अथ द्वाविंशोऽध्यायः
भगवतो विष्णोश् चतुर्विधविभूतिवर्णनम्
श्रीपराशर उवाच
यदाभिषिक्तः स पृथुः पूर्वं राज्ये महर्षिभिः ।
ततः क्रमेण राज्यानि ददौ लोकपितामहः ॥१॥
एवं तावद् देवादीनां सृष्टिर् उक्ता । इदानीं तत्तदधिपकथनमुखेन विष्णोर् विभूतीर् वक्तुम् आहयदेत्यादिना यावत्समाप्तिः ॥१॥
नक्षत्रग्रहविप्राणां वीरुधां चाप्यशेषतः ।
सोमं राज्येऽददाद् ब्रह्मा यज्ञानां तपसाम् अपि ॥२॥
नक्षत्रादीनां तपोऽन्तानां राज्ये सोमम् अदधात् ॥२॥
राज्ञां वैश्रवणं राज्ये जलानां वरुणं तथा ।
आदित्यानां पतिं विष्णुं वसूनाम् अथ पावकम् ॥३॥
राज्ञां राज्ये वैश्रवणं कुवेरम् अदधाद् इत्यनुषङ्गः ॥३॥
प्रजापतीनां दक्षं तु वासवं मरुताम् अपि ।
दैत्यानां दानवानां च प्रह्लादम् अधिपं ददौ ॥४॥
मरुतां दितिपुत्राणां वासवम् अधिपं ददौ ॥४॥
पितृणां धर्मराजं तं यमं राज्येऽभ्यषेचयत् ।
ऐरावतं गजेन्द्राणाम् अशेषाणां पतिं ददौ ॥५॥
पतत्रिणां च गरुडं देवानाम् अपि वासवम् ।
उच्चैःश्रवसम् अश्वानां वृषभं तु गवाम् अपि ॥६॥
अन्येषाम् अपि देवानां वासवम् एव ददौ ॥६॥
शेषं तु नागराजानां मृगाणां सिंहम् ईश्वरम् ।
वनस्पतीनां राजानं प्लक्षम् एवाभ्यषेचयत् ॥७॥
सिंहम् ईश्वरं पतिम् ॥७॥
एवं विभज्य राज्यानि दिशां पालान् अनन्तरम् ।
प्रजापतिपतिर् ब्रह्मा स्थापयामास सर्वतः ॥८॥
दिशां पालान् दिक्पालकान् ॥८॥
पूर्वस्यां दिशि राजानं वैराजस्य प्रजापतेः ।
दिशः पालं सुधन्वानं सुतं वै सोऽभ्यषेचयत् ॥९॥
दक्षिणस्यां दिशि तथा कर्दमस्य प्रजापतेः ।
पुत्रं शङ्खपदं नाम राजानं सोऽभ्यषेचयत् ॥१०॥
पश्चिमस्यां दिशि तथा रजतः पुत्रम् अच्युतम् ।
केतुमन्तं महात्मानं राजानम् अभिषिक्तवान् ॥११॥
अच्युतम् इति केतुमतो विशेषणम् ॥११॥
तथा हिरण्यरोमाणम् पर्जन्यस्य प्रजापतेः ।
उदीच्यां दिशि दुर्धर्षं राजानम् अभ्यषेचयत् ॥१२॥
पर्जन्यस्य प्रजापतेः पुत्रम् इत्यनुषङ्गः ॥१२॥
तैर् इयं पृथिवी सर्वा सप्तद्वीपा सपत्तना ।
यथाप्रदेशम् अद्यापि धर्मतः परिपाल्यते ॥१३॥
एते सर्वे प्रवृत्तस्य स्थितौ विष्णोर् महात्मनः ।
विभूतिभूता राजानो ये चान्ये मुनिसत्तम ॥१४॥
उक्तानाम् अनुक्तानां च तत्तत्पतीनां भगवद्विभूतित्वम् आहएत इति सार्धैः पञ्चभिः । स्थितौ प्रवृत्तस्य विष्णोर् विभूतिभूताः ॥१४१९॥
ये भविष्यन्ति ये भूताः सर्वे भूतेश्वरा द्विज ।
