०२

चतुर्थांशेद्वितीयोऽध्यायः

श्रीपराशर उवाच

यावच्च ब्रह्मलोकात्स ककुद्मी रैवतो नाभ्येति तावत्पुण्यजनसंज्ञा राक्षसास्तामस्य पुरीं कुशस्थलीं नजघ्नुः ॥ १ ॥
तच्चास्य भ्रातृशतं पुण्यजनत्रासाद्दिशो भेजे ॥ २ ॥
तदन्वयाश्च क्षत्रियास्सर्वदिक्ष्वभवन् ॥ ३ ॥
वृष्टस्यापि वार्ष्टकं क्षत्त्रमभवत् ॥ ४ ॥
नाभागस्यात्मजो नाभागसंज्ञोऽभवत् ॥ ५ ॥
तस्याप्यंबरीषः ॥ ६ ॥
अंबरीषस्यापि विरूपोभवत् ॥ ७ ॥
विरूपात्पृषदश्वो जज्ञे ॥ ८ ॥
ततश्च रथीतरः ॥ ९ ॥

१-९॥ एत इति ॥

अत्रायं श्लोकः-
एते क्षत्रप्रसूता वै पुनश्चांगिरसाः स्मृताः ।
रथीतराणां प्रवराः क्षत्त्रोपेता द्विजातयः इति ॥ १० ॥

रथीतराणां प्रवराः- वंश्याः केन चित्संबधेनांगिरोगणप्रविष्टत्वात्क्षत्रजत्वाच्च ब्रह्मक्षत्रतां

गताः। एतेषां हि तपसैव ब्रह्मत्वं, यथाह वायुः,विश्वामित्रो नरपतिर्मान्धाता संकृतिः कपिः । बार्धाश्वः पुरु-

कुत्सश्च भास्वान् गृत्समदः प्रभुः ॥ अर्ष्टिषेणोऽजमीढश्च छागो गार्ग्यस्तथैव च । कक्षीवांश्च विरूपश्च मुद्गलो

हरितस्तथा रथीतरश्च कण्वश्च विष्णुवृद्धादयो नृपाः । क्षत्रोपेता द्विजा ह्येते तपसा चर्षितां गताः ॥ इति ॥

१० ॥

क्षुतवतश्च मनोरिक्ष्वाकुः पुत्रो जज्ञे घ्राणतः ॥ ११ ॥
तस्य पुत्रशतप्रधाना विकुक्षिनिमिदंडाख्यास्त्रयः पुत्रा बभूवुः ॥ १२ ॥
शकुनिप्रमुखाः पंचाशत्पुत्राः उत्तरापथरक्षितारो बभूवुः ॥ १३ ॥
चत्वारिंशदष्टौ च दक्षिणापथभूपालाः ॥ १४ ॥
स चेक्ष्वाकुरष्टकायामुत्पाद्य श्राद्धार्हं मांसमानयेति विकुक्षिमाज्ञापयामास ॥ १५ ॥
तथेति गृहीताज्ञो विधृतशरासनो वनमभ्येत्यानेकशो मृगान् हत्वा श्रांतोतिक्षुत्परीतो विकुक्षिरेकं शशमभक्षयत्
शेषं च मांसमानीय पित्रे निवेदयामास ॥ १६ ॥
इक्ष्वाकुणा इक्ष्वाकुकुलाचार्यो वशिष्ठस्तत्प्रोक्षणाय चोदितः प्राह
अलमनेनामेध्येनामिषेण दुरात्मनानेन तव पुत्रेणैतन्मांसमुपहतं यतोऽनेन शशो भक्षितः ॥ १७ ॥
ततश्चासौ विकुक्षिर्गुरुणैवमुक्तश्शशादसंज्ञामवाप पित्रा च परित्यक्तः ॥ १८ ॥
पितर्युपरते चासावखिलामेतां पृथ्वीं धर्मतश्शशास ॥ १९ ॥
शशादस्य तस्य पुरंजयो नाम पुत्रोभवत् ॥ २० ॥

