चतुर्थांशेषष्ठोऽध्यायः
श्रीमैत्रेय उवाच
सूर्यस्य वंश्या भगवन्कथिता भवता मम ।
सोमस्याप्यखिलान्वंश्याञ्छ्रोतुमिच्छामि पार्थिवान् ॥ १ ॥
कीर्त्यते स्थिरकीर्तीनां येषामद्यापि सन्ततिः ।
प्रसादसुमुखस्तान्मे ब्रह्मन्नाख्यातुमर्हसि ॥ २ ॥
श्रीपराशर उवाच
श्रूयतां मुनिशार्दूल वंशः प्रथिततेजसः ।
सोमस्यानुक्रमात्ख्याता यत्रोर्वीपतयोऽभवन् ॥ ३ ॥
अयं हि वंशोऽतिबलपराक्रमद्युतिशीलचेष्टावद्भिरतिगुणान्वितैर्नहुषययातिकार्तवीर्यार्जुनादिभिर्भूपालैरलङ्कृः तमहं कथयामि श्रूयताम् ॥ ४ ॥
अखिलजगत्स्त्रष्टुर्भगवतो नारायणस्य नाभिसरोजसमुद्भवाब्जयोनेर्ब्रह्मणः पुत्रोऽत्रिः ॥ ५ ॥
अत्रेस्सोमः ॥ ६ ॥
तं च भगवानब्जयोनिः अशेषौषधिद्विजनक्षत्राणामाधिपत्येऽभ्यवेचयत् ॥ ७ ॥
स च राजसूयमकरोत् ॥ ८
तत्प्रभावादत्युत्कृष्टाधिपत्याधिष्ठातृत्वाचैनं मद आविवेश ॥ ९ ॥
मदावलेपाच्च सकलदेवगुरोर्बृहस्पतेस्तारां नाम पत्नीं जहार ॥ १० ॥
बहुशश्च बृहस्पतिचोदितेन भगवता ब्रह्मणा चोद्यमानः सकलैश्च देवर्षिभिर्याच्यमानोऽपि न मुमोच ॥ ११ ॥
कीर्त्यत इति ॥ अद्यापीत्यनेन पुराणोक्तवंशकालीनपरीक्षद्वंशप्रशंसा ॥ १-११॥
तस्य चन्द्रस्य च बृहस्पतेर्द्वेषादुशना पार्ष्णिग्राहोऽभूत् ॥ १२ ॥
तस्येति ॥ पार्ष्णिप्राहः— अनुचरः, सहाय इति यावत् ॥ १२ ॥
अङ्गिरसश्च सकाशादुपलब्धविद्यो भगवान्रुवो बृहस्पतेः साहाय्यमकरोत् ॥ १३ ॥
यतश्चोशना ततो जम्मकुम्भाद्याः नमस्ता एव दैत्यदानवनिकाया महान्तमुद्यमं चक्रुः ॥ १४ ॥
अंगिरस इति ॥ रुद्रः बृहस्पतेः साहाय्यमकरोत्, बृहस्पतेः आंगिरसत्वात् ॥ १३,१४ ॥
बृहस्पतेरपि सकलदेवसैन्ययुतः सहायः शक्रोऽभवत् ॥ १५ ॥
एवं च तयोरतीवोग्रसंग्रामस्तारानिमित्तस्तारकामयो नामाभूत् ॥ १६ ॥
ततश्च समस्तशस्त्राण्यसुरेषु रुद्रपुरोगमा देवाः देवेषु चाशेषदानवा मुमुचुः ॥ १७ ॥
एवं देवासुराहवसंक्षोभक्षुब्धहृदयमशेषमेव जगद्ब्राह्माणं शरणं जगाम ॥ १८ ॥
ततश्च भगवानब्जयोनिरप्युशनसं शङ्करमसुरान्देवांश्च निवार्य बृहस्पतये तारामदापयत् ॥ १९ ॥
तां चान्तः प्रसवामवलोक्य बृहस्पतिरप्याह ॥ २० ॥
बृहस्पतेरिति ॥ शक्रोऽभवत्सदायः ॥ १५-२० ॥
नैव मम क्षेत्रे भवत्यान्यस्य सुतो धार्यस्समुत्सृजैनमलमलमतिधाष्ट्येनेति ॥ २१ ॥
नेति । क्षेत्रे—बीजावापार्हे उदरे ॥ २१ ॥
सा च तेनैवमुक्ताऽतिपतिव्रता भर्तृवचनानन्तरं तमिषीकास्तम्बे गर्भमुत्ससर्ज ॥ २२ ॥
