अथ सप्तदशोऽध्यायः
प्रह्लादचरितकथनम्
पराशर उवाच
मैत्रेय श्रूयतां सम्यक् चरितं तस्य धीमतः ।
प्रह्लादस्य सदोदारचरितस्य महात्मनः ॥१॥
भगवद्द्वेष एव तद्भक्तस्वपुत्रद्वेषेऽपि कारणम् इति वक्ष्यन् हिरण्यकशिपोर् वृत्तान्तम् आहदितेः पुत्र इत्यादिना ॥१॥
दितेः पुत्रो महावीर्यो हिरण्यकशिपुः पुरा ।
त्रैलोक्यं वशम् आनिन्ये ब्रह्मणो वरदर्पितः ॥२॥
भूतेभ्यस् त्वद्विसृष्टेभ्यो मृत्युर् माभून् मम प्रभो इत्याद्यनेकवरप्रार्थने कृते सति तथैव ब्रह्मणा दत्तैर् वरैर् दर्पितः सन् ॥२॥
इन्द्रत्वम् अकरोद् दैत्यः स चासीत् सविता स्वयम् ।
वायुर् अग्निर् अपां नाथः सोमश् चाभन् महासुरः ॥३॥
धनानाम् अधिपः सोऽभूत् स एवासीत् स्वयं यमः ।
यज्ञभागान् अशेषांस् तु स स्वयं बुभुजेऽसुरः ॥४॥
देवाः स्वर्गं परित्यज्य तत्त्रासान् मुनिसत्तम ।
विचेरुर् अवनौ सर्वे बिभ्राणा मानुषीं तनुम् ॥५॥
तत्त्रासात् हिरण्यकशिपोर् भयात् ॥५॥
जित्वा त्रिभुवनं सर्वं त्रैलोक्यैश्वर्यदर्पितः ।
उपगीयमानो गन्धर्वैर् बुभुजे विषयान् प्रियान् ॥६॥
पानासक्तं महात्मानं हिरण्यकशिपुं तदा ।
सपासां चक्रिरे सर्वे सिद्धगन्धर्वपन्नगाः ॥७॥
महात्मानम् अद्भुतप्रभावम् ॥
अवादयञ् जगुश् चान्ये जयशब्दान् अथापरे ।
दैत्यराजस्य पुरतश् चक्रुः सिद्धा मुदान्विताः ॥८॥
अवादयन् वाद्यादीनि जगुर् गीतम् ॥८॥
तथा प्रनृत्याप्सरसि स्फटिकाभ्रमयेऽसुरः ।
पपौ पानं मुदा युक्तः प्रासादे सुमनोहरे ॥९॥
प्रकृष्टं नृत्यं यासां ता अप्सरसो यस्मिन् तस्मिन् प्रासादे स्फटिकाभ्रमये स्फटिकशिलाभिः अभ्रकशिलाभिश् च रचिते । पीयत इति पानं मदिरादि ॥९॥
तस्य पुत्रो महाभागः प्रह्लादो नाम नामतः ।
पपाठ बालपाठ्यानि गुरुगेहे गतोऽर्भकः ॥१०॥
तद् एवं तस्य परमैश्वर्यम् उक्त्वा पुत्रद्वेषकारणं वक्तुम् आहतस्य पुत्र इत्यादिना ॥१०॥
एकदा तु स धर्मात्मा जगाम गुरुणा सह ।
पानासक्तस्य पुरतः पितुर् दैत्यपतेस् तदा ॥११॥
पादप्रणामावनतं तम् उत्थाप्य पिता सुतम् ।
हिरण्यकशिपुः प्राह प्रह्लादम् अमितौजसम् ॥१२॥
हिरण्यकशिपुर् उवाच
पठ्यतां भवता वत्स सारभूतं सुभाषितम् ।
कालेनैतावता यत ते सदोद्युक्तेन शिक्षितम् ॥१३॥
प्रह्लाद उवाच
श्रूयतां तात वक्ष्यामि सारभूतं तवाज्ञया ।
समाहितमना भूत्वा यन् मे चेतस्यवस्थितम् ॥१४॥
अनादिमध्यान्तम् अजम् अवृद्धिक्षयम् अच्युतम् ।
प्रणतोऽस्मि महात्मानं सर्वकारणकारणम् ॥१५॥
