१९

अथ एकोनविंशोऽध्यायः
प्रह्लादं प्रति हिरण्यकशिपोर् उक्तिः, प्रह्लादस्य विष्णुस्तवश् च

पराशर उवाच
हिरण्यकशिपुः श्रुत्वा तां कृत्यां वितथीकृताम् ।
आहूय पुत्रं पप्रच्छ प्रभावस्यास्य कारणम् ॥१॥

हिरण्यकशिपुर् उवाच
प्रह्लाद सुप्रभावोऽसि किम् एतत् ते विचेष्टितम् ।
एतन् मन्त्रादिजनितम् उताहो सहजं तव ॥२॥

सहजं नैसर्गिकम् ॥२॥

पराशर उवाच
एवं पृष्टस्त् तदा पित्रा प्रह्लादोऽसुरबालकः ।
प्रणिपत्य पितुः पादाव् इदं वचनम् अब्रवीत् ॥३॥

प्रह्लाद उवाच
न मन्त्रादिकृतं तात न वा नैसर्गिकं मम ।
प्रभाव एष सामान्यो यस्य यस्याच्युतो हृदि ॥४॥

सामान्यः समानः ॥४॥

अन्येषां यो न पापानि चिन्तयत्य् आत्मनो यथा ।
तस्य पापागमस् तात हेत्वभावान् न विद्यते ॥५॥

किं च, अन्येषां यः पापानि तत्फलानि दुःखानि न चिन्तयति, तस्य पापागमो दुःखागमो नास्ति ॥५॥

कर्मणा मनसा वाचा परपीडां करोति यः ।
तद्बीजजन्यं फलति प्रभूतं तस्य चाशुभम् ॥६॥

यस् तत् पीडाकारणम् एव बीजं, तस्माद् जन्म यस्य तद् अशुभं पापं, तस्य कर्तुः । अत्यधिकं फलति दुःखफलात्मना च ते ॥६॥

सोऽहं न पापम् इच्छामि न करोमि वदामि वा ।
चिन्तयन् सर्वभूतस्थम् आत्मन्यपि च केशवम् ॥७॥
शारीरं मानसं दुःखं दैवं भूतभवं तथा ।
सर्वत्र शुभचित्तस्य तस्य मे जा‎यते कुतः ॥८॥
एवं सर्वेषु भूतेषु भक्तिर् अव्यभिचारिणी ।
कर्तव्या पण्डितैर् ज्ञात्वा सर्वभूतमयं हरिम् ॥९॥

एवं सर्वभूतमयं हरिं ज्ञात्वा सर्वेषु भूतेषु तद् भक्तिः कर्तव्या ॥९॥

पराशर उवाच
इति श्रुत्वा स दैत्येन्द्रः प्रासादशिखरे स्थितः ।
क्रोधान्धकारितमुखः प्राह दैतेयकिङ्करान् ॥१०॥

क्रोधेनान्धकारितं जातान्धकारम् इव दुष्प्रेक्ष्यं मुखं यस्य सः ॥१०॥

दुरात्मा क्षित्प्यताम् अस्मात् प्रासादाच् छतयोजनात् ।
गिरिपृष्ठे पतत्व् अस्मिन् शिलाभिन्नाङ्गसंहतिः ॥११॥

शस्त्रविषाग्निकृत्यादीनां मणिमन्त्रादिभिः स्तम्भनं सम्भवति, पतने तु न किञ्चित् प्रभवति इत्य् आशयेन दैत्यान् आदिशतिदुरात्मा क्षिप्यताम् इति ॥११॥

ततस् त चिक्षिपुः सर्वे बालं दैतेयदानवाः ।
पपात सोऽप्यधः क्षिप्तो हृदयेनोद्वहन् हरिम् ॥१२॥
पतमानं जगद्धात्री जगद्धातरि केशवे ।
भक्तियुक्तं दधारैनम् उपसङ्गम्य मेदिनी ॥१३॥
ततो विलोक्य तं स्वस्थम् अविशीर्णास्थिपञ्जरम् ।
हिरण्यकशिपुः प्राह शम्बरं मायिनां वरम् ॥१४॥

