०३

चतुर्थांशेतृतीयोऽध्यायः

व्रतश्च मांधातुः पुत्रसंततिरभिधीयते ॥ १ ॥
अंबरीषस्य मांधातृतनयस्य युवनाश्वः पुत्रोऽभूत् ॥ २ ॥

॥१,२ ॥

तस्माद्धारीतः यतोंऽगिरसो हारीताः ॥ ३ ॥

तस्मादिति यतोंगिरस इति । अथ हारीतानां त्र्यार्षेयाः आंगिरसांवरीषयौवनाश्वा इति

वरपाठात् ॥ ३ ॥

रसातले मौनेया नाम गंधर्वा बभूवुष्षट्कोटिसंख्यातास्तैरशेषाणि नागकुलान्यपहृतप्रधानरत्नाधिपत्यान्यक्रियंत ॥ ४ ॥

रसातल इति ॥ मौनेयाः-काश्यपपत्न्याः मुनेस्तनयाः ॥ ४ ॥

तैश्च गंधर्ववीर्यावधूतैरुरगेश्वरैः तूयमानो भगवानशेषदेवेशः तवश्रवणोन्मीलितोन्निद्रपुंडरीकनयनो जलशयनो निद्रावसानप्रबुद्धः प्रणिपत्याभिहितः, भगवन्नस्माकमेतेभ्यो गंधर्वेभ्यो भयमुत्पन्नं कथमुपशममेष्यतीति ॥ ५ ॥
आह च भगवाननादिनिधनः पुरुषोत्तमो योऽसौ यौवनाश्वस्य मांधातुः पुरुकुत्सनामा पुत्रस्तमहमनुप्रविश्य तानशेषान् दुष्टगंधर्वानुपशमं नयिष्यामीति ॥ ६ ॥
तदाकर्ण्य भगवते जलशायिने कृतप्रणामाः पुनर्नागलोकमागताः पन्नगाधिपतयो नर्मदां च पुरुकुत्सानयनाय चोदयामासुः ॥ ७ ॥
सा चैनं रसातलं नीतवती ॥ ८ ॥
रसातलगतश्चासौ भगवत्तेजसाऽऽप्यायितात्मवीर्य्यस्सकलगंधर्वान्निजघान ॥ ९ ॥
पुनश्च स्वपुरमाजगाम ॥ १० ॥
सकलपन्नगाधिपतयश्च नर्मदायै वरं ददुः,
यस्तेऽनुस्मरणसमवेतं नामग्रहणं करिष्यति न तस्य सर्पविषभयं भविष्यतीति ॥ ११ ॥
अत्र च श्लोकः ॥ १२ ॥
नर्मदायै नमः प्रातर्नर्मदायै नमो निशि ।
नमोऽस्तु नर्मदे तुभ्यं त्राहि मां विषसर्पतः ॥ १३ ॥

तैश्चेति ॥ जलशयनं । श्रीराब्धौ शेषतल्पम् ॥ ५-१३ ॥

इत्युच्चार्याहर्निशमंधकारप्रवेशे वा सर्पैर्न दश्यते, न चापि कृतानुस्मरणभुजो विषमपि भुक्तमुपघाताय भवति ॥ १४ ॥
पुरुकुत्साय संततिविच्छेदो न भविष्यतीत्युरगपतयो वरं ददुः ॥ १५ ॥
पुरुकुत्सो नर्मदायां त्रसद्दस्युमजीजनत् ॥ १६ ॥
त्रसद्दस्युतस्संभूतोऽनरण्यः यं रावणो दिग्विजये जघान ॥ १७ ॥
अनरण्यस्य पृषदश्वः, पृषदश्वस्य हर्यश्वः पुत्रोऽभवत् ॥ १८ ॥
तस्य च हस्तः पुत्रोऽभवत् ॥ १९ ॥
ततश्च सुमनास्तस्यापि त्रिधन्वा त्रिधन्वनस्त्रय्यारुणिः ॥ २० ॥

इतीति ॥ कृतानुस्मरणभुजः-नर्मदां स्मृत्वा अन्नादि मुञ्जानस्य ॥ १४-२० ॥

त्रय्यारुणेस्सत्यव्रतः योऽसौ त्रिशंकुसंज्ञामवाप ॥ २१ ॥
स चंडालतामुपगतश्च ॥ २२ ॥
द्वादशवर्षिक्यामनावृष्ट्यां विश्वामित्रकलत्रापत्यपोषणार्थं चंडालप्रतिग्रहपरिहरणाय च जाह्नवीतीरन्यग्रोधे मृगमांसमनुदिनं बबंध ॥ २३ ॥
स तु परितुष्टेन विश्वामित्रेण सशरीरस्स्वर्गमारोपितः ॥ २४ ॥
त्रिशंकोर्हरिश्चन्द्रः तस्माच्च रोहिताश्वस्ततश्च हरितो हरितस्य चंचुश्चंचोर्विजयवसुदेवौ रुरुको विजयाद्रुरु कस्य वृकः ॥ २५ ॥
ततो वृकस्य बाहुः योऽसौ हैहयतालजंघादिभिः पराजितोऽन्तर्वत्न्या महिष्या सह वनं प्रविवेश ॥ २६ ॥
तस्याश्चा सपत्न्या गर्भस्तंभनाय गरो दत्तः ॥ २७ ॥
तेनास्य गर्भः सप्तवर्षाणि जठर एव तस्थौ ॥ २८ ॥
स च बाहुर्वृद्धभावादौर्वाश्रमममीपे ममार ॥ २९ ॥
सा तस्य भार्या चितां कृत्वा तमारोप्यानुमरणकृतनिश्चयाऽभूत् ॥ ३० ॥
अथैतामतीतानागतवर्त्तमानकालत्रयवेदी भगवानौर्वस्स्वाश्रमान्निर्गत्याब्रवीत् ॥ ३१ ॥