तत्र हेतुःसर्वकारणाणां कारणम् । प्रणतोऽस्म्यन्तसन्तानाम् इति पाठे, अन्तयति इत्यन्तः संहर्ता, सन्तन्यतेऽनेनेति सन्तानः स्थितिकर्ता, तम् । पाठान्तरं सुगमम् ॥१५॥
पराशर उवाच
एवं निशम्य दैत्येन्द्रः क्रोधसंरक्तलोचनः ।
विलोक्य तद्गुरुं प्राह स्फुरिताधरपल्लवः ॥१६॥
हिरण्यकशिपुर् उवाच
ब्रह्मबन्धो किम् एतत् ते विपक्षस्तुतिसंहितम् ।
असारं ग्राहितो बालो माम् अवज्ञाय दुर्मते ॥१७॥
ब्रह्मबन्धो ब्राह्मणाधम ! ते त्वया विपक्षस्तुत्या संहितं सम्बद्धं किम् एतद् ग्राहितः शिक्षितः ॥१७॥
गुरुर् उवाच
दैत्येश्वर न कोपस्य वशम् आगन्तुम् अर्हसि ।
ममोपदेशजनितं नायं वदति ते सुतः ॥१८॥
हिरण्यकशिपुर् उवाच
अनुशास्तोऽसि केनेदृग् वत्स प्रह्लाद कथ्यताम् ।
ममोपदिष्टं नेत्य् एष प्रब्रवीति गुरुस् तव ॥१९॥
प्रह्लाद उवाच
शास्ता विष्णुर् अशेषस्य जगतो यो हृदि स्थितः ।
तम् ऋते परमात्मानं तात कः केन शास्यते ॥२०॥
हिरण्यकशिपुर् उवाच
कोऽयं विष्णुः सुदुर्बुद्धे यं ब्रवीषि पुनः पुनः ।
जगताम् ईश्वरस्येह पुरतः प्रसभं मम ॥२१॥
प्रसभं निःशङ्कम् ॥२१॥
प्रह्लाद उवाच
न शब्दगोचरे यस्य योगिध्येयं परं पदम् ।
यतो यश् च स्वयं विश्वं स विष्णुः परमेश्वरः ॥२२॥
यतो विश्वं, विश्वरूपः स परमेश्वरो विष्णुः ॥२२॥
हिरण्यकशिपुर् उवाच
परमेश्वरसञ्ज्ञोऽज्ञ किम् अन्यो मय्यवस्थिते ।
तवास्ति मर्तुकामस् त्वं प्रब्रवीषि पुनः पुनः ॥२३॥
प्रह्लाद उवाच
न केवलं तात मम प्रजानां
स ब्रह्मभूतो भवतश् च विष्णुः ।
धाता विधाता परमेश्वरश् च
प्रसीद कोपं कुरुषे किमर्थम् ॥२४॥
न केवलं ममैव, किन्तु प्रज् आनां सर्वासां भवतश् च धाता धारयिता, विधाता कर्ता च, परमेश्वरः स एव ॥२४॥
हिरण्यकशिपुर् उवाच
प्रविष्टः कोऽस्य हृदये दुर्बुद्धेर् अतिपापकृत् ।
येनेदृशान्यसाधनि वदत्य् आविष्टमानसः ॥२५॥
प्रह्लाद उवाच
न केवलं मद्धृदयं स विष्णुर्
आक्रम्य लोकान् सकलान् अवस्थितः ।
स मां त्वदादींश् च पितः समस्तान्
समस्तचेष्टासु युनक्ति सर्वगः ॥२६॥
आक्रम्य अधिष्ठायावस्थितः । युनक्ति प्रवर्तयति । अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा इति श्रुतेः ॥२६॥
हिरण्यकशिपुर् उवाच
निष्क्राम्यताम् अयं दुष्टः शास्यतां च गुरोर् गृहे ।
योजितो दुर्मतिः केन विपक्षवितथस्तुतौ ॥२७॥
पराशर उवाच
इत्य् उक्तोऽसौ तदा दैत्यैर् नीतो गुरुगृहं पुनः ।
