अथ एकविंशोऽध्यायः
प्रह्लादवंशकथनम्
श्रीपराशर उवाच
संह्रादपुत्र आयुष्मान् शिबिर् बाष्कल एव च ।
विरोचनस् तु प्राह्लादिर् बलिर् जज्ञे विरोचनात् ॥१॥
बलेः पुत्रशतं त्व् आसीद् बाणज्येष्ठं महामुने ।
हिरण्याक्षसुताश् चासन् सर्व एव महाबलाः ॥२॥
उत्कुरः शकुनिश् चैव भूतसन्तापनस् तथा ।
महानाभो महाबाहुः कालनाभस् तथापरः ॥३॥
अभवन् दनुपुत्राश् च द्विमूर्धा शम्बरस् तथा ।
अयोमुखः शङ्कुशिराः कपिलः शङ्करस् तथा ॥४॥
एकचक्रो महाबाहुस् तारकश् च महाबलः ।
स्वर्भानुर् वृषपर्वा च पुलोमश् च महाबलः ॥५॥
एते दनोः सुताः ख्याता विप्रचित्तिश् च वीर्यवान् ॥६॥
स्वर्भानोस् तु प्रभा कन्या शर्मिष्ठा वार्षपर्वणी ।
उपदानी हयशिराः प्रख्याता वरकन्यकाः ॥७॥
वैश्वानरसुते चोभे पुलोमा कालका तथा ।
उभे सुते महाभागे मारीचेस् तु परिग्रहः ॥८॥
ताभ्याम् पुत्रसहस्राणि षष्ठिर् दानवसत्तमाः ।
पौलोमाः कालकेयाश् च मारीचतनयाः स्मृताः ॥९॥
ततोऽपरे महावीर्या दारुणास् त्व् अतिनिर्घृणाः ।
सिंहिकायाम् अथोत्पन्ना विप्रचित्तेः सुतास् तथा ॥१०॥
व्यंशः शल्यश् च बलवान् नभश् चैव महाबलः ।
वातापी नमुचिश् चैव इल्वलः स्वसृमस् तथा ॥११॥
अन्धको नरकश् चैव कालनाभस् तथैव च ।
स्वर्भानुश् च महावीर्यो वक्त्रयोधी महासुरः ॥१२॥
एते वै दानवाः श्रेष्ठा दनुवंशविवर्धनाः ।
एतेषां पुत्रपौत्राश् च शतशोऽथ सहस्रशः ॥१३॥
प्रह्लादस्य तु दैत्यस्य निवातकवचाः कुले ।
समुत्पन्नाः सुमहता तपसा भावितात्मनः ॥१४॥
+++
इति श्रीविष्णुपुराणे प्रथमेंऽशे एकविंशोऽध्यायः
॥२१॥
ओ)०(ओ