२०

अथ विंशोऽध्यायः
श्रीभगवत आविर्भावः, हिरण्यकशिपुवधश् च

पराशर उवाच
एवं सञ्चितन्यन् विष्णुम् अभेदेनात्मनो द्विज ।
तन्मयत्वम् अवाप्याग्र्यं मेने चात्मानम् अच्युतम् ॥१॥
विसस्मार तथात्मानं नान्यत् किञ्चिद् अजानत ।
अहम् एवाव्ययोऽनन्तः परमात्मेत्यचिन्तयत् ॥२॥

आत्मानं प्रह्लादोऽहम् इति विस्मृतवान् ॥२॥

तस्य तद्भावनायोगात् क्षीणपापस्य वै क्रमात् ।
शुद्धेऽन्तःकरणे विष्णुस् तस्थौ ज्ञानमयेऽच्युतः ॥३॥

क्षीणपापस्य ध्वस्तसमस्तकर्मवासनामलस्य ॥३॥

योगप्रभावात् प्रह्लादे जाते विष्णुमयेऽसुरे ।
चलत्य् उरगबन्धैस् तैर् मैत्रेय त्रुटितं क्षणात् ॥४॥

त्रुटितं छिन्नं, भावे क्तः ॥४॥

भ्रान्तग्राहगणः सोर्मिर् ययौ क्षोभं महार्णवः ।
चचाल च मही सर्वा सशैलवनकानना ॥५॥

भ्रान्तो ग्राहगणो यस्मिन् सः । सोर्मिः ऊर्मिभिः सह वर्तमानः ॥५॥

स च तं शैलसम्पातं दैत्यैर् न्यस्तम् अथोपरि ।
प्रक्षिप्य तस्मात् सलिलान् निश्चक्राम महामतिः ॥६॥
दृष्ट्वा च स जगद् भूयो गगनाद्युपलक्षणम् ।
प्रह्लादोऽस्मीति सस्मार पुनर् आत्मानम् आत्मना ॥७॥
तुष्टाव च पुनर् धीमान् अनादिं पुरुषोत्तमम् ।
एकाग्रमतिर् अव्यग्रो यतवाक् कायमानसः ॥८॥

प्रह्लाद उवाच
ओं नमो परमार्थार्थं स्थूलसूक्ष्मक्षराक्षर ।
व्यक्ताव्यक्त कलातीत सकलेश निरञ्जन ॥९॥

हे परमार्थज्ञानरूप ! हे अर्थदृश्यरूप !

ज्ञानस्वरूपम् अत्यन्तनिर्मलं परमार्थतः ।
तम् एवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम् ॥ इत्य् उक्तत्वात् ।

स्थूलजाग्रद्दृश्यरूप ! कलातीत निरवयव ! सकल सावयव ! ईश नियामक ! निरञ्जन निर्लेप ॥९॥

गुणाञ्जन गुणाधार निर्गुणात्मन् गुणस्थिर ।
मूर्तामूर्त महामूर्ते सूक्ष्ममूर्ते स्फुटास्फुट ॥१०॥

गुणान् अनक्ति स्वसत्ताप्रकाशाभ्याम् अनुरञ्जयतीति वा । गुणानाम् आधार ! गुणेषु स्थिर ! परस्थितेति पाठे परम् अव्यक्तं तत्र स्थितेत्यर्थः । भक्तानां स्फुट, अन्येषाम् अस्फुट ॥१०॥

करालसौम्यरूपात्मन् विद्याविद्यालयाच्युत ।
सदसद्रूप सद्भाव सदसद्भावभावन ॥११॥

करालसौम्यरूपाणाम् आत्मन् ! सदसद्रूपयोः कार्यकारणयोः सद्भाव उत्पत्तिर् यस्मात् ताव् एव च सदसद्भावौ भावयति पालयतीति तथा ॥११॥

नित्यानित्यप्रपञ्चात्मन् निष्प्रपञ्चामलाश्रित ।
एकानेक नमस् तुभ्यं वासुदेवादिकारण ॥१२॥

अमलैर् ज्ञानिभिर् आश्रित परमार्थेत्यादिषु आदिकारणेत्यन्तेषु षट्त्रिंशत् सम्बोधनेषु तुभ्यं नम इत्यनुषङ्गेन प्रत्येकं वाक्यसमाप्तिः कर्तव्या ॥१२॥

यः स्थूलसूक्ष्मः प्रकटः प्रकाशो
यः सर्वभूतो न च सर्वभूतः ।
विश्वं यतश् चैतद् अविश्वहेतोर्
नमोऽस्तु तस्मै पुरुषोत्तमाय ॥१३॥