क्षुतवत इति ॥ क्षुतवतः- क्षुतं कुर्वतः इति इक्ष्वाकुनामनिरुक्तिः ॥ ११-२० ॥

तस्येदं चान्यत् ॥ २१ ॥
पुरा हि त्रेतायां देवासुरयुद्धमतिभीषणमभवत् ॥ २२ ॥
तत्र चातिबलिभिरसुरैरमराः पराजितास्ते भगवंतं विष्णुमाराधयांचक्रुः ॥ २३ ॥
प्रसन्नश्च देवानामनादिनिधनोखिलजगत्परायणो नारायणः प्राह ॥ २४ ॥
ज्ञातमेतन्मया युष्माभिर्यदभिलषितं, तदर्थमिदं श्रूयताम् ॥ २५ ॥
पुरंजयो नाम राजर्षेश्शशादस्य तनयः क्षत्रियवरो यस्तस्य शरीरेहमंशेन स्वयमेवावतीर्य तानशेषानसुरान्निहनिष्यामि तद्भवद्भिः पुरंजयोऽसुरवधार्थमुद्योगं कार्यतामिति ॥ २६ ॥
एतच्च श्रुत्वा प्रणम्य भगवंतं विष्णुममराः पुरंजयसकाशमाजग्मुरूचुश्चैनम् ॥ २७ ॥

तस्येति ॥ इदं चान्यत्-तस्य पुरंजयस्य ककुत्स्थ इति नाम ॥२१-२७ ॥

भोभोः क्षत्रियवर्यास्माभिरभ्यर्थितेन भवतास्माकमरातिवधोद्यतानां कर्तव्यं साहाय्यमिच्छामः तद्भवतास्माकमभ्यागतानां प्रणयभंगो न कार्य इत्युक्तः पुरंजयः प्राह ॥ २८ ॥
त्रैलोक्यनाथो योयं राजा युष्माकमिन्द्रः शतक्रतुः ,अस्य यद्यहं स्कंधाधिरूढो युष्मादरातिभस्सह योत्स्ये तदहं भवतां सहायः स्याम् ॥ २९ ॥

भोभो इति ॥ प्रणयभंगः – प्रणयो याच्ञा ॥ २८-२९ ॥

इत्याकर्ण्य समस्तदेवैरिंद्रेण च बाढमित्येवं समन्विच्छितम् ॥ ३० ॥
ततश्च शतक्रतोर्वृषरूपधारिणः ककुदि स्थितोऽतिरोषसमन्वितो भगवतश्चराचरगुरोरच्युतस्य तेजसाप्यायितो देवासुरसंग्रामे समस्तानेवासुरान्निजघान ॥ ३१ ॥
यतश्च वृषभककुदि स्थितेन तेन राज्ञा दैतेयबलं निषूदितं ततश्चासौ ककुत्स्थसंज्ञामवाप ॥ ३२ ॥
ककुत्स्थस्याप्यनेनाः पुत्रोऽभवत् ॥ ३३ ॥
पृथुरनेनसः ॥ ३४ ॥
पुथोर्विष्टराश्वः ॥ ३५ ॥
तस्यापि चांद्रो युवनाश्वः ॥ ३६ ॥
चांद्रस्य तस्य युवनाश्वस्य शावस्तः यः पुरीं शावस्तीं निवेशयामास ॥ ३७ ॥
शावस्तस्य बृहदश्वः ॥ ३८ ॥
तस्यापि कुवलयाश्वः ॥ ३९ ॥

इतीति । समन्विच्छितम्-अनुमतम् ॥ ३०-३९ ॥

योसावुदङ्कस्य महर्षेरपकारिणं दुंदुनामानमसुरं वैष्णवेन तेजसाप्यायितः पुत्रसहस्रैरेकविंशतिभिः परिवृतो जघान दुंदुमारसंज्ञा चावाप ॥ ४० ॥