जग्राह विद्याम् अनिशं गुरुशुश्रूषणोद्यतः ॥२८॥
जग्राह, विद्या गुरुर् उपकारार्थम् एव, अन्यथा तद्वृत्तिलोपप्रसङ्गात् ॥२८॥
कालेऽतीते च महति प्रह्लादम् असुरेश्वरः ।
समाहूयाब्रवीत् पुत्र गाथा काचित् प्रगीयताम् ॥२९॥
गाथा गद्यपद्यादिः ॥२९॥
प्रह्लाद उवाच
यतः प्रधानपुरुषौ यतश् चैतच् चराचरम् ।
कारणं सकलस्यास्य स नो विष्णुः प्रसीदतु ॥३०॥
यतः प्रधानपुरुषौ आविर्भूतौ ॥३०॥
हिरण्यकशिपुर् उवाच
दुरात्मा बध्यताम् एष नानेनार्थोऽस्ति जीवता ।
स्वपक्षहानिकर्तृत्वाद् यः कुलाङ्गारतां गतः ॥३१॥
कुलस्याङ्गारतां दाहकताम् ॥३१॥
पराशर उवाच
इत्य् आज्ञप्तास् ततस् तेन प्रगृहीतमहायुधाः ।
उद्यतास् तस्य नाशाय दैत्याः शतसहस्रशः ॥३२॥
प्रह्लाद उवाच
विष्णुः शस्त्रेषु युष्माकं मयि चासौ यथा स्थितः ।
दैतेयास् तेन सत्येन मा क्रामन्त्व् आयुधानि ते ॥३३॥
पराशर उवाच
ततस् तैः शतशो दैत्यैः शस्त्रोघैर् आहतोऽपि सन् ।
नावाप वेदनाम् अल्पाम् अभूच् चैव पुनर् नवः ॥३४॥
हिरण्यकशिपुर् उवाच
दुर्बुद्धे विनिवर्तस्व वैरिपक्षस् तवादतः ।
अभयं ते प्रयच्छामि मातिमूढमतिर् भव ॥३५॥
प्रह्लाद उवाच
भयं भयानाम् अपहारिणि स्थिते
मनस्यनन्ते मम कुत्र तिष्ठति ।
यस्मिन् स्मृते जन्मजरान्तकादि
भयानि सर्वान्यपयान्ति तात ॥३६॥
यस्मिन् स्मृते एव जन्मादीन्यपि भयान्यपयान्ति, तस्मिन् मनसि नित्यं स्थिते सति भयं कुत्र तिष्ठति ? ॥३६॥
हिरण्यकशिपुर् उवाच
भो भो सर्पा दुराचारम् एनम् अत्यन्तदुर्मतिम् ।
विषज्वालाकुलैर् वक्त्रैः सद्यो नयत साङ्क्षयम् ॥३७॥
श्रीपराशर उवाच
इत्य् उक्तास् ते ततः सर्पाः कुहकास् तक्षकादयः ।
अदशन्त समस्तेषु गात्रेष्व् अतिविषोल्बणाः ॥३८॥
स त्व् आसक्तमतिः कृष्णे दश्यमानो महोरगैः ।
न विवेदात्मनो गात्रं तत्स्मृत्याह्लादसुस्थितः ॥३९॥
अदशन्त दष्टवन्तः ॥३८३९॥
सर्पा ऊचुः
दंष्ट्रा विशीर्णा मणयः स्फुटन्ति
फणेषु तापो हृदयेषु कम्पः ।
नास्य त्वचः स्वल्पम् अपीह भिन्नं
प्रशाधि दैत्येश्वर कार्यम् अन्यत् ॥४०॥
एतद् अशक्यम्, अन्यतः कार्यं प्रशाधि आदिश ॥४०॥
हिरण्यकशिपुर् उवाच
हे दिग्गजाः सङ्कटदन्तमिश्रा
घ्नतैनम् अस्मद्रिपुपक्षभिन्नम् ।
तज्जा विनाशाय भवन्ति तस्य
यथारणेः प्रज्वलितो हुताशः ॥४१॥
सङ्कटैः सङ्कीर्णैर् दन्तैर् मिश्रा मिलिताः सन्तः घ्नत मारयत । अस्मद्रिपुपक्षैर् वैष्णवैः सामाद्युपायेन अस्मत्तो भिन्नं पृथक्कृतम् । तस्माज् जाता अपि तस्य विनाशाय क्वचिद् भवन्ति, यथा अरणेर् जातो हुताशोऽरणेर् नाशाय ॥४१॥