स चोत्सृष्टमात्र एवातितेजसा देवानां तेजांस्याचिक्षेप ॥ २३ ॥
बृहस्पतिमिन्दुं च तस्य कुमारस्यातिचारुतया साभिलाषौ दृष्ट्वा देवास्समुत्पन्नसन्देहास्तारां पप्रच्छुः ॥ २४ ॥
सत्यं कथयास्माकमिति सुधगे सोमस्याथ वा बृहस्पतेरयं पुत्र इति ॥ २५ ॥
एवं तैरुक्ता सा तारा हिया किञ्चिन्नोवाच ॥ २६ ॥
बहुशोऽप्यभिहिता यदासौ देवेभ्यो नाचचक्षे ततस्स कुमारस्तां शप्मुमुद्यतः प्राह ॥ २७ ॥
दुष्टेऽम्ब कस्मान्मम तातं नाख्यासि ॥ २८ ॥
सेति ॥ अतिपतिव्रतेति पदेन गर्भो बलादाहित इति गम्यते । इषीका-काशः ॥ २२-२८ ॥
अद्यैव ते व्यलीकलज्जावत्यास्तथा शास्तिमहं करोमि ॥ २९ ॥
अद्येति ॥ अलीकलज्जा मिथ्यालज्जा ॥ २९ ॥
यथा च नैवमद्याप्यतिमन्थरवचना भविष्यसीति ॥ ३०
अथाह भगवान् पितामहः तं कुमारं सन्निवार्य स्वयमपृच्छतां ताराम् ॥ ३१ ॥
कथय वत्से कस्यायमात्मजः सोमस्य वा बृहस्पतेर्वा इत्युक्ता लज्जमानाऽऽह सोमस्येति ॥ ३२ ॥
ततः प्रस्फुरच्छ्वसितामलकपोलकान्तिर्भगवानुडुपतिः कुमारमालिङ्ग्य साधु साधु वत्स प्राज्ञोऽसीति बुध
इति तस्य च नाम चक्रे ॥ ३३ ॥
तदाख्यातमेवैतत् स च स्थेलायामात्मजं पुरूरवसमुत्पादयामास ॥ ३४ ॥
यथेति ॥ मंथरा–बक्रहृदया, स्तब्धा वा ॥ ३०-३४ ॥
पुरूरवास्त्वतिदानशीलोऽतियज्वाऽतितेजस्वी यं सत्यवादिनमतिरूपवन्तं मनस्विनं मित्रावरुणशापान्मानुषे
लोके मया वस्तव्यमिति कृतमतिरुर्वशी ददर्श ॥ ३५ ॥
दृष्टमात्रे च तस्मिन्नपहाय मानमशेषमपास्य स्वर्गसुखाभिलाषं तन्मनस्का भूत्वा तमेवोपतस्थे ॥ ३६ ॥
पुरूरवास्विति ॥ अतिरूपस्विनमिति —अतिरूपमेव स्वं धनं तदस्यास्तीति ॥ ३५, ३६ ॥
सोऽपि च तापति शयितसकललोकस्त्रीकान्तिसौकुमार्यलावण्यगतिविलासहासादिगुणामवलोक्य तदायत चित्तवृत्तिर्बभूव ॥ ३७ ॥
स इति ॥ अतिशयिताः सकललोकस्त्रीणां कांत्यादिगुणाः यया ताम् । तथा च रूपके-मन्म-
थाप्यायितच्छाया शोभा कान्तिरुदाहृता । सौकुमार्यं मृदुत्वं च लावण्यं दीप्तिरुच्यते ॥ तात्कालिको विशेषस्तु
विलासोऽङ्गक्रियादिषु ॥ इति ॥ ३७ ॥
उभयमपि तन्मनस्कमनन्यदृष्टि परित्यक्तसमस्तान्यप्रयोजनमभूत् ॥ ३८ ॥
उभयमिति ॥ तन्मनस्कम् – उभयमनस्कं, परस्परमनस्कमित्यर्थः ॥ ३८ ॥
राजा तु प्रागल्भ्यात्तामाह ॥ ३९ ॥
राजेते ॥ प्रागल्भ्यं निस्साध्वसत्वम् ॥ ३९ ॥
सुभ्रु त्वामहमभिकामोऽस्मि प्रसीदानुरागमुद्वहेत्युक्ता लज्जावखण्डितमुर्वशी तं प्राह ॥ ४० ॥
भवत्वेवं यदि मे समयपरिपालनं भवान् करोतीत्याख्याते पुनरपि तामाह ॥ ४१ ॥