य इति ॥ एकविंशतिभिरित्येतत्संख्येयपरम् ॥४०॥

तस्य च तनयास्समस्ता एव दुंदुमुखनिश्वासाग्निना विप्लुष्टा विनेशुः ॥ ४१ ॥
दृढाश्वचंद्राश्वकपिलाश्वाश्च त्रयः केवलं शेषिताः ॥ ४२ ॥
वृढाश्वाद्धर्यश्वः ॥ ४३ ॥
तस्माच्च निकुंभः ॥ ४४ ॥
निकुंभस्यामिताश्वः ॥ ४५ ॥
ततश्च कृशाश्वः ॥ ४६ ॥
तस्माच्च प्रसेनजित् ॥ ४७ ॥
प्रसेनजितो युवनाश्वोभवत् ॥ ४८ ॥
तस्य चापुत्रस्यातिनिर्वेदान्मुनीनामाश्रममंडले निवसतो दयालुभिर्मुनिभिरपत्योत्पादनायेष्टः कृता ॥ ४९ ॥
तस्यां च मध्यरात्रौ निवृत्तायां मंत्रपूतजलपूर्णं कलशं वेदिमध्ये निवेश्य ते मुनयः सुषुपुः ॥५० ॥
सुप्तेषु तेषु अतीव तृट्परीतस्स भूपालस्तमाश्रमं विवेश ॥ ५१ ॥

तस्य चेति ॥ विप्लुष्टाः – दग्धाः ॥ ४१-५१॥

सुप्तांश्च तानृषीन्नैवोत्थापयामास ॥ ५२ ॥
तच्च कलशजलमपरिमेयमाहात्म्यमंत्रपूतं पपौ ॥ ५३ ॥
प्रबुद्धाश्च ऋषयः पप्रछुः केनैतं मंत्रपूतं वारि पीतम् ॥ ५४ ॥
अत्र हि पीते राज्ञो युवनाश्वस्य पत्नी महाबलपराक्रमं पुत्रं जनयिष्यति,
इत्याकर्ण्ये स राजा अजानता मया पीतमित्याह ॥ ५५ ॥
गर्भश्च युवनाश्वस्योदरे अभवत्क्रमेण च ववृधे ॥ ५६ ॥
प्राप्तसमयश्च दक्षिणांगुष्ठेन कुक्षिमवनिपतेर्निर्भिद्य निश्चक्राम ॥ ५७ ॥

सुप्तानिति ॥ नैवोत्थापयामास क्षुत्तृदक्षामकंठत्वान्निद्राभंगभयादा ॥ ५२, ५७ ॥

स चासौ राजा ममार ॥ ५८ ॥

स इति ॥ स चासो राजा ममार ॥ ५८॥

जातो नामैष कं धास्यतीति ते मुनयः प्रोचुः ॥ ५९ ॥
अथागत्य देवराजोब्रवीत् मामयं धास्यतीति ॥ ६० ॥
ततो माधातृनामा सोभवत्,
वक्त्रे चास्य प्रदेशिनी देवेंद्रेण न्यस्ता तां पपौ ॥ ६१ ॥
तां चामृतस्राविणीमास्वाद्याह्नैव स व्यवर्द्धत ॥ ६२ ॥
ततस्तु मांधाता चक्रवर्त्ती सप्तद्वीपां महीं वुभुजे ॥ ६३ ॥
तत्रायं श्लोकः ॥ ६४ ॥

जात इति ॥ कं धास्यतीति स्तनाभावात् ॥ ५९-६४ ॥

यावत्सूर्य उदेत्यस्तं यावच्च प्रतितिष्ठति ।
सर्वं तद्यौवनाश्वस्य मांधातुः क्षेत्रमुच्यते ॥ ६५ ॥
मांधाता शतबिंदोर्दुहितरं बिंदुमतीमुपयेमे ॥ ६६ ॥
पुरुकुत्समंबरीषं मुचुकुंदं च तस्यां पुत्रत्रयमुत्पादयामास ॥ ६७ ॥
पंचाशद्दुहितरस्तस्यामेव तस्य नृपतेर्बभूवुः ॥ ६८ ॥
एतस्मिन्नंतरे बह्वृचश्च सौभरिर्नाम महर्षिरंतर्जले द्वादशाब्दं कालमुवास ॥ ६९ ॥

