अथ अष्टादशोऽध्यायः
प्रह्लादस्य विनाशाय दैत्यान् प्रति हिरण्यकशिपोर् आदेशः
पराशर उवाच
तस्यैवं दानवाश् चेष्टां दृष्ट्वा दैत्यपतेर् भयात् ।
आचचक्षुः स चोवाच सूदान् आहूय सत्वरः ॥१॥
चेष्टाम् उपदेशरूपाम् ॥१॥
हिरण्यकशिपुर् उवाच
हे सूदा मम पुत्रोऽसाव् अन्येषाम् अपि दुर्मतिः ।
कुमार्गदेशिको दृष्टो हन्यताम् अविलम्बितम् ॥२॥
हालाहलं विषं तस्य सर्वभक्ष्येषु दीयताम् ।
प्रविज्ञातम् असौ पापो हन्यतां मा विचार्यताम् ॥३॥
पराशर उवाच
ते तथैव ततश् चक्रुः प्रह्लादस्य महात्मने ।
विषदानं यथाज्ञप्तं पित्रा तस्य महात्मनः ॥४॥
हालाहलं विषं घोरम् अनन्तोच्चारणेन सः ।
अभिमन्त्र्य सहान्नेन मैत्रेय बुभुजे तदा ॥५॥
अविकारं स तद् भुक्त्वा प्रह्लादः स्वस्थमानसः ।
अनन्तख्यातिनिर्वीर्यं जरयामास तद्विषम् ॥६॥
ततस् तदा भयत्रस्ता जीर्णं दृष्ट्वा महद् विषम् ।
दैत्येश्वरम् उपागम्य प्रणिपत्येदम् अब्रुवन् ॥७॥
सूदा ऊचुः
दैत्यराज विषं दत्तम् अस्माभिर् अतिभीषणम् ।
जीर्णं तेन सहान्नेन प्रह्लादेन सुतेन ते ॥८॥
हिरण्यकशिपुर् उवाच
त्वर्यतां त्वर्यतां हे हे सद्यो दैत्यपुरोहिताः ।
कृत्यां तस्य विनाशाय उत्पादयत मा चिरात् ॥९॥
सर्वस्माद् ब्रह्मशक्तिर् अधिकेति मत्वा ब्राह्मणान् नियुङ्क्तेत्वर्यताम् इति ॥९॥
पराशर उवाच
सकाशम् आगम्य ततः प्रह्लादस्य पुरोहिताः ।
सामपूर्वम् अथोचुस् ते प्रह्लादं विनयान्वितम् ॥१०॥
पुरोहिता ऊचुः
जातस् त्रैलोक्यविख्यात आयुष्मन् ब्रह्मणः कुले ।
दैत्यराजस्य तनयो हिरण्यकशिपोर् भवान् ॥११॥
किं देवैः किम् अनन्तेन किम् अन्येन तवाश्रयः ।
पिता ते सर्वलोकानां त्वं तथैव भविष्यसि ॥१२॥
ते पिता सर्वलोकानाम् आश्रयः ॥१२॥
तस्मात् परित्यजैनां त्वं विपक्षस्तवसंहिताम् ।
वाचं पिता समस्तानां गुरूणां परमो गुरुः ॥१३॥
प्रह्लाद उवाच
एवम् एतन् महाभागाः श्लाघ्यम् एतन् महाकुलम् ।
मरीचेः सकलेऽप्यस्मिन् त्रैलोक्ये कोऽन्यथा वदेत् ॥१४॥
ब्रह्मणः मरीचेः कुले ॥१४॥
पिता च मम सर्वस्मिन् जगत्य् उत्कृष्टचेष्टितः ।
एतद् अप्यवगच्छामि सत्यम् अत्रापि नानृतम् ॥१५॥
गुरुऊणाम् अपि सर्वेषां पिता परमको गुरुः ।
यद् उक्तं भ्रान्तिर् अत्रापि स्वल्पापि न हि विद्यते ॥१६॥
पिता गुरुर् न सन्देहः पूजनीयः प्रयत्नतः ।
तत्रापि एवं मनसि मे स्थितम् ॥१७॥