हिरण्यकशिपुर् उवाच
नास्माभिः शक्‎यते हन्तुम् असौ दुर्बुद्धिबालकः ।
मायां वेत्ति भवांस् तस्मान् माययैनं निषूदय ॥१५॥

वास्तवैर् उपायैर् हन्तुम् अशक्यत्वात् तद्वधे मायाविनं नियुङ्क्तेनास्माभिर् इति । निषूदय विनाशय ॥१५॥

शम्बर उवाच
सूदयाम्य् एष दैत्येन्द्र पश्य मायाबलं मम ।
सहस्रमात्रं मायानां यस्य कोटिशतं तथा ॥१६॥

पराशर उवाच
ततः स ससृजे मायां प्रह्लादे शम्बरोऽसुरः ।
विनाशम् इच्छन् दुर्बुद्धिः सर्वत्र समदर्शिनि ॥१७॥
समाहितमतिर् भूत्वा शम्बरेऽपि विमत्सरः ।
मैत्रेय सोऽपि प्रह्लादः सस्मार मधुसूदनम् ॥१८॥
ततो भगवता तस्य रक्षार्थं चक्रम् उत्तमम् ।
आजगाम समाज्ञप्तं ज्वालामालि सुदर्शनम् ॥१९॥

सुदर्शनं शुद्धज्ञानमयम् ॥१९॥

तेन मायासहस्रं तच् छम्बरस्याशुगामिना ।
बालस्य रक्षता देहम् ऐकैकश्येन सूदितम् ॥२०॥

अतस् तेन मायासहस्रं प्रत्येकं विनाशितम् ॥२०॥

संशोषकं तथा वायुं दैत्येन्द्रास् त्व् इदम् अब्रवीत् ।
शीघ्रम् एष ममादेशाद् दुरात्मा नीयतां क्षयम् ॥२१॥

दृश्येषु वधोपायेषु प्रतिघातम् असौ करोतीति अदृश्यं वायुं नियुङ्क्ते इत्य् आहसंशोषकम् इति ॥२१॥

तथेत्य् उक्त्वा तु सोऽप्य् एनं विवेश पवनो लघु ।
शीतोऽतिरूक्षः शोषाय तद्देहस्यातिदुःसहः ॥२२॥

लघु शीघ्रम् । लघुर् इति पाठे लघुवान् शीतोऽतिरुक्षश् च शीतज्वरप्रायः ॥२२॥

तेनाविष्टम् अथात्मानं स बुद्ध्वा दैत्यबालकः ।
हृदयेन महात्मानं दधार धरणीधरम् ॥२३॥

तेनाविष्टं व्याप्तम् । धरणीधरं वायुभक्ष्यं शेषस्वरूपम् ॥२३॥

हृदयस्थस् तत्स् तस्य तं वायुम् अतिभीषणम् ।
पपौ जनार्दनः क्रुद्धः स ययौ पवनः क्षयम् ॥२४॥
क्षीणासु सर्वमायासु पवने च क्षयं गते ।
जगाम सोऽपि भवनं गुरोर् एव महामतिः ॥२५॥
अहन्यहन्यथाचार्यो नीतिं राज्यफलप्रदाम् ।
ग्राहयामास तं बालं राज्ञाम् उशनसा कृताम् ॥२६॥
गृहीतनीतिशास्त्रं तं विनीतं च यदा गुरुः ।
मेने तदैनं तत् पित्रे कथयामास शिक्षितम् ॥२७॥

आचार्य उवाच
गृहीतनीतिशास्त्रस् ते पुत्रोदैत्यपते कृतः ।
प्रह्लादस् तत्त्वतो वेत्ति भार्गवेण यद् ईरितम् ॥२८॥