प्रय्यारुणेरिति ॥ परिणीयमानविप्रकन्याहरणक्रुद्धस्य स्वपितुशापात् चंडालतां गतः, वसिष्ठधेनुं

हत्वा वृथा जिघासेति त्रिमिर्दोषैस्त्रिशंकुः । यथा हरिवंशे – पितुश्शापादिदोषेण गुरुदोग्ध्रीवधेन च ।
अप्रोक्षितोपयोगाच्च त्रिविधस्तद्व्यतिक्रमः ॥ एवं त्रीव्यस्य शंकूनि तानि दृष्ट्वा महायशाः । त्रिशंकुरिति होवाच

त्रिशंकुस्तेन स स्मृतः इति ॥ २१-३१ ॥

अलमलमनेनासद्ग्राहेणाखिल भूमंडलपतिरतिवीर्यपराक्रमो नैकयज्ञकृदरातिपक्षक्षयकर्त्ता तवोदरे चक्रवर्त्ती तिष्ठति ॥ ३२ ॥
मैवमतिसाहसाध्यवसायिनी भवेत्युक्ता सा तस्मादनुमरणनिर्बंधाद्विरराम ॥ ३३ ॥
तेनैव च भगवता स्वाश्रममानीता ॥ ३४ ॥
तत्र कतिपयदिनाभ्यंतरे च सहैव तेन गरेणातितेजस्वी बालको जज्ञे ॥ ३५ ॥
तस्यौर्वो जातकर्मादिक्रिया निष्पाद्य सगर इति नाम चकार ॥ ३६ ॥
कृतोपनयनं चैनमौर्वो वेदशास्त्राण्यशेषाण्यस्त्रं चाग्नेयं भार्गवाख्यमध्यापयामास ॥ ३७ ॥
उत्पन्नबुद्धिश्च स मातरमब्रवीत् ॥ ३८ ॥
अंब कथय कथमत्र वयं क्व तातोऽस्माकमित्येवमादि पृच्छंतं माता सर्वमेवावोचत् ॥ ३९ ॥
ततश्च पितृराज्यापहरणादमर्षितो हैहयतालजंघादिवधाय प्रतिज्ञामकरोत् ॥ ४० ॥
प्रायशश्च हैहयतालजंघाञ्जघान ॥ ४१ ॥
शकयवनकांभोजपारदपप्लवाः हन्यमानास्तत्कुलगुरुं वसिष्ठं शरणं जग्मुः ॥ ४२ ॥
अथैनान्वसिष्ठो जीवन्मृतकान् कृत्वा सगरमाह ॥ ४३ ॥

अलमटमिति ॥ असग्राहेण–बृपा निर्बंधेन ॥ ३२-४३॥

वत्सालमेभिर्जीवन्मृतकैरनुमृतैः ॥ ४४ ॥
एते च मयैव त्वत्प्रतिज्ञापरिपालनाय निजधर्मद्विजसंगपरित्यागं कारिताः ॥ ४५ ॥
तथेति तद्गुरुवचनमभिनंद्य तेषां वेषान्यत्वमकारयत् ॥ ४६ ॥
यवनान्मुंडितशिरसोऽर्द्धमुंडिताञ्च्छकान् प्रलंबकेशान् पारदान् पप्लवाञ्श्मश्रुधरान् निस्स्वाध्यायवषट्कारानेतानन्यांश्च क्षत्रियांश्चकार ॥ ४७ ॥
एते चात्मधर्मपरित्यागाद्ब्राह्मणैः परित्यक्ता म्लेच्छतां ययुः ॥ ४८ ॥

वत्सेति ॥ जीवन्मृतः स्वधर्माद्यः परिभ्रष्टो विप्रैर्यश्च बहिष्कृतः । स जीवन्नेव लोकेऽस्मिन् मृत

इत्यभिधीयते ॥ इति स्मृतेः। अनुमृतैः-पुनर्मृतैः ॥ १५२५४८ ॥

सगरोऽपि स्वमधिष्ठानमागम्य अस्खलितचक्रस्सप्तद्वीपवतीमिमामुर्वीं प्रशशास ॥ ४९ ॥

सगर इति ॥ चक्रम्—आज्ञा, बलं वा ॥४९॥

इति श्रीविष्णुमहापुराणे चतुर्थांशो तृतीयोऽध्यायः ॥ ३ ॥