ते सर्वे सर्वभूतस्य विष्णोर् अंशा द्विजोत्तम ॥१५॥
ये तु देवाधिपतयो ये च दैत्याधिपास् तथा ।
दानवानां च ये नाथा ये नाथाः पिशिताशिनाम् ॥१६॥
पशूनां ये च पतयः पतयो ये च पक्षिणाम् ।
मनुष्याणां च सर्पाणां नागानां चाधिपाश् च ये ॥१७॥
वृक्षाणां पर्वतानां च ग्रहाणां चापि येऽधिपाः ।
अतीता वर्तमानाश् च ये भविष्यन्ति चापरे ॥१८॥
ते सर्वे सर्वभूतस्य विष्णोर् अंशसमुद्भवाः ।
न हि पालनसामर्थ्यम् ऋते सर्वेश्वरं हरिम् ॥१९॥
स्थितौ स्थिरं महाप्राज्ञ भवत्यन्यस्य कस्यचित् ॥२०॥
अत्र हेतुर् नहीति ॥२०॥
सृजत्य् एषु जगत्सृष्टौ स्थितौ पाति सनातनः ।
हन्ति चैवान्तकत्वे च रजःसत्त्वादिसंश्रयः ॥२१॥
अत एव मुख्यः सृष्ट्यादिकर्ता स एवेत्य् आहसृजत्य् एष इति ॥२१॥
चतुर्विभागः संसृष्टौ चतुर्धा संस्थितः स्थितौ ।
प्रलयं च करोत्यन्ते चतुर्भेदो जनार्दनः ॥२२॥
तद् एव सृष्ट्यादिकर्तृत्वं चतुर्धा विभजतेचतुर्विभाग इत्यष्टभिः । संसृष्टाउ सम्यक् सृष्टौ चतुर्विभागः सन्न् इति क्वचित् पाठः ॥२२॥
एकेनांशेन ब्रह्मासौ भवत्यव्यक्तमूर्तिमान् ।
मरीचिमिश्राः पतयः प्रजानाम् अन्यभागतः ॥२३॥
कालस् तृतीयस् तस्यांशः सर्वभूतानि चापरः ।
इत्थं चतुर्धा संसृष्टौ वर्ततेऽसौ रजोगुणः ॥२४॥
एकांशेन स्थितौ विष्णुः करोति प्रतिपालनम् ।
मन्वादिरूपश् चान्येन कालरूपोऽपरेण च ॥२५॥
सर्वभूतेषु चान्येन संस्थितः कुरुते रतिम् ।
सत्त्वं गुणं समाश्रित्य जगतः पुरुषोत्तमः ॥२६॥
आश्रित्य तमसो वृत्तिम् अन्तकाले तथा पुनः ।
रुद्रस्वरूपो भगवान् एकांशेन भवत्यजः ॥२७॥
अग्न्यन्तकादिरूपेण भागेनान्येन वर्तते ।
कालस्वरूपो भागोऽन्यः सर्वभूतानि चापरः ॥२८॥
विनाशं कुर्वतस् तस्य चतुर्धैव महात्मनः ।
विभागकल्पना ब्रह्मन् कथ्यते सार्वकालिकी ॥२९॥
ब्रह्मा दक्षादयः कालस् तथैवाखिलजन्तवः ।
विभूतयो हरेर् एता जगतः सृष्टिहेतवः ॥३०॥
एते च ब्रह्मादयो हरेर् एव विभूतय इत्य् आहब्रह्मेति त्रिभिः । सार्वकालिकी सर्वकल्पगता ॥२९॥
विष्णुर् मन्वादयः कालः सर्वभूतानि च द्विज ।
स्थितेर् निमित्तभूतस्य विष्णोर् एता विभूतयः ॥३१॥
रुद्रकालान्तकाद्याश् च समस्ताश् चैव जन्तवः ।
चतुर्धा प्रलयायैता जनार्दनविभूतयः ॥३२॥
जगदादौ तथा मध्ये सृष्टिर् आ प्रलयाद् द्विज ।
धात्रा मरीचिमिश्रैश् च क्रियते जन्तुभिस् तथा ॥३३॥
ब्रह्मादिभगवद्विभूतीनां कालभेदेन स्रष्टृत्वम् आहजगद् आदाव् इति द्वाभ्याम् ॥३३॥