हिरण्यकशिपुर् उवाच
मित्रेषु वर्तेत कथम् अरिवर्गेषु भूपतिः ।
प्रह्लाद त्रिषु कालेषु मध्यस्थेषु कथं चरेत् ॥२९॥
कथं मन्त्रिष्व् अमात्येषु बाह्येष्व् अभ्यन्तरेषु च ।
चारेषु चौरवर्गेषु शङ्कितेष्व् इतरेषु च ॥३०॥

मन्त्रिषु बुद्धिसहायेषु । अभ्यन्तरेषु अन्तःपुरमहानसादाव् अधिकृतेषु दूतेषु वा । शङ्कितेषु जित्वा बलाद् दासीकृतेषु भूतेषु इतरेषु असत्सङ्गिषु च ॥३०॥

कृत्याकृत्यविधानेषु दुर्गाटविकसाधने ।
प्रह्लाद कथ्यतां सम्यक् तथा कण्टकशोधने ॥३१॥

कृत्याकृत्यविधानम् । सन्धि.विग्रहादिषु कुत्र किं कृत्यं, कुत्र किम् अकृत्यम् इत्य् एष प्रकारः । यद् वा, कृत्याः शत्रुभिर् भेद्याः । तेषाम् अकृत्यविधानम् अभेद्यत्वकरणं दुर्गपर्वतोदकादि । आटविकाः महारण्यनिवासिनः । पुलिन्दा म्लेच्छादयस् तेषां साधनं वशीकरणम् । कण्टकाश् चोराः गूढशत्रवो वा तेषां शोधनं निरसनम् ॥३१॥

एताच् चान्यच् च सकलम् अधीतं भवता यथा ।
तथा मे कथ्यतां ज्ञातुं तवेच्छामि मनोगतम् ॥३२॥

अन्यच् च सामभेदादि ॥३२॥

पराशर उवाच
प्रणिपत्य पितुः पादौ तथा प्रश्रयभूषणः ।
प्रह्लादः प्राह दैत्येन्द्रं कृताञ्जलिपुटस् तथा ॥३३॥

प्रश्रय एव भूषणं यस्य सः ॥३३॥

प्रह्लाद उवाच
ममोपदिष्टं सकलं गुरुणा नात्र संशयः ।
गृहीतं च मया किन्तु न सद् एतन् मतं मम ॥३४॥
साम चोपप्रदानं च भेददण्डौ तथपरौ ।
उपायाः कथिताः सर्वे मित्रादीनां च साधने ॥३५॥

कुपितस्य स्तुत्यादिभिः साधनं साम । ऐकमत्येन स्थितानां भयजननादिना पृथक्करणं भेदः । भूमिधनादिसमर्पणम् उपादानम् । अर्थापहारादिदण्ड इत्य् एते उपायाः ॥३५॥

तान् एवाहं न पश्यामि मित्रादींस् तात मा क्रुधः ।
साध्याभावे महाबाहो साधनैः किं प्रयोजनम् ॥३६॥

मा क्रुधः क्रोधं मा कार्षीः ॥३६॥

सर्वभूतात्मके तात जगन्नाथे जगन्मये ।
परमात्मनि गोविन्दे मित्रामित्रकथा कुतः ॥३७॥

सर्वभूतात्मके सर्वेषां भूतानाम् आत्मनि परमात्मनि सर्वजीवनियन्तरि ॥३७॥

त्वय्यस्ति भगवान् विष्णुर् मयि चान्यथा चास्ति सः ।
यतस् ततोऽयं मित्रं मे शत्रुश् चेति पृथक् कुतः ॥३८॥

तद् एवाहत्वय्यस्तीति । पृथग् भेदः कुतः ॥३८॥

तद् एभिर् अलम् अत्यर्थं दुष्टारम्भोक्तिविस्तरैः ।
अविद्यान्तर्गतैर् यत्नः कर्तव्यस् तात शोभने ॥३९॥