सर्वेषां भूतानां यः प्रकटः प्रकाशश् चिद्रूपत्वात् । अविश्वहेतोः सर्वकारणव्यतिरिक्तत्वात् ॥१३॥

पराशर उवाच
तस्य तच्चेतसो देवः स्तुतिम् इत्थं प्रकुर्वतः ।
आविर्बभूव भगवान् पीताम्बरधरो हरिः ॥१४॥

तस्मिन् हराव् एव चेतो यस्य ॥१४॥

ससम्भ्रमस् तम् आलोक्य समुत्थायाकुलाक्षरम् ।
नमोऽस्तु विष्णवेत्य् एतद् व्याजहारासकृद् द्विज ॥१५॥

विष्णवेति सन्धिर् आर्षः ॥१५॥

प्रह्लाद उवाच
देव प्रपन्नार्तिहर प्रसादं कुरु केशव ।
अवलोकनदानेन भूयो मां पावयाच्युत ॥१६॥

अवलोकनं प्रत्यक्षं दर्शनं तस्य दानेन ॥१६॥

श्रीभगवान् उवाच
कुर्वतस् ते प्रसन्नोऽहं भक्तिम् अव्यभिचारिणीम् ।
यथाभिलषितो मत्तः प्रह्लाद व्रियतां वरः ॥१७॥

प्रह्लाद उवाच
नाथ योनिसहस्रेषु येषु येषु व्रजाम्यहम् ।
तेषु तेष्व् अच्युता भक्तिर् अच्युतेऽस्तु सदा त्वयि ॥१८॥
या प्रीतिर् अविवेकानां विषयेष्व् अनपायिनी ।
त्वाम् अनुस्मरतः सा मे हृदयान् नापसर्पतु ॥१९॥

हे अच्युत ! त्वयि मे अच्युता ऐकान्तिकी भक्तिर् अस्तु, एकान्तभक्तिः परमप्रीत्यधीनेति तां प्रीतिं प्रार्थ‎यतेयेति । यादृशी प्रीतिर् विषयेषु आसक्तानां, सा तादृशी प्रीतिर् मे हृदयात् मा अपसर्पतु, मा अपयातु हृदये सदा तिष्ठत्व् इत्यर्थः । यद् वा, हे माप लक्ष्मीपते ! सा विषयप्रीतिस् त्वाम् अनुस्मरतो हृदयात् सर्पतु निर्गच्छतु । तत् प्रीतौ सत्यां त्वदनुस्मरणायोगाद् इत्यर्थः ॥१८१९॥

श्रीभगवान् उवाच
मयि भक्तिस् तवास्त्य् एव भूयोऽप्य् एवं भविष्यति ।
वरस् तु मत्तः प्रह्लाद व्रियतां यस् तवेप्सितः ॥२०॥

प्रह्लाद उवाच
मयि द्वेषानुबन्धोऽभूत् संस्तुताव् उद्यते तव ।
मत्पितुस् तत्कृतं पापं देव तस्य प्रणश्यतु ॥२१॥
शस्त्राणि पातितान्यङ्गे क्षिप्तो यच् चाग्निसंहतौ ।
दंशितश् चोरगैर् दत्तं यद् विषं मम भोजने ॥२२॥
बद्ध्वा समुद्रे यत् क्षिप्तो यच् चितोऽस्मि शिलोच्चयैः ।
अन्यानि चाप्यसाधूनि यानि यानि कृतानि मे ॥२३॥

शिलोच्चयैः पर्वतोघैश् चितोऽस्मि ॥२३॥

त्वयि भक्तिमतो द्वेषाद् अघं तत्सम्भवं च यत् ।
त्वत्प्रसादात् प्रभो सद्यस् तेन मुच्येत मे पिता ॥२४॥

तेन पापेन मे पिता मुच्येत ॥२४॥

श्रीभगवान् उवाच
प्रह्लाद सर्वम् एतत् ते मत्प्रसादाद् भविष्यति ।
अन्यच् च ते वरं दद्मि व्रियताम् असुरात्मज ॥२५॥

प्रह्लाद उवाच
कृतकृत्योऽस्मि भगवन् वरेणानेन यत् त्वयि ।
भवित्री त्वत्प्रसादेन भक्तिर् अव्यभिचारिणी ॥२६॥
धर्मार्थकामैः किं तस्य मुक्तिस् तस्य करे स्थिता ।
समस्तजगतां मूले यस्य भक्तिः स्थिरा त्वयि ॥२७॥

श्रीभगवान् उवाच
यथा ते निश्चलं चेतो मयि भक्तिसमन्वितम् ।
तथा त्वं मत्प्रसादेन निर्वाणं परम् आप्स्यति ॥२८॥

