रे दीर्घतमसांगवङ्गकलिङ्गसुह्यपौण्ड्राख्यं बालेयं क्षत्रमजन्यत ॥ १३ ॥

तन्नामसंततिसंज्ञाश्च पञ्चविषयाः बभूवुः ॥ १४ ॥

अङ्गादनपानस्ततो दिविरथस्तस्माद्धर्मरथः ॥ १५ ॥

ततश्चित्ररथः रोमपादसंज्ञः ॥ १६ ॥

यस्य दशरथो मित्रं जज्ञे ॥ १७ ॥

यस्याजपुत्रो दशरथः शान्तां नाम कन्यामनपत्यस्य दुहितृत्वे युयोज ॥ १८ ॥

रोमपादाच्चतुरङ्गः तस्मात्पृथुलाक्षः ॥ १९ ॥

ततश्चंपः यश्चंपां निवेशायामास ॥ २० ॥

चंपस्य हर्यङ्गो नामात्मजोऽभूत् ॥ २१ ॥

हर्यङ्गाद्भद्ररथः भद्ररथाद्बृहद्रथः बृहद्रथाद्बृहत्कर्मा बृहत्कर्मणश्च वृहद्भानुस्तस्माच्च बृहन्मनाः बृहन्मनसो जयद्रथः ॥ २२ ॥

यस्येति । बालेयं , बलेः क्षेत्रजम् ॥ १३-२२ ॥

जयद्रथो ब्रह्मक्षत्रान्तरालसंभूत्यां पत्न्यां विजयं नाम पुत्रमजीजनत् ॥ २३ ॥

विजयश्च धृतिं पुत्रमवाप ॥ २४ ॥

तस्यापि धृतव्रतः पुत्रोऽभूत् ॥ २५ ॥

धृतव्रतात्सत्यकर्मा ॥ २६ ॥

सत्यकर्मणस्त्वतिरथः ॥ २७ ॥

जयद्रथ इति ॥ ब्रह्मक्षत्रांतरालसंभूत्यां-प्रातिलोम्येन ब्रह्मक्षत्रसंकरजातायां पत्न्यां बिजयाख्यं पुत्रमजीजनम् । अतो विजयायाः सूताः ॥ २३-२७ ॥

यो गङ्गाङ्गतो मञ्जूषागतं पृथापविद्धं कर्णं पुत्रमवाप ॥ २८ ॥

कर्णाद्वृषसेनः इत्येतदन्ता अङ्गवंश्याः ॥ २९ ॥

अतश्च पुरुवंशं श्रोतुमर्हसि ॥ ३० ॥

य इति ॥ पृथापविद्धं– पृथया- कुन्त्या, अपविद्धं – परित्यक्तम् । मातापितृभ्यामुत्सृष्टं तयोरन्यन्तरेण

वा । यं पुत्रं प्रतिगृह्णीयादपविद्धः स उच्यते ॥ इति स्मृतेः ॥ २८-३० ॥

इति श्रीविष्णुमहापुराणे चतुर्थांशेऽष्टादशोऽध्यायः १८