दुष्टा रागद्वेषादिपूर्वका ये आरम्भा उद्यमाः तेषाम् उक्तिविस्तरैर् नीतिशास्त्रैर् अलम् । दृष्टारम्भेति पाठेदृष्ट्वा ऐहिकभोगारम्भाः । शोभने निष्कामे आत्मविद्यायां च ॥३९॥

विद्याबुद्धिर् अविद्यायाम् अज्ञानात् तात जा‎यते ।
बालोऽग्निं किं न खद्योतम् असुरेश्वर मन्यते ॥४०॥

ननु च
आयुर्वेदो धनुर्वेदो गान्धर्वश् चेति ते त्रयः ।
अर्थशास्त्रचतुर्थास् तु विद्या अष्टादशैव तु ॥

इति स्मृतेर् दण्डनीत्यादिकम् अपि विद्यैव, कथम् अविद्यान्तर्गतैर् इत्य् उच्यते ? तत्राहविद्याबुद्धिर् इति । बालः खद्योतम् अग्निं किं न मन्यते ? अपि तु मन्यते एव, तद्वत् ॥४०॥

तत् कर्म यन् न बन्धाय सा विद्या या विमुक्तये ।
आयासायापरं कर्म विद्यान्या शिल्पनैपुणम् ॥४१॥

शोभने यत्नः कर्तव्यः इति यद् उक्तं, तद् एव शोभनकर्मादिकम् आहतत् कर्मेति । अपरम् अर्थकामाद्यर्थं कर्म आयासाय श्रमार्थम् एव । अन्या विद्या अर्थशास्त्रादिः । शिल्पनैपुणम् ऐन्द्रजालिकादिशिल्पविद्यावत् कौशलमात्रम् एव । तुच्छभलत्वाद् इत्यर्थः ॥४१॥

तद् एतद् अवगम्याहम् असारं सारम् उत्तमम् ।
निशामय महाभाग प्रणिपत्य ब्रवीमि ते ॥४२॥

तद् एतद् राज्यादिसाध्यसमारम्भं तुच्छं ज्ञात्वा उत्तमं साध्यं यत् प्रकर्षेण ब्रवीमि तन् निशामय इत्यन्वयः ॥४२॥

न चिन्तयति को राज्यं को धनं नाभिवाञ्छति ।
तथापि भाव्यम् एवैतद् उभयं प्राप्यते नरैः ॥४३॥

किं च, राज्यादेः श्रेष्ठफलत्वेऽपि तदर्थं पुण्ये यत्नः कार्यः । न केवलं दृष्टार्थोद्यममात्रे । तस्य व्यभिचारित्वाद् इत्य् आहनेति त्रिभिः । भाव्यं प्राक्तनपुण्यवशाद् भवितव्यम् एव । तद् उभयं राज्यं धनं च प्राप्यते ॥४३॥

सर्व एव महाभाग महत्त्वं प्रति सोद्यमाः ।
तथापि पुंसां भाग्यानि नोद्यमा भूतिहेतवः ॥४४॥

महत्त्वं राज्यधान्यादिविभूतिं प्रति, भाग्यान्य् एव भूतेः राज्यादिश्रियो हेतवः । न तु उद्यमाः ॥४४॥

जडानाम् अविवेकानाम् असुराणाम् अपि प्रभो ।
भोग्यभोज्यानि राज्यानि सन्त्यनीतिमताम् अपि ॥४५॥

तैर् विनापि राज्यादेर् दृश्यमानत्वाद् इत्य् आहजडानाम् इति । अनुद्यमानां नष्टानष्टविवेकशून्यानां राज्यानि सन्ति ॥४५॥

तस्माद् यतेत पुण्येषु य इच्छेन् महतीं श्रियम् ।
यतितव्यं समत्वे च निर्वाणम् अपि चेच्छता ॥४६॥
देवा मनुष्याः पशवः पक्षिवृक्षसरीसृपाः ।
रूपम् एतद् अनन्तस्य विष्णोर् भिन्नम् इव स्थितम् ॥४७॥