तत्र चांतर्जले संमदो नामातिबहु- प्रजोतिमात्रप्रमाणो मीनाधिपतिरासीत् ॥ ७० ॥
तस्य च पुत्रपौत्रदौहित्राः पृष्ठतोऽग्रतः पार्श्वयोः पक्षपुच्छशिरसां चोपरि भ्रमंतस्तेनैव सदाहर्निशमतिनिर्वृत्ता रेमिरे ॥ ७१ ॥
स चापत्यस्पर्शोपचीयमानप्रहर्षप्रकर्षो बहुप्रकारं तस्य ऋषेः पश्यतः खैः पुत्रपौत्रदौहित्रादिभिः सहानुदिनं सुतरां रेमे ॥ ७२ ॥

यावदिति ॥ यावत्तावच्च साकल्ये ॥ ६५-७२ ॥

अथांतर्जलावस्थितस्सौभरिरेकाग्रतस्समाधिमपहायानुदिनं तस्य सत्स्यस्यात्मजपौत्रदौहित्रादिभिःसहातिरमणीयं लालितमवेक्ष्याचिंतयत् ॥ ७३ ॥
अहो धन्योयमीदृशमप्यनभिमतं योन्यंतरमवाप्यैभिरात्मजपौत्रदौहित्रादिभिस्सह रममाणोतीवास्माकं स्पृहामुत्पादयति ॥ ७४ ॥

अथेति ॥ लालित — क्रीडितम् ॥ ७३, ७४ ॥

वयमप्येवं पुत्रादिभिस्सह ललितं रमिष्याम इत्येवमभिकांक्षन् स तस्मादंतर्जलान्निष्क्रम्य संतानाय निवेष्टुकामः कन्यार्थं मांधातारं राजानमगच्छत् ॥ ७५ ॥
आगमनश्रवणसमनन्तरं चोत्थाय तेन राज्ञा सम्यगर्घ्यादिना संपूजितः कृतासनपरिग्रहः सौभरिरुवाच राजानम् ॥ ७६ ॥

वयमिति ॥ निवेष्टुकामः — उद्बोढुकामः ॥ ७५, ७६ ॥

सौभरिरुवाच

निवेष्टुकामोऽस्मि नरेन्द्र कन्यां प्रयच्छ मे मा प्रणयं विभांक्षीः ।
न ह्यर्थिनः कार्यवशादुपेताः ककुत्स्थवंशे विमुखाः प्रयांति ॥ ७७ ॥
अन्येपि संत्येव नृपाः पृथिव्यां मांधातरेषां तनयाः प्रसूताः ।
किं त्वर्थिनामर्थितदानदीक्षाकृतव्रतं श्लाघ्यमिदं कुलं ते ॥ ७८ ॥

निवेष्टुकाम इति ॥ प्रणयं– याच्ञाम्, मां विभांक्षीः- भग्नं मा कृथाः ॥ ७७, ७८ ॥

शतार्धसंख्यास्तव संति कन्यास्तासां ममैकां नृपते प्रयच्छ ।
यत्प्रार्थनाभंगभयाद्बिभेमि तस्मादहं राजवरातिदुःखात् ॥ ७९ ॥

शतार्धेति ॥ अतिदुःखात्प्रार्थनाभंगभयाद्विमेमीति यत् तस्मात्कन्यां प्रयच्छ ॥ ७९ ॥

श्रीपराशर उवाच

इति ऋषिवचनमाकर्ण्य स राजा जराजर्झरितदेहं तमृषिमालोक्य प्रत्याख्यानकातरस्तस्माच्च शापभीतो बिभ्यत्किंचिदधोमुखश्चिरं दध्यौ ॥ ८० ॥

इतीति ॥ शापतः — शापात् कारणात् । तस्मात् – मुनेः बिम्यत् ॥ ८० ॥

सौभरिरुवाच

नरेंद्र कस्मात्समुपैषि चिंतामसह्यमुक्तं न मयात्र किंचित् ।
यावश्यदेया तनया तयैव कृतार्थता नो यदि किं न लब्धा ॥ ८१ ॥