श्रीपराशर उवाच
ततः स दिग्गजैर् बालो भूभृच्छिखरसन्निभैः ।
पातितो धरणीपृष्ठे विषाणैर् वावपीडितः ॥४२॥
स्मरतस् तस्य गोविन्दम् इभदन्ताः सहस्रशः ।
शीर्णा वक्षःस्थलं प्राप्य स प्राह पितरं ततः ॥४३॥
विषाणैर् दन्तैः ॥४२४३॥
दन्ता गजानां कुलिशाग्रनिष्ठुराः
शीर्णा यद् एते न बलं ममैतत् ।
महाविपत्पापविनाशनोऽयं
जनार्दनानुस्मरणानुभावः ॥४४॥
पितुर् अपि भगवद्भक्तिम् उत्पादयितुम् तत्स्मरणप्रभावम् आहदन्ता इति । कुलिशं वज्रं तस्याग्रम् इव निष्ठुरा दृढाः, तीक्ष्णाः । महतीर् विपदस् तन्मूलभूतानि पापानि च विनाशयतीति तथा ॥४४॥
हिरण्यकशिपुर् उवाच
ज्वाल्यताम् असुरा वह्निर् अपसर्पत दिग्गजाः ।
वायो समेधयाग्निं त्वं दह्यताम् एष पापकृत् ॥४५॥
पराशर उवाच
महाकाष्ठचयच्छन्नम् असुरेन्द्रसुतं ततः ।
प्रज्वाल्य दानवा वह्निं ददहुः स्वामिनोदिताः ॥४६॥
प्रह्लाद उवाच
तातैष वह्निः पवनेर् इतोऽपि
न मां दहत्यत्र समन्ततोऽहम् ।
पश्यामि पद्मास्तरणास् तृणानि
शीतानि सर्वाणि दिशां मुखानि ॥४७॥
पराशर उवाच
अथ दैत्येश्वरं प्रोचुर् भार्गवस्यात्मजा द्विजाः ।
पुरोहिता महात्मानः साम्ना संस्तूय वाग्मिनः ॥४८॥
भार्गवस्यात्मजाः शण्डामर्कादयः ॥४९॥
पुरोहिता ऊचुः
राजन् नियम्यतां कोपो बालेऽत्र तनयेऽनुजे ।
कोपो देवनिकायेषु यत्र ते सफलो यतः ॥४९॥
तथा तथैनं बालं ते शासितारो वयं नृप ।
यथा विपक्षनाशाय विनीतस् ते भविष्यति ॥५०॥
बालत्वं सर्वदोषाणां दैत्यराजास्पदं यतः ।
ततोऽत्र कोपम् अत्यर्थं योक्तुम् अर्हसि नार्भके ॥५१॥
न त्यक्ष्यति हरेः पक्षम् अस्माकं वचनाद् यदि ।
ततः कृत्यां वधायास्य करिष्यामो निवर्तिनीम् ॥५२॥
निवर्तिनीं हिंस्राम् । अनिवर्तिनीम् इति वा च्छेदः । दुष्प्रतीकाराम् इत्यर्थः ॥५२॥
पराशर उवाच
एवम् अभ्यर्थितस् तैस् तु दैत्यराजः पुरोहितैः ।
दैत्यैर् निष्काशयामास पुत्रं पावकसञ्चयात् ॥५३॥
ततो गुरुगृहे बालः स वसन् बालदानवान् ।
अध्यापयामास मुहुर् उपदेशान्तरे गुरोः ॥५४॥
पितुर् विषयासक्तेर् विष्णुभक्तिर् न भवति, एषां तु भविष्यतीति बालदानवान् गुरुर् उपदेशस्याध्यापनस्यान्तरे विच्छेदे तन्मध्ये मुहुर् मुहुः स्वयम् अध्यापयामास उपदिदेश ॥५४॥
प्रह्लाद उवाच
श्रूयतां परमार्थो मे दैतेया दितिजात्मजाः ।
न चान्यथैतन् मन्तव्यं नात्र लोभादिकारणम् ॥५५॥