नापराध्यामि नान्यथा करोमि ॥१७॥
यद् एतत् किम् अनन्तेनेत्य् उक्तं युष्माभिर् ईदृशम् ।
को ब्रवीति यथायुक्तं किन्तु नैतद् वचोऽर्थवत् ॥१८॥
यथा यैर् यैर् दोषैर् एतद् अयुक्तम्, तथा सर्वान् दोषान् को ब्रवीति ? दोषानन्त्यान् न कोऽपि वक्तुं शक्नोतीत्यर्थः । तथापि किञ्चिद् वक्ष्यामीत्य् आहकिन्त्व् इति ॥१८॥
इत्य् उक्त्वा सोऽभवन् मौनी तेषां गौरवयन्त्रितः ।
प्रहस्य च पुनः प्राह किम् अनन्तेन साध्व् इति ॥१९॥
किम् अनन्तेन साध्व् इत्यादि पुनरुक्तिः सोपालम्भाक्षेपार्था ॥१९॥
साधु भोः किम् अनन्तेन साधु भो गुरवो मम ।
श्रूयतां यद् अनन्तेन यदि खेदं न यास्यथ ॥२०॥
धर्मार्थकाममोक्षाख्याः पुरुषार्था उदाहृताः ।
चतुष्टयम् इदं यस्मात् तस्मात् किं किम् इदं वृथा ॥२१॥
इदं पुरुषार्थचतुष्टयं यस्माद् अनन्ताद् भवति, तस्मात् किं स्याद् इति इदं निरर्थकवाक्यं किम् इति वृथैवोच्यते इत्यर्थः ॥२१॥
मरीचिमिश्रैर् दक्षेण तथैवान्यैर् अनन्ततः ।
धर्मः प्राप्तस् तथैवान्यैर् अर्थः कामस् तथापरैः ॥२२॥
पुरुषार्थचतुष्टयप्राप्तिम् एवोदाहरन्न् आहमरीचिमिश्रैर् इति चतुर्भिः । मिश्रशब्दस्य पूज्ये प्रयोगात् मरीचिमिश्रैर् मरीचिमुख्यैर् इत्यर्थः ॥२२॥
तत् तत्त्ववेदिनो भूत्वा ज्ञानधानस्मरण्हिभिः ।
अवापुर् मुक्तिम् अपरे पुरुषा ध्वस्तबन्धनाः ॥२३॥
सम्पदैश्वर्यमाहात्म्यज्ञानसन्ततिकर्मणाम् ।
विमुक्तैश् चैकतालभ्यं मूलम् आराधनं हरेः ॥२४॥
एकतालभ्यं समदृष्टिमात्रसुलभं हरेर् आराधनम् एव सम्पदादीनां विमुक्तेश् च मूलम् ॥२४॥
यतो धर्मार्थकामाख्यं मुक्तिश् चापि फलं द्विजाः ।
तेनापि हि किम् एत्य् एवम् अनन्तेन किम् उच्यते ॥२५॥
यतो धर्मादि चतुर्विधं फलं तेनापि अनन्तेन । किम् इत्य् एव किम् इदम् उच्यते ॥२५॥
किं चात्र बहुनोक्तेन भवन्तो गुरवो मम ।
वदन्तु साधु वासाधु विवेकोऽस्माकम् अल्पकः ॥२६॥
सोपालम्भोक्तिं निगमयतिकिं चेति ॥२६॥
पुरोहिता ऊचुः
दह्यमानस् त्वम् अस्माभिर् अग्निना बाल रक्षितः ।
भूयो न वक्ष्यसीत्य् एवं नैव ज्ञातोऽस्यबुद्धिमान् ॥२७॥
एवं विपक्षस्तुतियुक्तं वाक्यं भूयो न वक्ष्यसीति मत्वा पूर्वम् अस्माभिस् त्वं रक्षितोऽसि । अबुद्धिमान् त्वम् इति तु नैव ज्ञातोऽसि ॥२७॥
यदास्मद्वचनान् मोहग्राहं न त्यक्ष्यते भवान् ।