श्रीपराशर उवाच

अथ तस्य भगवतश्शापभीतस्सप्रश्रयस्तमुवाचासौ राजा ॥ ८२ ॥

नरेन्द्रेति ॥ किं न लब्धा- किं न लप्स्यते ? कर्मणि लुट् । न लब्धमिति पाठे, मया किं न

उन्धम् कृतर्थोऽस्मीत्यर्थः ॥ ८१, ८२ ॥

राजोवाच

भगवन् अस्मत्कुलस्थितिरियं य एव कन्याभिरुचितोऽभिजनवान्वरस्तस्मै कन्या प्रदीयते भगवद्याच्ञा चास्मन्मनोरथानामप्यतिगोचरवर्त्तिनी कथमप्येषा संजाता । तदेवमुपस्थिते न विद्मः किं कुर्म इत्येतन्मयाऽचिंत्यत इत्यभिहिते च तेन भूभुजा मुनिरचिंतयत् ॥ ८३ ॥
अयमन्योऽस्मत्प्रत्याख्यानोपायः, वृद्धोयमनभिमतः स्त्रीणां किमत कन्यकानामित्यमुना संचिंत्यैतदभिहितम्, एवमस्तु तथा करिष्यामीति संचिंत्य मांधातारमुवाच ॥ ८४ ॥
यद्येवं तदादिश्यतामस्माकं प्रवेशाय कन्यान्तः पुरं वर्षवरो यदि कन्यैव काचिन्मामभिलषति तदाऽहं दारसंग्रहं करिष्यामि, अन्यथा चेत्तदलमस्माकमेतेनातीतकालारंभणेनेत्युक्त्वा विरराम ॥ ८५ ॥
ततश्च मांधात्रा मुनिशापशंकितेन कन्यान्तः पुरवर्षवरस्समाज्ञप्तः ॥ ८६ ॥
तेन सह कन्यान्तः पुरं प्रविशन्नेव भगवानखिलसिद्धगंधर्वमनुष्येभ्योऽतिशयेन कमनीयं रूपमकरोत् ॥ ८७ ॥
प्रवेश्य च तमृषिमंन्तः पुरे वर्षवरस्ताः कन्याः प्राह ॥८८ ॥
भवतीनां जनयिता महाराजस्समाज्ञापयति ॥ ८९ ॥
अयमस्मान् ब्रह्मर्षिः कन्यार्थं समभ्यागतः ॥ ९० ॥

भगवन्निति ॥ भवद्याश्चा मनोरथानामगोचरवर्त्तिनी-अत्यंतदुर्लमा, कमप्येषा संजाता दैवात् ॥ ८३, ९० ॥

मया चास्य प्रतिज्ञातं यद्यस्मत्कन्या या काचिद्भगवंतं वरयति तत्कन्याच्छंदे नाहं परिपंथानं करिष्यामीत्याकर्ण्य सर्वा एव ताः कन्याः सानुरागाः स प्रमदाः करेणव इवेभयूथपतिं तमृषिमहमहमिकया वरयांबभूवुरूचुश्च ॥ ९१ ॥

अलं भगिन्योऽहमिमं वृणोमि वृणोम्यहं नैष तवानुरूपः ।
ममैष भर्त्ता विधिनैव सृष्टस्सृष्टाऽहमस्योपशमं प्रयाहि ॥ ९२ ॥

मयेति ॥ छंदे इच्छायां, परिपंथानं-प्रातिकूल्यम् । सप्रमदाः । प्रमदो हर्षः ॥ ९१, ९२ ॥

वृतो मयाऽयं प्रथमं मयाऽयं गृहं विशन्नेव विहन्यसे किम् ।
मया मयेति क्षितिपात्मजानां तदर्थमत्यन्तकलिर्बभूव ॥ ९३ ॥
यदा तु सर्वाभिरतीव हार्दाद्वृतः स कन्याभिरनिन्द्यकीर्तिः ।
तदा स कन्याधिकृतो नृपाय यथावदाचष्ट विनम्रमूर्त्तिः ॥ ९४ ॥
श्रीपराशर उवाच