ब्रह्मा सृजत्य् आदिकाले मरीचिप्रमुखास् ततः ।
उत्पादयन्त्यपत्यानि जन्तवश् च प्रतिक्षणम् ॥३४॥
न कालेन विना ब्रह्मा सृष्टिनिष्पादको द्विज ।
न प्रजापतयः सर्वे न चैवाखिलजन्तवः ॥३५॥
कालाख्यविभूतेस् तु सर्वदा सृष्टिनिमित्तत्वम् आहन कालेनेति ॥३५॥
एवम् एव विभागोऽयं स्थिताव् अप्य् उपदिश्यते ।
चतुर्धा देवदेवस्य मैत्रेय प्रलये तथा ॥३६॥
एतद् एव स्थितिप्रलययोर् अप्यतिदिशतिएवम् एवेति ॥३६॥
यत् किञ्चित् सृज्यते येन सत्त्वजातेन वै द्विज ।
तस्य सृज्यस्य सम्भूतौ तत् सर्वं वै हरेस् तनुः ॥३७॥
उत्पादयन्त्यपत्यानीत्यपहरणं सृज्यमात्रोपलक्षणम् इति दर्शयन्न् आहयत् किञ्चिद् इति । सत्त्वजातेन प्राणिमात्रेण पालनेऽप्य् एतद् द्रष्टव्यम् ॥३७॥
हन्ति वा यत् क्वचित् किञ्चिद् भूतं स्थावरजङ्गमम् ।
जनार्दनस्य तद् रौद्रं मैत्रेयान्तकरं वपुः ॥३८॥
एवम् एव जगत्स्रष्टा जगत्पाता तथैव च ।
जगद् भक्षयता चेशः समस्तस्य जनार्दनः ॥३९॥
उक्तं ब्रह्मादीनां विष्णुविभूतित्वम् उपसंहरन्न् आहएवम् इति द्वाभ्याम् ॥३९॥
सर्गस्थित्यन्तकालेषु त्रिधैवं सम्प्रवर्तते ।
गुणप्रवृत्त्या परमं पदं तस्यागुणं महत् ॥४०॥
गुणप्रवृत्त्या गुणानां क्षोभेण त्रिविधः ब्रह्मादिरूपः सन् सृष्ट्यादौ सम्प्रवर्तते ॥४०॥
तत्त्वज्ञानमयं वापि स्वसंवेद्यम् अनौपमम् ।
चतुःप्रकारं तद् अपि स्वरूपं परमात्मनः ॥४१॥
तस्य तु परमं पदम् अगुणम्, अतो महत् पूर्णं तत्स्वरूपप्राप्तिप्रकारोपदेशार्थं चातुर्विध्यम् उपक्षिपतितत्त्वेति ॥४१॥
मैत्रेय उवाच
चतुःप्रकारतां तस्य ब्रह्मभूतस्य वै मुने ।
ममाचक्ष्व यथान्यायं यद् उक्तं परमं पदम् ॥४२॥
अगुणस्य ज्ञानस्य निर्भेदत्वात् कथं चातुर्विध्यम् इति पृच्छतिचतुःप्रकारम् इति ॥४२॥
पराशर उवाच
मैत्रेय कारणं प्रोक्तं साधनं सर्ववस्तुषु ।
साध्यं च वस्त्व् अभिमतं यत् साधयितुम् आत्मनः ॥४३॥
निर्गुणः ब्रह्मप्राप्तेः प्राग् एव तत्प्राप्त्युपायभूतसाधनाद्यालम्बनमनोवृत्त्यभिव्यङ्गावस्थाभेदाज् ज्ञानस्य चातुर्विध्यं न स्वरूपेणेति वक्तुम् आहमैत्रेयेत्यष्टभिः । सर्वेष्व् अपि वस्तुषु यत् कारणं तत् साधनं प्रोक्तं, तच् चात्मनः साधयितुम् अभिमतं वस्तु तत् साध्यं प्रोक्तम् इत्यन्वयः ॥४३॥
योगिनो मुक्तिकामस्य प्राणायामादिसाधनम् ।
साध्यं च परमब्रह्म पुनर् नावर्तते यतः ॥४४॥