समत्वदृष्ट्या निर्वाणम् आहदेवा इति त्रिभिः ॥४७॥

एतद् विजानता सर्वं जगत् स्थवरजङ्गमम् ।
द्रष्टव्यम् आत्मवद् विष्णुर् यतोऽयं विश्वरूपधृक् ॥४८॥
एवं ज्ञाते स भगवान् अनादिः परमेश्वरः ।
प्रसीदत्यच्युतस् तस्मिन् प्रसन्ने क्लेशसङ्क्षयः ॥४९॥
एतच् छ्रुत्वा तु कोपेन समुत्थाय वरासनात् ।
हिरण्यकशिपुः पुत्रं पदावक्षस्यताडयत् ॥५०॥
उवाच च स कोपेन सामर्षः प्रज्वलन्न् इव ।
निष्पिष्य पाणिना पाणिं हन्तुकामो जगद् यथा ॥५१॥

सामर्षः असहनः ॥५१॥

हिरण्यकशिपुर् उवाच
हे विप्रचित्ते हे राहो हे बलैष महार्णवे ।
नागपाशैर् दृढैर् बद्ध्वा क्षिप्यतां मा विलम्ब्यताम् ॥५२॥

अरं यावत् सर्वैर् उपायैर् न हन्तुं शक्यते, उपेक्षितश् चेत् सकलं लोकं विष्णुभक्तिं कृत्वा नाशयेत् । अतो नागपाशैर् बद्ध्वा समुद्रे क्षिप्त्वा पर्वतैर् आक्रमणीयः । ततः कालेन मरिष्यतीत्य् आहहे विप्रचित्ते इति ॥५२॥

अन्यथा सकलो लोकस् तथा दैतेयदानवाः ।
अनुयास्यन्ति मूढस्य मतम् अस्य दुरात्मनः ॥५३॥
बहुशो वार्तोऽस्माभिर् अयं पापस् तथापरैः ।
स्तुतिं करोति दुष्टानां वध एवोपकारकः ॥५४॥

दोषोपशान्तिहेतुत्वाद् वधो दुष्टानाम् अपि उपकार एव ॥५४॥

पराशर उवाच
ततस् ते सत्वरा दैत्या बद्ध्वा तं नागबन्धनैः ।
भर्तुर् आज्ञां पुरस्कृत्य चिक्षिपुः सलिलालये ॥५५॥
ततश् चचालचलता प्रह्लादेन महार्णवः ।
उद्वेलोऽभूत् परं क्षोभम् उपेत्य च समन्ततः ॥५६॥
भूर्लोकम् अखिलं दृष्ट्वा प्लाव्यमानं महाम्भसा ।
हिरण्यकशिपुर् दैत्यान् इदम् आह महामते ॥५७॥

हिरण्यकशिपुर् उवाच
दैतेयाः सकलैः शैलैर् अत्रैव वरुणालये ।
निश्छिद्रैः सर्वशः सर्वैश् चीयताम् एष दुर्मतिः ॥५८॥

वरुणालये समुद्रे । निरन्तरैः पर्वतैश् चीयताम् उपर्य् उपरि निक्षिप्तैर् आक्रम्यताम् ॥५८॥

नाग्निर् दहति नैवायं शस्त्रैश् छिन्नो न चोरगैः ।
क्षयं नीतो न वातेन न विषेण न कृत्यया ॥५९॥
न मायाभिर् न चैवोच्चात् पातितो न च दिग्गजैः ।
बालोऽतिदुष्टचित्तोऽयं नानेनार्थोऽस्ति जीवता ॥६०॥
तद् एष तोयधाव् अत्र समाक्रान्तो महीधरैः ।
तिष्टत्व् अब्दसहस्रान्तं प्राणान् हास्यति दुर्मतिः ॥६१॥
ततो दैत्या दानवाश् च पर्वतैस् तं महोदधौ ।
आक्रम्य चयनं चक्रुर् योजनानि सहस्रशः ॥६२॥
स चित्तः पर्वतैर् अन्तः समुद्रस्य महामतिः ।
तुष्टाव् आह्निकवेलायाम् एकाग्रमतिर् अच्युतम् ॥६३॥

