१६

अथ षोडशोऽध्यायः
मैत्रेयस्य प्रह्लादचरितविषयकः प्रश्नः

मैत्रेय उवाच
कथितो भवता वंशो मानवानां महामुने ।
कारणं चास्य जगतो विष्णुर् एव सनातनः ॥१॥

उक्तानुवादपूर्वकं प्रह्लादचरितं पृच्छतिकथित इत्यादिना । मानवानाम् उत्तानपादध्रुवादीनाम् ॥१॥

यच् चैतद् भगवान् आह प्रह्लादं दैत्यम् उत्तमम् ।
ददाह नाग्निनास्त्रैश् च क्षुण्णस् तत्याज जीवितम् ॥२॥

ददाह यन् नाग्निः । अस्त्रैः क्षुण्णः प्रहतोऽपि ॥२॥

जगाम वसुधा क्षोभं प्रह्लादे सलिले स्थिते ।
बन्धबद्धे विचलति विक्षिप्ताङ्गैः समाहता ॥३॥

यत्र अस्मिन् प्रह्लादे बन्धैर् बद्धे विचलति सति तस्य विक्षिप्तैर् अङ्गैः समाहता सती वसुधा क्षोभं जगाम । विक्षिप्ताङ्गः समाहिता इति पाठे तु उत्तरेणान्वयः । बन्धबद्धो विचरतीति पाठे पृथग् एतद् वाक्यम् ॥३॥

शैलैर् आक्रान्तदेहोऽपि न ममार च यः पुरा ।
त्वयैवातीव माहात्म्यं कथितं यस्य धीमतः ॥४॥
तस्य प्रभावम् अतुलं विष्णोर् भक्तिमतो मुने ।
श्रोतुम् इच्छामि यस्यैतच् चरितं दीप्ततेजसः ॥५॥
किन्निमित्तम् असौ शस्त्रैर् विक्षतो दितिर्जैर् मुने ।
किमर्थं चाब्धिसलिले निक्षिप्तो धर्मतत्परः ॥६॥
आक्रान्तः पर्वतैः कस्मात् कस्माद् दष्टो महोरगैः ।
क्षिप्तः किम् अद्रिशिखरात् किं वा पावकसञ्चये ॥७॥
दिग्दन्तिनां दन्तभूमिं स च कस्मान् निरूपितः ।
संशोषकोऽनिलश् चास्य प्रयुक्तः किं महासुरैः ॥८॥
कृत्यां च दैत्यगुरवो युयुजुस् तत्र किं मुने ।
शम्बरश् चापि मायानां सहस्रं किं प्रयुक्तवान् ॥९॥
हालाहलं विषम् अहो दैत्यसूदैर् महात्मनः ।
कस्माद् दत्तं विनाशाय यद् जीर्णं तेन धीमता ॥१०॥
एतत् सर्वं महाभाग प्रह्लादस्य महात्मनः ।
चरितं श्रोतुम् इच्छामि महामाहात्म्यसूचकम् ॥११॥
न हि कौतूहलं तत्र यद् दैत्यैर् न हतो हि सः ।
अनन्यमनसो विष्णौ कः शक्नोति निपातने ॥१२॥
तस्मिन् धर्मपरे नित्यं केशवाराधानोद्यते ।
स्ववंशप्रभवैर् दैत्यैः कर्तुं द्वेषोऽतिदुष्करः ॥१३॥
धर्मात्मनि महाभागे विष्णुभक्ते विमत्सरे ।
दैतेयैः प्रहृतं यस्मात् तन् ममाख्यातुम् अर्हसि ॥१४॥
प्रहरन्ति महात्मानो विपक्षा अपि नेदृशे ।
गुणैः समन्विते साधौ किं पुनर् यः स्वपक्षजः ॥१५॥
तद् एतत् कथ्यतां सर्वं विस्तरान् मुनिसत्तम ।
दैत्येश्वरस्य चरितं श्रोतुम् इच्छाम्यशेषतः ॥१६॥

शिष्टाः प्रश्नाः स्पष्टार्थाः ॥१६॥

इति श्रीविष्णुपुराणे प्रथमेंऽशे षोडशोऽध्यायः
॥१६॥

ओ)०(ओ