प्रस्तुते च मुक्तिकामस्य योगिनो मुक्तेः साधनं देहात्मविवेकात्मरूपं, त्वम्पदार्थशुद्धिं विना मुक्तेर् असम्भवात् । साध्यं च तत्पदलक्ष्यं परमं ब्रह्म नित्यसुखात्मकत्वात् ॥४४॥
साधनालम्बनं ज्ञानं मुक्तये योगिनो हि यत् ।
स भेदः प्रथमस् तस्य ब्रह्मभूतस्य वै मुने ॥४५॥
ततः किम् ? अत आहसाधनेति । साधनं देहात्मविवेकेन त्वम्पदार्थशुद्धिः । तदालम्बनं शुद्धत्वं पदार्थविषयं ज्ञानं स एव चतुर्भेदज्ञानभूतस्य ब्रह्मणः प्रथमो भेदः ॥४५॥
युञ्जतः क्लेशमुक्त्यर्थं साध्यं यद् ब्रह्म योगिनः ।
तदालम्बनविज्ञानं द्वितीयोंऽशो महामुने ॥४६॥
क्लेशमुक्त्यर्थं युञ्जतः योगम् अभ्यस्यतो योगिनो यत् साध्यं ब्रह्म, तद्विषयं सच्चिदानन्दं ब्रह्मेति तत्पदलक्ष्यथार्थस्य विशेषणज्ञानं द्वितीयोऽंशः ॥४६॥
उभयोस् त्व् अविभागेन साध्यसाधनयोर् हि यत् ।
विज्ञानम् अद्वैतम् अयं तद्भागोऽन्यो मयोदितः ॥४७॥
ज्ञानत्रयस्य चैतस्य विशेषो यो महामुने ।
तन् निराकरणद्वारा दर्शितात्मस्वरूपवत् ॥४८॥
निर्व्यापारम् अनाख्येयं व्याप्तिमात्रम् अनौपमम् ।
आत्मसम्बोधविषयं सत्तामात्रम् अलक्षणम् ॥४९॥
प्रशान्तम् अभयं शुद्धम् अविभाव्यम् असंश्रितम् ।
विष्णोर् ज्ञानमयस्योक्तं तज्ज्ञानं परमं पदम् ॥५०॥
तत्रान्यज्ञानरोधेन योगिनो यान्ति ये लयम् ।
संसारकर्षणोप्तौ ते यान्ति निर्बीजतां द्विज ॥५१॥
एवम्प्रकारम् अमलम् आनांइअं व्यापकम् अक्षयम् ।
समस्तभेदरहितं विष्ण्वाख्यं परमं पदम् ॥५२॥
तद् ब्रह्म परमं योगी यतो नावर्तते पुनः ।
अपुण्यपुण्योपरमे क्षीणक्लेशोऽतिनिर्मलः ॥५३॥
द्वे रूपे ब्रह्मणस् तस्य मूर्तं चामूर्तम् एव च ।
क्षराक्षरस्वरूपे ते सर्वभूतेष्व् अवस्थिते ॥५४॥
अक्षरं तत् परं ब्रह्म क्षरं सर्वम् इदं जगत् ॥५५॥
एकदेशस्थितस्याग्नेर् ज्योत्स्ना विस्तारिणी यथा ।
परस्य ब्रह्मणः शक्तिस् तथेदम् अखिलं जगद् ॥५६॥
तत्राप्य् आसन्नदूरत्वाद् बहुत्वस्वल्पतामयः ।
ज्योत्स्नाभेदोऽस्ति तच्छक्तेस् तद्वन् मैत्रेय विद्यते ॥५७॥
ब्रह्मविष्णुशिवा ब्रह्मन् प्रधाना ब्रह्मशक्तयः ।
ततश् च देवा मैत्रेय न्यूना दक्षादयस् ततः ॥५८॥
ततो मनुष्याः पशवो मृगपक्षिसरीसृपाः ।
न्यूनान् न्यूनतरश् चैव वृक्षगुल्मादयस् तथा ॥५९॥
तद् एतद् अक्षरं नित्यं जगन्मुनिवराखिलम् ।
आविर्भावतिरोभावजन्मनाशविकल्पनात् ॥६०॥
सर्वशक्तिमयो विष्णुः स्वरूपं ब्रह्मणोऽपरम् ।