ततः कृत्यां विनाशाय तव स्रक्ष्याम दुर्मतेः ॥२८॥
मोहग्राहम् अबुद्धिकृतं दुराग्रहम् ॥२८॥
प्रह्लाद उवाच
कः केन हन्येत जन्तुर् जन्तुः कः केन रक्ष्यते ।
हन्ति रक्षति चैवात्मा ह्यसत् साधु समाचरन् ॥२९॥
असत् समाचरन् आत्मैवात्मानं हन्ति । साधु समाचरन् आत्मैव आत्मानं रक्षति चेत्यन्वयः ॥२९॥
पराशर उवाच
इत्य् उक्तास् तेन ते क्रुद्धा दैत्यराजपुरोहिताः ।
कृत्याम् उत्पादयामासुर् ज्वालामालोज्ज्वलाकृतिम् ॥३०॥
अतिभीमा समागम्य पादन्यासक्षतक्षितिः ।
शूलेन सा सुसङ्क्रुद्धा तं जहानाशु वक्षसि ॥३१॥
पादयोर् न्यासैर् निक्षेपैः । क्षता क्षितिर् यस्याः सा तथा ॥३१॥
तत् तस्य हृदयं प्राप्य शूलं बालस्य दीप्तिमत् ।
जगाम खण्डितं भूमौ तत्रापि शतधा गतम् ॥३२॥
यत्रानपायी भगवान् हृद्यास् ते हरिर् ईश्वरः ।
भङ्गो भवति वज्रस्य तत्र शूलस्य का कथा ॥३३॥
अपाये तत्र पापैश् च पातिता तत्र याजकैः ।
तान् एव सा जघानाशु कृत्या नाशं जगाम च ॥३४॥
खण्डितं भग्नं सत् भूमौ जगाम पपात ॥३४॥
कृत्यया दह्यमानांस् तान् विलोक्य स महामतिः ।
त्राहि कृष्णेत्यनन्तेति वदन्न् अभ्यवपद्यत ॥३५॥
अभ्यवपद्यत रक्षणार्थं तद् अभिमुखम् अधावद् इत्यर्थः ॥३५॥
प्रह्लाद उवाच
सर्वव्यापिन् जगद्रूप जगत्स्रष्टर् जनार्दन ।
पाहि विप्रान् इमान् अस्माद् दुःसहान् मन्त्रपावकात् ॥३६॥
यथा सर्वेषु भूतेषु सर्वव्यापी जगद्गुरुः ।
विष्णुर् एव तथा सर्वे जीवन्त्व् एते पुरोहिताः ॥३७॥
यथा सर्वगतं विष्णुं मन्यमानो न पावकम् ।
चिन्तयाम्यरिपक्षेऽपि जीवन्त्व् एते पुरोहिताः ॥३८॥
ये हन्तुम् आगता दत्तं यैर् विषं यैर् हुताशनः ।
यैर् दिग्गजैर् अहं क्षुण्णो दष्टः सर्पैश् च यैर् अपि ॥३९॥
तेष्व् अहं मित्रभावेन समः पापोऽस्मि न क्वचित् ।
तथा तेनाद्य सत्येन जीवन्त्व् असुरयाजकाः ॥४०॥
पराशर उवाच
इत्य् उक्तास् तेन ते सर्वे संस्पृष्टाश् च निरामयाः ।
समुत्तस्थुर् द्विजा भूयस् तं चोचुः प्रश्रयान्वितम् ॥४१॥
पुरोहिता ऊचुः
दीर्घायुर् अप्रतिहतबलवीर्यसमन्वितः ।
पुत्रपौत्रधनैश्वर्ययुक्तो वत्स भवोत्तम ॥४२॥
पराशर उवाच
इत्य् उक्त्वा तं ततो गत्वा यथावृत्तं पुरोहिताः ।
दैत्यराजाय सकलम् आचचक्षुर् महामुने ॥४३॥
स्पष्टम् अन्यत् ॥४३॥
इति श्रीविष्णुपुराणे प्रथमेंऽशे अष्टादशोऽध्यायः
॥१८॥
ओ)०(ओ