तदवगम्य किमेतत्कथमेतत्किं करोमि किं मयाऽभिहितमित्याकुलमतिरनिच्छन्नपि कथमपि राजाऽनुमेने ॥ ९५ ॥
कृतानुरूपविवाहश्च महर्षिस्सकला एव ताः कन्यास्स्वमाश्रममनयत् ॥ ९६ ॥

वृत इति ॥ कलिः कटहः ॥ ९३-९६ ॥

तत्र चाऽशेषशिल्पकल्पप्रणेतारं धातारमिवान्यं विश्वकर्माणमाहूय सकलकन्यानामेकैकस्याः प्रोत्फुल्लपंकजाः कूजत्कलहंसकारंडवादिविहंगमाभिरामजलाशयास्सोपवनास्सोपधानाः सावकाशास्साधुशय्यापरिच्छदाः प्रासादाः क्रियंतामित्यादिदेश ॥ ९७ ॥
तच्च तथैवानुष्ठितमशेषशिल्पविशेषाचार्यः त्वष्टा दर्शितवान् ॥ ९८ ॥

तत्रेति ॥ शिल्पकल्पः- शिल्पशास्त्रम् ॥ ९७, ९८ ॥

ततः परमर्षिणा सौभरिणाऽऽज्ञप्तस्तेषु गृहेष्वनिवार्यानंदकुंदमहानिधिरासांचक्रे ॥ ९९ ॥

तत इति ॥ कुंदमहानिधिः-कुंदास्र्यनिधिविशेषः । निधिर्ना शेवधिर्भेदाः पद्मशंखादयो निधेः ।
ह्यपद्मश्च पद्मश्च शंखो मकरकच्छपौ ॥ मुकुंदकुंदनीलाश्च वरश्च निधयो नव । इत्यमरसिंहः ॥ ९९ ॥

ततोऽनवरतभक्ष्यभोज्यलेह्याद्युपभोगेरागतानुगतभृत्यादीनहर्निशमशेषगृहेषु ताः क्षितीशदुहितरो भोजयामासुः ॥ १०० ॥
एकदा दुहितृस्नेहाकृष्टहृदयस्स महीपतिः किमतिदुःखितास्ता उत सुखिता वा इति विचिंत्य तस्य महर्षेराश्रमसमीपमुपेत्य स्फुरदंशुमालाललामां स्फटिकमयप्रासादमालामतिरम्योपवनजलाशयां ददर्श ॥ १०१ ॥

तत इति ॥ अनुगताः – अनुचराः ॥ १००, १०१ ॥

प्रविश्य चैकं प्रासादमात्मजां परिष्वज्य कृतासनपरिग्रहः प्रवृद्धस्नेहनयनांबुगर्भोऽब्रवीत् ॥ १०२ ॥
अप्यत्र वत्से भवत्यास्सुखमुत किञ्चिदसुखमपि ते महर्षिस्स्नेहवानुत न स्मर्यतेऽस्मद्गृहवासः इत्युक्ता तं तनया पितरमाह ॥ १०३ ॥
तातातिरमणीयः प्रासादोऽत्रातिमनोज्ञमुपवनमेते कलवाक्यविहंगमाभिरुताः प्रोत्फुल्लपद्माकरजलाशयाः मनोनुकूलभक्ष्यभोज्यानुलेपनवस्त्रभूषणादिभोगो मृदूनि शयनासनानि सर्वसंपत्समेतं मे गार्हस्थ्यम् ॥ १०४ ॥
तथापि केन वा जन्मभूमिर्न स्मर्यते ॥ १०५ ॥
त्वत्प्रसादादिदमशेषमतिशोभनम् ॥ १०६ ॥
किं त्वेकं ममैतद्दुःखकारणं यदस्मद्गृहात् महर्षिरयम्मद्भर्त्ता न विष्क्रामति, ममैव केवलमतिप्रीत्या समीपपरिवर्त्ती, नान्यासामस्मद्भगिनीनाम् ॥ १०७ ॥
एवं च मम सोदर्योऽतिदुःखिता इत्येवमतिदुःखकारणमित्युक्तस्तया द्वितीयं प्रासादमुपेत्य स्वतनयां परिष्वज्योपविष्टस्तथैव पृष्टवान् ॥ १०८ ॥
तयाऽपि च सर्वमेव प्रासादाद्युपभोगसुखं भृशमाख्यातं स्वपित्रे, ममैव केवलमतिप्रीत्या भर्ता पार्श्वपरिवर्त्ती नान्यासामस्मद्भगिनीनामित्येवमादिश्रुत्वा समस्तप्रासादेषु राजा प्रविश्य तनयाः तथैवावृच्छत् ॥ १०९ ॥
सर्वाभिश्च ताभिस्तथैवाभिहितः परितोषविस्मयनिर्भरविवशहृदयो भगवंतं सौभरिमेकांतावस्थितमुपेत्य कृतपूजोऽब्रवीत् ॥ ११० ॥
दृष्टस्ते भगवन् सुमहानेष सिद्धिप्रभावः नैवंविधमन्यस्य कस्यचिदस्माभिर्विभूतिविलसितमुपलक्षितं यदेतद्भगवतस्तपसः फलमित्यभिपूज्य तमृषिं तत्रैव तेन ऋषिवर्येण सह किंचित्कालमभिमतोपभोगान् बुभुजे स्वपुरं च जगाम ॥ १११ ॥
कालेन गच्छता तस्य तासु राजतनयासु पुत्रशतं सार्धमभवत् ॥ ११२ ॥
अनुदिनानुरूढस्नेहप्रसरश्च स तत्रातीव ममताकृष्टहृदयोऽभवत् ॥ ११३ ॥