आख्याहि मे समयमिति ॥ ४२ ॥
अथ पृष्टा पुनरप्यब्रवीत् ॥ ४३ ॥
सुभ्विति । अनुरागमुद्वह, मयीति शेषः । लज्जाबखंडित-लज्जया मंथरं, सगद्गदमित्यर्थः ॥४०-४३॥
शयनसमीपे ममोरणकद्वयं पुत्रभूतं नापनेयम् ॥ ४४ ॥
भवांश्च मया न नग्नो द्रष्टव्यः ॥ ४५ ॥
घृतमात्रं च ममाहार इति ॥ ४६॥
एवमेवेति भूपतिरप्याह ॥ ४७ ॥
तया सह स चावनिपतिरलकायां चैत्ररथादि वनेष्वमलपद्मखण्डेषु मानसादिसरस्स्वतिरमणीयेषु रममाणः एकषष्टिवर्षासहस्राण्यनुदिनप्रवर्द्धमान प्रमोदोऽनयत् ॥ ४८ ॥
उर्वशी च तदुपभोगात्प्रतिदिनप्रवर्द्धमानानुरागा अमरलोकवासेऽपि न स्पृहां चकार ॥ ४९ ॥
विना चोर्वश्या सुरलोकोऽप्सरसां सिद्ध गन्धर्वाणां च नातिरमणीयोऽभवत् ॥ ५०
ततःचोर्वशीपुरूरवसोस्समयविद्विश्वावसुर्गन्धर्वसमवेतो निशि शयनाभ्याशादेकमुरणकं जहार ॥ ५१ ॥
तस्य चाकाशे नीयमानस्योर्वशी शब्दमशृणोत् ॥ ५२ ॥
एवमुवाच च ममा नाथायाः पुत्रः केनापह्रियते के शरणमुपयामीति ॥ ५३ ॥
तदाकर्ण्य राजा मां नग्नं देवी वीक्ष्यतीति न ययौ ॥ ५४ ॥
अथान्यमप्युरणक मादाय गन्धर्वा ययुः ॥ ५५ ॥
तस्याप्यपह्रियमाणस्याकर्ण्य शब्दमाकाशे पुनरप्यनाथास्म्यहमभर्तृका कापुरुषाश्रयेत्यार्त्तराविणी बभूव ॥ ५६ ॥
राजाऽप्यमर्षवशादन्धकारमेतदिति खड्गमादाय दुष्टदुष्ट हतोऽसीति व्याहरन्नभ्यधावत् ॥ ५७ ॥
तावच्च गन्धर्वैरप्यतीवोज्ज्वला विद्युजनिता ॥ ५८ ॥
शयनेति । उरणकः-मेषः ॥ ४४-५८ ॥
तत्प्रभया चोर्वशी राजानमपगताम्बरं दृष्टापवृत्तसमया तत्क्षणादेवापक्रान्ता ॥ ५९ ॥
परित्यज्य तावप्युरणकौ गन्धर्वास्सुरलोकमुपगताः ॥ ६० ॥
राजाऽपि च तौ मेषावादायातिहृष्टमनाः स्वशयनमायातो नोर्वशीं ददर्श ॥ ६१ ॥
तां चापश्यन् व्यपगताम्बर एवोन्मत्तरूपो बभ्राम ॥ ६२ ॥
कुरुक्षेत्रे चाम्भोजसरस्यन्याभिश्चतसृभिरप्सरोभिस्समवेतामुर्वशीं ददर्श ॥ ६३ ॥
तदिति । अपवृत्तसमया-निवृत्तसमया ॥ ५९-६३
ततश्चोन्मत्तरूपो जाये हे तिष्ठ मनसि घोरे तिष्ठ वचसि कपटिके तिष्ठेत्येवमनेकप्रकारं सूक्तमवोचत् ॥ ६४ ॥
आह चोर्वशी ॥ ६५ ॥
महाराजालमनेनाविवेकचेष्टितेन ॥ ६६ ॥
अन्तर्वत्न्यहमब्दान्ते भवताऽत्रागन्तव्यं कुमारस्ते भविष्यति एकां च निशामहं त्वया सह वत्स्यामीत्युक्तः प्रहृष्टस्स्वपुरं जगाम ॥ ६७ ॥
तासां चाप्सरसामुर्वशी कथयामास ॥ ६८ ॥
अयं स पुरुषोत्कृष्टो येनाहमेतावन्तं कालमनुरागाकृष्टमानसा सहोषितेति ॥ ६९ ॥
एवमुक्तास्ताश्चाप्सरस ऊचुः ॥ ७० ॥
