चतुर्थांऽशे अष्टमोऽध्यायः
श्रीपराशर उवाच
रजेस्तु पञ्च पुत्रशतान्यतुलबलपराक्रमसाराण्यासन् ॥ १ ॥
देवासुरसंग्रामारम्भे च परस्परवधेप्सवो देवाश्चासुराश्च ब्रह्माणमुपेत्य पप्रच्छुः ॥ २ ॥
भगवन्नस्माकमत्र विरोधे कतरः पक्षो जेता भविष्यतीति ॥ ३ ॥
अथाह भगवान् ॥ ४ ॥
येषामर्थे रजिरात्मात्तायुधो योत्स्यति तत्पक्षो जेतेति ॥ ५ ॥
अथ दैत्यैरुपेत्य रजिरात्मसाहाय्यदानायाभ्यर्थितः प्राह ॥ ६ ॥
योत्स्येऽहं भवतामर्थे यद्यहममरजयाद्भवतामिन्द्रो भविष्यामीति आकर्ण्यैतत्तैरभिहितम् ॥ ७ ॥
न वयमन्यथा वदिष्यामोऽन्यथा करिष्यामोऽस्माकमिन्द्रः प्रह्लादस्तदर्थमेवायमुद्यम इत्युक्त्वा गतेश्वसुरेषु देवैरप्यसाववनिपतिरेवमेवोक्तस्तेनापि च तथैवोक्ते देवैरिन्द्रस्त्वं भविष्यसीति समन्विच्छितम् ॥ ८ ॥
रजिनाऽपि देवसैन्यसहायेनानेकैर्महास्त्र स्तदशेषमसुरबलं निषूदितम् ॥ ९ ॥
अथ जितारिपक्षश्च देवेन्द्रो रजिचरणयुगलमात्मनः शिरसा निपीड्याह ॥ १० ॥
भयत्राणादन्नदानाद्भवानस्पत्पिताऽशेषलोकानामुत्तमोत्तमो भवान् यस्याहं पुत्रस्त्रिलोकेन्द्रः ॥ ११ ॥
स चापि राजा प्रहस्याह ॥ १२ ॥
रजेरिति । सारः-स्थैर्यम् ॥ १-१२ ॥
एवमस्त्वेवमस्त्वनतिक्रमणीया हि वैरिपक्षादप्यनेकविधचाटुवाक्यगर्भा प्रणतिरित्युक्त्वा स्वपुरं जगाम ॥ १३ ॥
शतक्रतुरपीन्द्रत्वं चकार ॥ १४ ॥
एवमिति ॥ प्रणतिरनतिक्रमणीय प्रणतादाज्य न ग्राह्यमिति राजधर्मः ॥ १३,१४॥
स्वर्याति तु रजौ नारदर्शिचोदिता रजिपुत्राश्शतक्रतुमात्म पितृपुत्रं समाचाराद्राज्यं याचितवन्तः ॥ १५ ॥
अप्रदानेन च विजित्येन्द्रमतिबलिनः स्वयमिन्द्रत्वं चक्रुः ॥ १६ ॥
ततश्च बहुतिथे काले ह्यतीते बृहस्पतिमेकान्ते दृष्ट्वा अपहृतत्रैलोक्ययज्ञभागः शतक्रतुरुवाच ॥ १७ ॥ बदरीफलमात्रमप्यर्हस ममाप्यायनाय पुरोडाशखण्डं दातुमित्युक्तो बृहस्पतिरुवाच॥ १८ ॥
स्वर्यात इति ॥ आचारात्- पितृदायादन्यायात ॥ १५-१८ ॥
यद्येवं त्वयाऽहं पूर्वमेव चोदितस्स्यां तन्मया त्वदर्थ किमकर्त्तव्यमित्यल्पैरेवाहोभिस्त्वां निजं पदं प्रापयिष्यामीत्यभिधाय तेषामनुदिनमाभिचारकं बुद्धिमोहाय शक्रस्य तेजोऽभिवृद्धये जुहाव ॥ १९ ॥
ते चापि तेन बुद्धिमोहेनाभिभूयमाना ब्रह्मद्विषो धर्मत्यागिनो वेदवादपराङ्मुखा बभूवुः ॥२० ॥
ततस्तानपेतधर्माचारानिन्द्रो बभूवुः जघान ॥ २१ ॥
पुरोहिताप्यायिततेजाश्च शक्रो दिवमाक्रमत् ॥ २२ ॥
एतदिन्द्रस्य स्वपदच्यवनादारोहणं श्रुत्वा पुरुषः स्वपदभ्रंशं दौरात्म्यं च नाप्नोति ॥ २३ ॥
रम्भस्त्वनपत्योऽभवत् ॥ २४ ॥
पुरोधसाऽपि यजमानचोदितेनैव काम्यं कर्म कर्तव्यं न त्वन्यथा, तदिच्छाया अज्ञातत्वादित्यभि-
प्रेत्याह-यद्येवमिति ॥ १९-२४ ॥
क्षत्रवृद्धसुतः प्रतिक्षत्रोऽभवत् ॥ २५ ॥
तत्पुत्रः सञ्जयः तस्यापि जयस्तस्यापि विजयस्तस्माच्च जज्ञे कृतः ॥ २६ ॥
तस्य च हर्यधनो हर्यधनसुतस्सहदेवस्तस्माददीनस्तस्य जयत्सेनस्ततश्च संस्कृतिस्तत्पुत्रः क्षत्रधर्मा इत्येते
क्षत्रवृद्धस्य वंश्याः ॥ २७ ॥
ततो नहुषवंशं प्रवक्ष्यामि ॥ २८ ॥
पूर्वं क्षत्रवृद्धात्सुहोत्रो गृत्समदाद् द्विजातिवंशकृदुक्त; इह तु प्रतिक्षत्रः क्षत्रैकवंशकृदुच्यते क्षत्रवृद्धसुतः
प्रतिक्षत्रोऽभवदित्यादिना ॥ २५-२८ ॥
इति श्रीविष्णुपुराणे चतुर्थेऽशे नवमोऽध्यायः ॥ ९