अप्येतेऽस्मत्पुत्राः कलभाषिणः पद्भ्यां गच्छेयुः अप्येते यौवनिनो भवेयुः अपि कृतदारानेतान् पश्येम अप्येषां पुत्रा भवेयुः अप्येतत्पुत्रान्पुत्रसमन्वितान्पश्येमेत्यादिमनोरथाननुदिनं कालसंपत्तिप्रवृद्धानवेक्ष्यैतच्चिंतयामास ॥ ११४ ॥
अहो मे मोहस्यातिविस्तारः ॥ ११५ ॥
मनोरथानां न समाप्तिरस्ति वर्षायुतेनाप्यथ वापि लक्षैः ।
पूर्णेषु पूर्णेषु मनोरथानां उत्पत्तयस्संति पुनर्नवानाम् ॥ ११६ ॥

प्रविश्य चेति ॥ प्रवृद्धेन स्नेहेन नयनयोरम्बुगर्भ यस्य स तथोक्तः ॥ १०२-११६

पद्भ्यां गता यौवनिनश्च जाता दारैश्च संयोगमिताः प्रसूताः ।
दृष्टाः सुतास्तत्तनयप्रसूतिं द्रष्टुं पुनर्वाञ्छति मेंऽतरात्मा ॥ ११७ ॥
द्रक्ष्यामि तेषामिपि चेत्प्रसूतिं मनोरथो मे भविता ततोऽन्यः ।
पूर्णेऽपि तत्राप्यपरस्य जन्म निवार्यते केन मनोरथस्य ॥ ११८ ॥
आमृत्युतो नैव मनोरथानां अन्तोऽस्ति विज्ञातमिदं मयाऽद्य ।
मनोरथासक्तिपरस्य चित्तं न जायते वै परमार्थसंगि ॥ ११९ ॥

पद्भ्यामिति ॥ प्रसूताः—जातापत्याः ॥ ११७-११९॥

स मे समाधिर्जलवासमित्रमत्स्यस्य संगात्सहसैव नष्टः ।
परिग्रहस्संगकृतो मयाऽयं परिग्रहोत्था च ममतिलिप्सा ॥ १२० ॥
दुःखं यदैवैकशरीरजन्म शतार्द्धसंख्याकमिदं प्रसूतम् ।
परिग्रहेण क्षितिपात्मजानां सुतैरनेकैर्बहुलीकृतं तत ॥ १२१ ॥