साधुसाध्वस्यरूपमप्यनेन सहास्माकमपि सर्वकालमास्या भवेदिति ॥ ७१ ॥
अब्दे च पूर्णे स राजा तत्राजगाम ॥ ७२ ॥
कुमारं चायुषमस्मै चोर्वशी ददौ ॥ ७३ ॥
दत्त्वा चैकां निशां तेन राज्ञा सहोषित्वा पञ्च पुत्रोत्पत्तये गर्भमवाप ॥ ७४ ॥
उवाच चैनं राजानमस्मत्प्रीत्या महाराजाय सर्व एव गन्धर्वा वरदास्संवृत्ताः व्रियतां च वर इति ॥ ७५ ॥
आह च राजा ॥ ७६ ॥
विजितसकलारातिरविहतेन्द्रियसामर्थ्यो बन्धुमानमितबलकोशोऽस्मि, नान्यदस्माकमुर्वशीसालोक्याप्राप्तव्यमस्ति तदहमनया सहोर्वश्या कालं नेतुमभिलषामीत्युक्ते गन्धर्वा राज्ञेऽग्निस्थाल ददुः ॥ ७७ ॥
ऊचुश्चैनमग्निमाम्नायानुसारी भूत्वा त्रिधा कृत्वोर्वशीसलोकतामनोरथमुद्दिश्य सम्यग्यजेथाः, ततोऽवश्यमभिलषितमवाप्स्यसीत्युक्तस्तामग्नि स्थालीमादाय जगाम ॥ ७८ ॥
अन्तरटव्यामचिन्तयत्, अहो मेऽतीव मूढता किमहमकरवम् ॥ ७९ ॥
वह्निस्थाली मयैषाऽऽनीता नोर्वशीति ॥ ८० ॥
अथैनामटव्यामेवाग्रिस्थाली तत्याज स्वपुरं च जगाम ॥ ८१ ॥
व्यतीतेऽर्द्धरात्रे विनिद्रश्चाचिन्तयत् ॥ ८२ ॥
ममोर्वशीसालोक्यप्राप्त्यर्थमग्निस्थाली गन्धर्वेर्दत्ता सा च मयाऽटव्यां परित्यक्ता ॥ ८३ ॥
तदहं तत्र तदाहरणाय यास्यामीत्युत्थाय तत्राप्युपगतो नाग्निस्थालीमपश्यत् ॥ ८४ ॥
शमीगर्भ चाश्वत्थमग्निस्थालीस्थाने दृष्ट्वाचिन्तयत् ॥ ८५ ॥
मयाऽत्राग्निस्थाली निक्षिप्ता सा चाश्वत्थश्शमीगर्भोऽभूत् ॥ ८६ ॥
तदेनमेवाहमग्निरूपमादाय स्वपुरमभिगम्यारणीं कृत्वा तदुत्पन्नाग्नेरूपास्तिं करिष्यामीति ॥ ८७ ॥
एवमेव स्वपुरमभिगम्यारणिं चकार ॥ ८८ ॥
तत्प्रमाणं चाङ्गुलैः कुर्वन् गायत्रीमपठत् ॥ ८९ ॥
ततश्चेति ॥ हे जाये मनसि घोरे तिष्ठ वचसि-मया वाङ्मिश्रणं कुरु । अनेन अये जाये मनसा
तिष्ठ घोरै वचांसि मिश्रीकृणबावहे इत्याद्यष्टादशं च तयोस्संवादसूक्तं स्मारितम् ॥ ६४-८९ ॥
पठतश्चाक्षरसंख्यान्येवाङ्गुलान्यरण्यभवत् ॥ ९० ॥
तत्राग्निं निर्मथ्याग्नित्रयमानायासारी भूत्वा जुहाव ॥ ९१ ॥
उर्वशीसालोक्यं फलमभिसंधितवान् ॥ ९२ ॥
तेनैव चाग्निविधिना बहुविधान् यज्ञानिष्ट्वा गान्धर्वलोकानवाप्योर्वश्या सहावियोगमवाप ॥ ९३ ॥
एकोऽग्निरादावभवत् एकेन त्वत्र मन्वन्तरे त्रेधा प्रवर्तिताः ॥ ९४ ॥
पठत इति ॥ गायत्रीं पठतः अक्षरसंख्यानि-तदक्षरसंख्यान्यंगुलानि अरणिरभवत् । चतुर्विंशत्यंगुलारणिः कार्या इति विधिः ॥ ९०-९४ ॥
इति श्रीविष्णुमहापुराणे चतुर्थांशेषष्ठोऽध्यायः ६