मूर्तं तद् योगिभिः पूर्वं योगारम्भेषु चिन्त्यते ॥६१॥
सालम्बनो महायोगः सबीजो यत्र संस्थितः ।
मनस्यव्याहते सम्यग् युञ्जतां जायते मुने ॥६२॥
स परः सर्वशक्तीनां ब्रह्मणः समनन्तरम् ।
मूर्तं ब्रह्म महाभाग सर्वब्रह्ममयो हरिः ॥६३॥
तत्र सर्वम् इदं प्रोतम् ओतं चैवाखिलं जगत् ।
ततो जगज् जगत् तस्मिन् स जगच् चाखिलं मुने ॥६४॥
तत्र हेतुम् आहतत्रेति । तस्मिन् अखिलं जगत् ओतं च प्रोतं च तन्तुषु पटवत् सर्वतोऽनुस्यूतम् । कुतः ? इत्यत्राहुःततो जगत् तस्मिंस् तिष्ठति, जगच् चाखिलं स एव, कारणात्मकत्वात् कार्यस्य ॥६४॥
क्षराक्षरमयो विष्णुर् बिभर्त्यखिलम् ईश्वरः ।
पुरुषाव्याकृतमयं भूषाणास्त्रस्वरूपवत् ॥६५॥
तद् एवं हरेः श्रैष्ठम् उक्त्वेदानीं तद् उपासनाप्रकारम् उपक्षिपतिक्षराक्षरमय इति । कार्यकारणात्मको विष्णुः पुरुषव्याकृतमयं पुरुषप्रकृत्यात्मकम् इदं जगद् भूषणास्त्रस्वरूपेण बिभर्ति ॥६५॥
श्रीमैत्रेय उवाच
भूषणास्त्रस्वरूपस्थं यच् चैतद् अखिलं जगत् ।
बिभर्ति भगवान् विष्णुस् तन् ममाख्यातुम् अर्हसि ॥६६॥
अतिरहस्यत्वात् विशेषतो बुभूत्सुः पृच्छतिभूषणेति ॥६६॥
श्रीपराशर उवाच
नमस्कृत्याप्रमेयाय विष्णवे प्रभविष्णवे ।
कथयामि यथाख्यातं वसिष्ठेन ममाभवत् ॥६७॥
प्रभविष्णवे प्रभवनशीलाय भक्तचिन्तनमात्रेण सर्वपुरुषार्थदानसमर्थायेत्यर्थः । यथा मम विशिष्टेनाख्यातम् अभवत्, तथा तव कथयिष्यामि ॥६७॥
आत्मानम् अस्य जगतो निर्लेपम् अगुणामलम् ।
बिभर्ति कौस्तुभमणिस्वरूपं भगवान् हरिर् ॥६८॥
अस्य जगत आत्मानं पुरुषं शुद्धं क्षेत्रज्ञम् ॥६८॥
श्रीवत्ससंस्थानधरम् अनन्तेन समाश्रितम् ।
प्रधानं बुद्धिर् अप्य् आस्ते गदारूपेण माधवे ॥६९॥
प्रधानं च श्रीवत्ससंस्थानधरं सत् अनन्ते समाश्रितम् आस्त इत्यन्वयः । श्रीवत्सरूपं च गारुडपुराणे प्रोक्तम्प्रदक्षिणावर्तविचित्ररोम श्रीवत्समद्बिम्बविभूषितान्तम् । वक्षो विचिन्त्यम् इति । बुद्धिसहितं प्रधानम् अपि गदारूपेणास्ते ॥६९॥
भूतादिम् इन्द्रियादिं च द्विधाहङ्कारम् ईश्वरः ।
बिभर्ति शङ्खरूपेण शार्ङ्गरूपेण च स्थितम् ॥७०॥
भूतादिं तामसम् । इन्द्रियादिं च राजसम् । द्विधा अहङ्कारं यथाक्रमं शङ्खस्वरूपेण शार्ङ्गस्वरूपेण च स्थितं बिभर्ति ॥७०॥
चलत्स्वरूपम् अत्यन्तं जवेनान्तरितानिलम् ।
चक्रस्वरूपं च मनो धत्ते विष्णुकरे स्थितम् ॥७१॥