आह्निकवेलायाम् अहरहःकर्तव्यभोजनादिसमये ॥६३॥

प्रह्लाद उवाच
नमस् ते पुण्डरीकाक्ष नमस् ते पुरुषोत्तम ।
नमस् ते सर्वलोकात्मन् नमस् ते तिग्मचक्रिणे ॥६४॥
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥६५॥

ब्रह्मण्यानां देवाय श्रेष्ठाय ॥६५॥

ब्रह्मत्वे सृजते विश्वं स्थितौ पालयते पुनः ।
रुद्ररूपाय कल्पान्ते नमस् तुभ्यं त्रिमूर्तये ॥६६॥
देवा यक्षासुराः सिद्धा नागा गन्धर्वकिन्नराः ।
पिशाचा राक्षसाश् चैव मनुष्याः पशवस् तथा ॥६७॥

विश्वरूपत्वेन स्तौतिदेवा इति सप्तभिः । देवा इत्यादीनां, सर्वं त्वम् एवेति तृतीयेनान्वयः । यक्षाश् चासुराश् च ॥६७॥

पक्षिणः स्थावराश् चैव पिपीलिकाः सरीसृपाः ।
भूमिर् आपो नभो वायुः शब्दः स्पर्शस् तथा रसः ॥६८॥
रूपं गन्धो मनो बुद्धिर् आत्मा कालस् तथा गुणाः ।
एतेषां परमार्थं च सर्वम् एतत् त्वम् अच्युत ॥६९॥
विद्याविद्ये भवान् सत्यम् असत्यं त्वं विषासृते ।
प्रवृत्तं च निवृत्तं च कर्म वेदोक्तिं भवान् ॥७०॥
समस्तकर्मभोक्ता च कर्मोपकरणानि च ।
त्वम् एव विष्णो सर्वाणि सर्वकर्मफलं च यत् ॥७१॥

आत्मा अहङ्कारः । गुणा सत्त्वादयः । एतेषां परमार्थः तत्त्वं कारणम् ॥७१॥

मय्यन्यत्र तथाश्लेषभूतेषु भुवनेषु च ।
तवैव व्याप्तिर् ऐश्वर्यगुणसंसूचिका प्रभो ॥७२॥

ऐश्वर्यं सामर्थ्यातिशयम् । गुणांश् च सत्यसङ्कल्पत्वादीन् संसूचयतीत्यैश्वर्यगुणसंसूचिका तवैव सच्चिद्रूपस्य व्याप्तिः ॥७२॥

त्वां योगिनश् चिन्तयन्ति त्वां यजन्ति च यज्विनः ।
हव्यकव्यभुग् एकस् त्वं पितृदेवस्वरूपधृक् ॥७३॥

अत एव त्वाम् एव योगिनश् चिन्तयन्ति । त्वाम् एव च याजका यजन्ति । त्वम् एव पितृदेवस्वरूपधृक् ॥७३॥

रूप महत् ते स्थितम् अत्र विश्वं
ततश् च सूक्ष्मं जगद् एतद् ईश ।
रूपाणि सर्वाणि च भूतभेदास्
तेष्व् अन्तरात्माख्यम् अतीव सूक्ष्मम् ॥७४॥