संसारे नित्यदुःखानि विष्णुभक्तौ परं सुखम् ।
इत्थं प्रह्लादवाक्यार्थं बुद्ध्वा विष्णुं भजेद् बुधः ॥
हे दितिजात्मजाः ! मद्भ्रातरः ! दैतेयास् तदन्ये ! परमार्थतत्त्वं श्रूयताम् । मे मत्तः । अन्यथा मिथ्येत्य् एतन् न मन्तव्यं, यतोऽस्य गुरुर् उपदेश इव मदुक्तौ लोभादिकारणं नास्ति ॥५५॥
जन्म बाल्यं ततः सर्वो जन्तुः प्राप्नोति यौवनम् ।
अव्याहतैव भवति ततोऽनुदिवसं जरा ॥५६॥
बाल्याद् आरभ्य बन्धमुक्तये विष्णुभक्तिर् एव कर्तव्येति वक्तुं प्रवृत्तिमार्गे जन्मादिसर्वावस्थासु नित्यं दुःखम् एवेति दर्शयन्न् आहजन्मेत्यादि । सर्वं दुःखमयं जगद् इत्यन्तैश् चतुर्दशभिः ॥५६॥
ततश् च मृत्युम् अभ्येति जन्तुर् दैत्येश्वरात्मजाः ।
प्रत्यक्षं दृश्यते चैतद् अस्माकं भवतां तथा ॥५७॥
मृतस्य च पुनर् जन्म भवत्य् एतच् च नान्यथा ।
आगमोऽयं तथा तत्र नोपादानं विनोद्भवः ॥५८॥
मृतस्य पुनर् जन्म भवतीत्ययम् एतद् अर्थपरम्पर्दार्थकः प्रमाणभूतश्रुतिस्मृत्यादिरूप आगमोऽस्ति ।
योनिम् अन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ।
स्थाणुम् अन्ये तु सयान्ति यथाकर्म यथाश्रुतम् ॥ इति ।
जातस्य हि ध्रुवो मृत्युर् ध्रुवं जन्म मृतस्य च ॥ इत्यादि ।
एतद् अनुकूलं तर्कम् अप्य् आहतच् च तथैव मन्तव्यम्, यस्माज् जीवाद्यधिष्ठितशुक्रशोणितरूपम् उपादानकारणं, विना देहस्योद्भवो न घटते इति तु पञ्चम्याम् आहुतावापः पुरुषवचसो भवन्तीति । यद् वा, जीवन्मुक्तव्यावृत्त्यर्थम् आहनेति । उपादीयते निमित्ततया स्वीक्रियते पुनर् जन्मार्थम् । इत्य् उपादानं पुण्यपापादि । तद् विना उद्भवो जन्म नास्ति, किन्तु तत्सद्भावे, अतो जीवन्मुक्ते नातिप्रसङ्ग इत्यर्थः ॥५८॥
गर्भवासादि यावत् तु पुनर् जन्मोपपादनम् ।
समस्तावस्थकं तावद् दुःखम् एवावगम्यताम् ॥५९॥
ततः किम् ? अत आहगर्भवासादीति । पुनर् जन्मन उपपादनं प्रापणं यावत् तावद् दुःखम् एव । यद् वा, वामदेवगर्भवासव्यावृत्त्यम् आहपुनर् जन्मेति ॥५९॥
क्षुत्तृष्णोपशमं तद्वच् छीताद्युपशमं सुखम् ।
मन्यते बालबुद्धित्वात् दुःखम् एव हि तत् पुनः ॥६०॥
अन्नपानादिजनितसुखम् अप्यस्ति, कुतो दुःखम् एवोज्यते ? इति चेत्, तत्राहक्षुद् इति । क्षुत्पिपासादिकृतदुःखोपशमं मूढो भ्रान्तः सुखं मन्यते । तद् धि पुनर् अन्नपानादिसम्पादनप्रयासाद् दुःखम् एव ॥६०॥
अत्यन्तस्तिमिताङ्गानां व्यायाम् एव सुखैषिणाम् ।