स इति ॥ लिप्सा–लब्धुमिच्छा ॥ १२०, १२१ ॥

सुतात्मजैस्तत्तनयैश्च भूयो भूयश्च तेषां च परिग्रहेण ।
विस्तारमेष्यत्यतिदुःखहेतुः परिग्रहो वै ममताभिधानः ॥ १२२ ॥
चीर्णं तपो यत्तु जलाश्रयेण तस्यार्द्धिरेषा तपसोंऽतरायः ।
मत्स्यस्य संगादभवच्च यो मे सुतादिरागो मुषितोऽस्मि तेन ॥ १२३ ॥
निस्संगता मुक्तिपदं यतीनां संगादशेषाः प्रभवंति दोषाः ।
आरूढयोगोऽपि निपात्यतेऽधस्संगेन योगी किमुताल्पबुद्धिः ॥ १२४ ॥

सुतेति ॥ तेषां स्वपरिग्रहेण–तेषां खं-पुत्रपौत्रादि, तत्परिग्रहेण । विस्तारमेष्यतीत्यन्वयः ॥ १२२-१२४ ॥

सोऽहं चरिष्यामि तदात्मनोर्थे परिग्रहग्राहगृहीतबुद्धिः ।
यदा हि भूयः परिहीनदोषो जनस्य दुःखैर्भविता न दुःखी ॥ १२५ ॥

सोऽइमिति ॥ जनस्य –भार्यादेः ॥ १२५ ॥

सर्वस्य धातारमचिंत्यरूपं अणोरणीयांसमतिप्रमाणम् ।
सितासितं चेश्वरमीश्वराणां आराधयिष्ये तपसैव विष्णुम् ॥ १२६ ॥
तस्मिन्नशेषौजसि सर्वरूपिण्यव्यक्तविस्पष्टतनावनंते ।
ममाचलं चित्तमपेतदोषं सदास्तु विष्णावभवाय भूयः ॥ १२७ ॥

सर्वस्येति ॥ सिनासिनं– बद्धमुक्तरूपेण स्थितम् । यद्वा-युगभेदेन सितासितवर्णम् ॥ १२६,१२७ ॥

समस्तभूतादमलादनंतात् सर्वेश्वरादन्यदनादिमध्यात् ।
यस्मान्न किंचित्तमहं गुरूणां परं गुरुं संश्रयमेमि विष्णुम् ॥ १२८॥

श्रीपराशर उवाच

इत्यात्मानमात्मनैवाभिधायासौ सौभरिरपहाय पुत्रगृहासनपरिच्छदादिकमशेषमर्थजातं सकलभार्यासमन्वितो वनं प्रविवेश ॥ १२९ ॥
तत्राप्यनुदिनं वैखानसनिष्पाद्यमशेषक्रियाकलापं निष्पाद्य क्षपितसकलपापः परिपक्वमनोवृत्तिरात्मन्यग्नीन्समारोप्य भिक्षुरभवत् ॥ १३० ॥

समस्तभूतादिति ॥ समस्तं भूतं जगदूपं यस्य सः तस्मात् समस्तभूतात् अन्यत्-अतदात्मकं

कॅचिदपि नास्ति । १२८-१३०॥

भगवत्यासज्याखिलं कर्मकलापं अजमविकारमरणादिधर्ममवाप परमनन्तं परवतामच्युतं पदम् ॥ १३१ ॥
इत्येतन्मांधातृदुहितृसंबंधादाख्यातम् ॥ १३२ ॥
यश्चैतत्सौभरिचरितमनुस्मरति पठति पाठयति शृणोति श्रावयति धरत्यवधारयति लिखति लेखयति शिक्षयत्यध्यापयत्युपदिशति वा तस्याष्टौ जन्मानि दुस्संततिरसद्धर्मो वाड्मनसोरसन्मार्गाचरणमशेषहेयेषु वा ममत्वं न भवति ॥ १३३ ॥

भगवतीति ॥ भगवत्यासज्य – भगवदाराधनमित्यनुसंधाय ॥ १३१-१३३ ॥

इति श्रीविष्णुमहापुराणे चतुर्थांशे द्वितीयोऽध्यायः ॥ २ ॥