पञ्चरूपा तु या माला वैजयन्ती गदाभृतः ।
सा भूतहेतुसङ्घाता भूतमाला च वै द्विज ॥७२॥
यानीन्द्रियाण्यशेषाणि बुद्धिकर्मात्मकानि वै ।
शररूपाण्यशेषाणि तानि धत्ते जनार्दनः ॥७३॥
बिभर्ति यच् चासिरत्नम् अच्युतोऽत्यन्तनिर्मलम् ।
विद्यामयं तु तज् ज्ञानम् अविद्याकोशसंस्थितम् ॥७४॥
इत्थं पुमान् प्रधानं च बुद्ध्यहङ्कारम् एव च ।
भूतानि च हृषीकेशे मनः सर्वेन्द्रियाणि च ।
विद्याविद्ये च मैत्रेय सर्वम् एतत् समाश्रितम् ॥७५॥
अस्त्रभूषणसंस्थानस्वरूपं रूपवर्जितः ।
बिभर्ति मायारूपोऽसौ श्रेयसे प्राणिनां हरिः ॥७६॥
सविकारं प्रधानं च पुमांसम् अखिलं जगत् ।
बिभर्ति पुण्डरीकाक्षस् तद् एवं परमेश्वरः ॥७७॥
या विद्या या तथाविद्या यत् सद् यच् चासद् अव्ययम् ।
तत् सर्वं सर्वभूतेशे मैत्रेय मधुसूदने ॥७८॥
कलाकाष्ठानिमेषादिदिनर्त्वयनहायनैः ।
कालस्वरूपो भगवान् अपापो हरिर् अव्ययः ॥७९॥
भूर्लोकोऽथ भुवर्लोकः स्वर्लोको मुनिसत्तम ।
महर्जनस्तपःसत्यं सप्तलोका इमे विभुः ॥८०॥
लोकात्ममूर्तिः सर्वेषां पूर्वेषाम् अपि पूर्वजः ।
आधारः सर्वविद्यानां स्वयम् एव हरिः स्थितः ॥८१॥
देवमानुषपश्वादिस्वरूपैर् बहुभिः स्थितः ।
ततः सर्वेश्वरोऽनन्तो भूतमूर्तिर् अमूर्तिमान् ॥८२॥
ऋचो यजूंषि सामानि तथैवाथर्वणानि वै ।
इतिहासोपवेदाश् च वेदान्तेषु तथोक्तयः ॥८३॥
वेदाङ्गानि समस्तानि मन्वादिगदितानि च ।
शास्त्राण्यशेषाण्य् आख्यानान्यनुवाकाश् च ये क्वचित् ॥८४॥
काव्यालापश् च ये केचिद् गीतकान्यखिलानि च ।
शब्दमूर्तिधरस्यैतद् वपुर् विष्णोर् महात्मनः ॥८५॥
यानि मूर्तान्यमूर्तानि यान्यत्रान्यत्र वा क्वचित् ।
सन्ति वै वस्तुजातानि तानि सर्वाणि तद्वपुः ॥८६॥
अहं हरिः सर्वम् इदं जनार्दनो
नान्यत् ततः कारणकार्यजातम् ।
ईदृङ् मनो यस्य न तस्य भूयो
भवोद्भवो द्वन्द्वगदा भवन्ति ॥८७॥
इत्य् एष तेऽंशः प्रथमः पुराणस्यास्य वै द्विज ।
यथावत् कथितो यस्मिन् श्रुते पापैः प्रमुच्यते ॥८८॥
कार्त्तिक्यां पुष्करस्नाने द्वादशाब्देन यत् फलम् ।
तद् अस्य श्रवणात् सर्वं मैत्रेयाप्नोति मानवः ॥८९॥
देवर्षिपितृगन्धर्वयक्षादीनां च सम्भवम् ।
भवन्ति शृण्वतः पुंसो देवाद्या वरदा मुने ॥९०॥
इति श्रीविष्णुपुराणे प्रथमेंऽशे द्वाविंशोऽध्यायः
॥२२॥
इति श्रीपराशरमुनिविरचितं
श्रीविष्णुपरत्वनिर्णायके श्रीमति विष्णुमहापुराणे
प्रथमोऽंशः समाप्तः
॥१॥