आन्तिज्ञानावृताक्षाणां प्रहारोऽपि सुखायते ॥६१॥
दुःखत्वेन प्रसिद्धेऽपीच्छयाङ्गप्रहारादौ सुखभ्रमं दृष्टान्तत्वेनाहअत्यन्तेति । वातादिदोषेण अत्यन्तं जडीभूतगात्राणां व्यायामेन गमनादिश्रमेण सुखम् इच्छतां व्यायामोऽपि सुखम् इव भवति, भ्रान्तिज्ञानावृताक्षाणां च मोहपिहितदृष्टीनां कामिनां प्रणयकुपितकामिनीनूपुररणत्कारचरणप्रहारोऽपि सुखवत् प्रतीयते ॥६१॥
का शरीरम् अशेषाणां श्लेष्मादीनां महाचयः ।
क्व कान्तिशोभासौरभ्यकमनीयादयो गुणाः ॥६२॥
तद् एव कामिनां सुखम् । निन्दतिक्वेति । महाचयः स्थूलसङ्घातः, कान्तिगौरत्वादिः अङ्गच्छाया, शोभा भूषणादिकृता, सौरभ्यं सौगन्ध्यं, कमनीयं स्मरणयतिअं, एवम् आदयो गुणाश् च क्व ? ॥६२॥
मांसासृक्पूयविण्मूत्रस्नायुमज्जास्थिसंहतौ ।
देहे चेत् प्रीतिमान् मूढो नरके भवितापि सः ॥६३॥
देहे चेद् अहम्ममकारास्पदे प्रीतिमान् भवेत्, तर्हि नरकेऽपि प्रीतिमान् भविष्यति । तस्यापि नारकिभोग्यमांसादिसङ्घातत्वाविशेषात् ॥६३॥
अग्नेः शीतेन तोयस्य तृषा भक्तस्य च क्षुधा ।
क्रियते सुखकर्तृत्वं तद् विलोमस्य चेतरैः ॥६४॥
किं च न वस्तुतः किञ्चित् सुखसाधनस्यैव कदाचित् दुःखदर्शनाद् इत्य् आहअग्नेर् इति । शीतेन पूर्वभाविना अग्नेः सुखकर्तृत्वं क्रियते । शीताभावे ग्रीष्मे अग्नेर् दुःसहत्वात् । एवं पूर्वभाविन्या तृषा तोयस्य, क्षुधा च भक्तस्यान्नस्य, तयोर् अभावे तोयान्नयोर् अतिप्रतिकूलत्वात् तद्विलोमस्याग्न्यादिप्रतियोगिनः शीतादेः, इतरैर् अग्न्यादिभिः, अग्निना सन्तापे सति शीतस्य, तोये सति तृषः, अन्ने सति क्षुधः सुखहेतुत्वं, अन्यथा तेषाम् एव दुःखहेतुत्वात् ॥६४॥
करोति हे दैत्यसुता यावन् मात्रं परिग्रहम् ।
तावन्मात्रं स एवास्य दुःखं चेतसि यच्छति ॥६५॥
किं च, करोतीति ॥६५॥
यावतः कुरुते जन्तुः सम्बन्धान् मनसः प्रियान् ।
तावन्तोऽस्य निखन्यन्ते हृदये शोकशङ्कवः ॥६६॥
यद् यद् गृहे तन् मनसि यत्र तत्रावतिष्ठतः ।
नाशदाहापहरणं तत्र तस्यैव तिष्ठति ॥६७॥
जन्मन्यत्र महद् दुःखं म्रियमाणस्य चापि तत् ।
यातनासु यमस्योग्रं गर्भसङ्क्रमणेषु च ॥६८॥
गर्भे च सुखलेशोऽपि भवद्भिर् अनुमीयते ।
यदि तत् कथ्यताम् एवं सर्वं दुःखमयं जगत् ॥६९॥
तद् एवम् अतिदुःखानाम् आस्पदेऽत्र भवार्णवे ।
भवतां कथ्यते सत्यं विष्णुर् एकः परायणम् ॥७०॥
मा जानीत वयं बाला देही देहेषु शाश्वतः ।
जरायौवनजन्माद्या धर्मा देहस्य नात्मनः ॥७१॥