उक्तं प्रपञ्च्पूर्विकम् अनुवदन् शुद्धस्वरूपम् आहरूपम् इति द्वाभ्याम् । विश्वरूपं सावरणं ब्रह्माण्डम् एतज् जगद् ब्रह्माण्डान्तर्वर्तिविराड्रूपम् । रूपं महत् ते स्थितम् अत्र विश्वम् इति पाठे महद् रूपं विश्वं ब्रह्माण्डम् अत्र स्थितं जगद् एतत् । ततश् च सूक्ष्मं रूपम् इत्यन्वयः । ततोऽपि सूक्ष्माणि रूपाणि भूतभेदाः जरायुजादि चतुर्विधा देहाः । तेष्व् अपि अन्तरात्माख्यं क्षेत्रज्ञसञ्ज्ञम् अतीव सूक्ष्मं रूपम् ॥७४॥

तस्माच् च सूक्ष्मादिविशेषणानां
अगोचरे यत् परमात्मरूपम् ।
किम् अप्यचिन्त्यं तव रूपम् अस्ति
तस्मै नमस् ते पुरुषोत्तमाय ॥७५॥

तस्माद् अपि परं सूक्ष्मादिविशेषणानाम् अविषये वर्तमानं तव किम् अप्यचिन्त्यं रूपम् अस्ति, तस्मै पुरुषोत्तमाख्याय ते रूपाय नमः ।

यस्मात् क्षरम् अतीतोऽहम् अक्षराद् अपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ [गीता १५.१८] इति स्मृतेः ॥७५॥

सर्वभूतेषु सर्वात्मन् या शक्तिर् अपरा तव ।
गुणाश्रया नमस् तस्यै शाश्वतायै सुरेश्वर ॥७६॥

नन्व् एवम्भूतस्य कुतः स्थूलसूक्ष्माद्यनेकरूपत्वम् इत्य् आशङ्क्य तदुपपादकं शक्तिद्वयं प्रणमतिसर्वेषु भूतेष्व् इति द्वाभ्याम् । अपरा जडशक्तिः प्रकृत्याख्या ॥७६॥

यातीतगोचरा वाचां मनसां चाविशेषणा ।
ज्ञानिज्ञानपरिच्छेद्या वन्दे ताम् ईश्वरीं पराम् ॥७७॥

वाचां मनसां च या अतीतगोचरा अतिक्रान्तो गोचरो यया सा । यस्माद् अविशेषणा जातिगुणादिविशेषणशून्या । ज्ञानिनां क्षेत्रज्ञानां यानि शब्दादिविषयाणि प्रादेशिकानि ज्ञानानि तैः परिच्छेद्या सर्वतः प्रसरद्भिर् निर्झरोदकैर् महासरोवत् सर्वगतत्वेनावगम्या । यद् वा, ज्ञानी जीवः ज्ञानं बुद्धिः, तदुभयम् अपि परिच्छेद्यं बाह्यघटादिवत् प्रकाश्यं यस्याः सा, तस्याः सर्वभासकत्वात् । ताम् ईश्वरीम् ईश्वरस्य तव स्वरूपभूतां परां चिच्छक्तिं वन्दे । परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च इति श्रुतेः । अत एवम्भूतशक्तिद्वयेनाचिन्त्यनिरतिशयैश्वर्यात् शुद्धत्वं स्थूलसूक्ष्माद्यनेकरूपत्वं च सङ्गच्छत एवेति ॥७७॥

ओं नमो वासुदेवाय तस्मै भगवते सदा ।
व्यतिरिक्तं न यस्यास्ति व्यतिरिक्तोऽखिलस्य यः ॥७८॥

द्वादशाक्षरमन्त्रप्रतिपाद्यरूपेणओं नम इति द्वाभ्याम् ॥७८॥

नमस् तस्मै नमस् तस्मै नमस् तस्मै महात्मने ।
नामरूपं न यस्यैको योऽस्तित्वेनोपलभ्यते ॥७९॥