पराशर उवाच
इत्य् उक्त्वान्तर्दधे विष्णुस् तस्य मैत्रेय पश्यतः ।
स चापि पुनर् आगम्य ववन्दे चरणौ पितुः ॥२९॥
तं पिता मूर्धन्य् उपाघ्राय परिष्वज्य च पीडितम् ।
जीवसीत्य् आह वत्सेति बाष्पार्द्रनयनो द्विज ॥३०॥
प्रीतिमांश् चाभवत् तस्मिन्न् अनुतापी महासुरः ।
गुरुपित्रोश् चकारैवं शुश्रूषां सोऽपि धर्मवित् ॥३१॥

वैष्णवानुभावदर्शनात् प्रीतिमांश् च तदा तस्मिन् अभवत् ॥३१॥

पितर्य् उपरतिं नीते नरसिंहस्वरूपिणा ।
विष्णुना सोऽपि दैत्यानां मैत्रेयाभूत् पतिस् ततः ॥३२॥

पुनश् च कालान्तरे ब्रह्मशापवशाद् उद्भूतेन विष्णुद्वेषणादिक्रोधा तं हन्तुम् उद्यते तत्पितरि नरसिंहस्वरूपेण विष्णुना उपरतिं नीते सति प्रह्लादो दैत्यानां पतिर् अभूत् ॥३२॥

ततो राज्यद्युतिं प्राप्य कर्मशुद्धिकरीं द्विज ।
पुत्रपौत्रांश् च सुबहून् अवाप्यैश्वर्यम् एव च ॥३३॥

राज्यद्युतिं राजलक्ष्मीं कर्मशुद्धिकरीं भोगैः प्रारब्धक्षयकरीं प्राप्य ॥३३॥

क्षीणाधिकारः स यदा पुण्यपापविवर्जितः ।
तदासौ भगवद्ध्यानात् परं निर्वाणम् आप्तवान् ॥३४॥

क्षीणाधिकारो भोगैः क्षीणप्रारब्धकर्मज्ञानात् पूर्वोत्तरैः पुण्यपापैश् च विवर्जितः पूर्वसर्वकर्मविनाशात् अश्लेषाच् च उत्तरेषां, तत् सुकृतदुष्कृते विधुनुत इत्यादिश्रुतेः । तदधिगम उत्तरपूर्वाद्ययोर् अश्लेषविनाशौ तद्व्यपदेशाद् इति न्यायाच् च ॥३४॥

एवम्प्रभावो दैत्योऽसौ मैत्रेयासीन् महामतिः ।
प्रह्लादो भगवद्भक्तो यं त्वं माम् अनुपृच्छसि ॥३५॥
यस् त्व् एतच् चरितं तस्य प्रह्लादस्य महात्मनः ।
शृणोति तस्य पापानि सद्यो गच्छन्ति सङ्क्षयम् ॥३६॥
अहोरात्रकृतं पापं प्रह्लादचरितं नरः ।
शृण्वन् पठंश् च मैत्रेय व्यपोहति न संशयः ॥३७॥

अहोरात्रं निरन्तरं यत् कृतं पापं तत् सकृत् शृण्वन् एवं पठन्न् एव विशेषेण सवासनम् अपोहति निरस्यति, न तु सम्पूर्णं श्रुत्वा पठित्वा चेत्य् एकदेशचरणारविन्दपाठफलोक्तिः ॥३७॥

पौर्णमास्याम् अमावस्याम् अष्टम्याम् अथवा पठन् ।
द्वादश्यां वा तद् आप्नोति गोप्रदानफलं द्विज ॥३८॥

अमावस्यायाम् इत्यर्थः । गोः प्रदानं प्रकर्षेण दानं कुरुक्षेत्रे सूर्यग्रहणे ब्रह्मविदे उभयतो मुख्याः सुवर्णशृङ्गादि सम्पूर्णदक्षिणादि सच्छ्रद्धादिसकलाङ्गकलापेन यथावद् दाने यत् फलं तत् फलम् एतच् चरितं सम्पठन्न् एव प्राप्नोतीत्यर्थः ॥३८॥

प्रह्लादं सकलापत्सु यथा रक्षितवान् हरिः ।
तथा रक्षितो यस् तस्य शृणोति चरितं सदा ॥३९॥

सदा चरणारविन्दस्य फलम् आहप्रह्लादम् इति ।

करुणं चरणानम्रे दारुणं प्रणतद्रुहि ।
भूषणवरदं वन्दे नृसिंहं वृणिभीषणम् ॥

इति श्रीविष्णुपुराणे प्रथमेंऽशे विंशोऽध्यायः
॥२०॥

ओ)०(ओ