बालोऽहं तावद् इच्छातो यतिष्ये श्रेयसे युवा ।
युवाहं वार्धके प्राप्ते करिष्याम्य् आत्मनो हितम् ॥७२॥
वृद्धोऽहं मम कर्माणि सम्न्तानि न गोचरे ।
किं करिष्यामि मन्दात्मा समर्थेन न यत् कृतम् ॥७३॥
एवं दुराशयाक्षिप्तमानसः पुरुषः सदा ।
श्रेयसोऽभिसुखं याति न कदाचिद् पिपासितः ॥७४॥
बाल्ये क्रीडनकासक्ता यौवने विषयोन्मुखाः ।
अज्ञा नयन्त्यशक्त्या च वार्धकं समुपस्थितम् ॥७५॥
तस्माद् बाल्ये विवेकात्मा यतेत श्रेयसे सद् ।
बाल्ययौवनवृद्धाद्यैर् देहभावैर् असंयुतः ॥७६॥
तद् एतद् वो मयाख्यातं यदि जानीत नानृतम् ।
तद् अस्मत् प्रीतये विष्णुः स्मर्यतां बन्धमुक्तिदः ॥७७॥
आयासः स्मरणे कोऽस्य स्मृतो यच्छति शोभनम् ।
पापक्षयश् च भवति स्मरतां तम् अहर् निशम् ॥७८॥
सर्वभूतस्थिते तस्मिन् मतिर् मैत्री दिवानिशम् ।
भवतां जाययाम् एवं सर्वक्लेशान् प्रहास्यथ ॥७९॥
तापत्रयेणाभिहतं यद् एतद् अखिलं जगत् ।
तदा शोच्येषु भूतेषु द्वेषं प्राज्ञः करोति कः ॥८०॥
अथ भद्राणि भूतानि हीनशक्तिर् अहं परम् ।
मुदं तथापि कुर्वीत हानिर् द्वेषफलं यतः ॥८१॥
बद्धवैराणि भूतानि द्वेषं कुर्वन्ति चेत् ततः ।
शोच्यान्यहोऽतिमोहेन व्याप्तानीति मनीषिणा ॥८२॥
एते भिन्नदृशा दैत्या विकल्पाः कथिता मया ।
कृत्वाभ्युपगमं तत्र सङ्क्षेपः श्रूयतां मम ॥८३॥
विसारः सर्वभूतस्य विष्णोर् विश्वम् इदं जगत् ।
द्रष्टव्यम् आत्मवत् तस्माद् अभेदेन विचक्षणैः ॥८४॥
समुत्सृज्यासुरं भावं तस्माद् यूयं तथा वयम् ।
तथा यत्नं करिष्यामो यथा प्राप्स्याम निर्वृतिम् ॥८५॥
या नाग्निना न वार्केण नेन्दुना नैव वायुना ।
पर्जन्यवरुणाभ्याम् वा न सिद्धैर् न च राक्षसैः ॥८६॥
न यक्षैर् न च दैत्येन्द्रैर् नोरगैर् न च किन्नरैः ।
न मनुष्यैर् न पशुभिर् दोषैर् नैवात्मसम्भवैः ॥८७॥
ज्वराक्षिरोगातीसारप्लीहगुल्मादिकैस् तथा ।
द्वेषेर्ष्यामत्सराद्यैर् वा रागलोभादिभिः क्षयम् ॥८८॥
न चान्यैर् नीयते कैश्चिन् नित्या ह्यत्यन्तनिर्मला ।
ताम् आप्नोति मलं त्यक्त्वा केशवे हृदि संस्थिते ॥८९॥
असारसंसारविवर्तनेषु
मा यात तोषं प्रसभं ब्रवीमि ।
सर्वत्र दैत्याः समताम् उपेत
समत्वम् आराधनम् अच्युतस्य ॥९०॥
तस्मिन् प्रसन्ने किम् इहास्त्यलभ्यं
धर्मार्थकामैर् अलम् अल्पकास् ते ।
समाश्रिताद् ब्रह्मतरोर् अनन्तान्
निःसंशयं प्राप्स्यथ वै महत् फलम् ॥९१॥
इति श्रीविष्णुपुराणे प्रथमेंऽशे सप्तदशोऽध्यायः
॥१७॥
ओ)०(ओ