नमस् तस्मै इति त्रिभिः पुनरुक्त्या, रूपं महद् इति श्लोकोक्तचैतन्योपाधिभूतैर् विश्वरूपजगद्रूपभूतरूपैः प्रणामः । नामरूपं न यस्य तस्मै नम इत्यनुषाङ्गात् शुद्धक्षेत्रज्ञरूपेण एकोऽस्तित्वेनोपलभ्यते । तस्मै महात्मने नमः इति पूर्णब्रह्मरूपेण च प्रणाम इति द्रष्टव्यम् ॥७९॥

यस्यावताररूपाणि समर्चन्ति दिवौकसः ।
अपश्यन्तः परं रूपं नमस् तस्मै महात्मने ॥८०॥

नन्व् एवं केवलश् चेत् परमेश्वरस् तर्हि तस्याविषयत्वात् अर्चनादिकं न घटते इत्य् आशङ्क्याहयस्येति ॥८०॥

योऽन्तस् तिष्ठन् अशेषस्य पश्यतीशः शुभाशुभम् ।
तं सर्वसाक्षिणां विष्णुं नमस्ये परमेश्वरम् ॥८१॥

नन्व् एवं परमेश्वर एव चेद् अर्चनीयः, तर्हि इन्द्रादीनां पूज्यता कथम् ? इत्य् आशङ्क्य तेषाम् अन्तर्यामिस्वरूपेणैव पूज्यतेत्य् आशयेनाहयोऽन्तर् इति ॥८१॥

नमोऽस्तु विष्णवे तस्मै यस्याभिन्नम् इदं जगत् ।
ध्येयः स जगताम् आद्यः प्रसीदतु ममाव्ययः ॥८२॥

जडस्यापिइ जगतः परमेश्वरात्मत्वेन उपास्यत्वम् अस्ति, किं पुनर् दैवतानाम् इत्य् आशयेनाहनमोऽस्त्व् इति । अभिन्नत्वे हेतुःजगताम् आद्यः कारणम् इति ॥८२॥

यत्रोतम् एतत् प्रोतं च विश्वम् अक्षरम् अव्ययम् ।
आधारभूतः सर्वस्य स प्रसीदतु मे हरिः ॥८३॥

तद् उपपादयन् आहयत्रेति । यस्मिन् ओतं विश्वं दीर्घतन्तुषु पटवद् ग्रथितं, प्रोतं च तिर्यक्तन्तुषु पट इवानुस्यूतम् । अव्ययं प्रधानमहदादिरूपम् ॥८३॥

नमोऽस्तु विष्णवे तस्मै नमस् तस्मै पुनः पुनः ।
यत्र सर्वं यतः सर्वं यः सर्वं सर्वसंश्रयः ॥८४॥

उक्तं सर्वात्मत्वं सङ्क्षेपतः स्मरन् प्रणमतिनम इति । यत्र सर्वं प्रलये तस्मै नमः । यतः सर्वं सृष्टौ तस्मै नमः । यः सर्वं स्थितौ पुनस् तस्मै नमः । अत एव यः सर्वस्य संश्रय आधारः पुनस् तस्मै नमः । इत्यवतारस्यावस्थाभेदान् नमस्कारावृत्तिः ॥८४॥

सर्वगत्वाद् अनन्तस्य स एवाहम् अवस्थितः ।
मत्तः सर्वम् अहं सर्वं मयि सर्वं सनातने ॥८५॥

तद् एवं विष्णोर् ब्रह्मतया सर्वात्मत्वं भावयन् स्वस्यापि ब्रह्मत्वाविर्भावने तदभेदं पश्यन्न् आहसर्वगत्वाद् इति द्वाभ्याम् ॥८५॥

अहम् एवाक्षयो नित्यः परमात्मात्मसंश्रयः ।
ब्रह्मसञ्ज्ञोऽहम् एवाग्रे तथान्ते च परः पुमान् ॥८६॥

अग्रे सृष्टेः पूर्वम् । अन्ते च प्रलयानन्तरम् ॥८६॥

इति श्रीविष्णुपुराणे प्रथमेंऽशे एकोनविंशोऽध्यायः
॥१९॥

ओ)०(ओ