अथ पञ्चदशोऽध्यायः
कुण्डमुनिचरितं, मैथुनधर्मेण दक्षस्य प्रजासृष्टिश् च
पराशर उवाच
तपश् चरत्सु पृथिवीं प्रचेतःसु महीरुहाः ।
अरक्ष्यमाणाम् आबब्रुर् बभूवाथ प्रजाक्षयः ॥१॥
प्रचेतःसु तपश् चरत्सु तत्पितरि च नादात् तत्त्वज्ञानं प्राप्य राज्यं त्यक्त्वा वनं गते सति इति द्रष्टव्यम् । तद् उक्तम्
प्राचीनबर्हिषं क्षत्तकर्मस्व् आसक्तचेतसम् ।
नारदोऽध्यात्मतत्त्वज्ञः कृपालुः प्रत्यबोधयत् ॥ [भा.पु. ४.२५.३]
इत्यादिना पुरञ्जनाख्यानेन । अतोऽरक्ष्यमाणां पृथिवीं कर्षणाद्यभावाद् महीरुहा आवृतवन्तः ॥१३॥
नाशकन् मारुतो वातु वृतं खम् अभवद् द्रुमैः ।
दशवर्षसहस्राणि न शेकुश् चेष्टितं प्रजाः ॥२॥
तद् दृष्ट्वा जलनिष्क्रान्ताः सर्वे क्रुद्धाः प्रचेतसः ।
मुखेभ्यो वायुम् अग्निं च तेऽसृजन् जातमन्यवः ॥३॥
उन्मूलान् अथ तान् वृक्षान् कृत्वा वायुर् अशोषयत् ।
तान् अग्निर् अदहद् घोरस् तत्राभूद् द्रुमसङ्क्षयः ॥४॥
वायोर् अग्नेः सृष्टेः प्रयोजनम् आहउन्मूलान् इति ॥४॥
द्रुमक्षयम् अथो दृष्ट्वा किञ्चिच् छिष्टेषु शाखिषु ।
उपागम्याब्रवीद् एतान् राजा सोमः प्रजापतीन् ॥५॥
सोमो वृक्षाणां राजा । प्रजापतीन् इत्यनेन कन्दमूलफलादिभिः प्रजावृद्धिकारिणां वृक्षाणां दाहः प्रजापालकानां युष्माकम् अनुचित इति सामोपायः .सूचितः ॥५॥
कोपं यच्छत राजानः शृणुध्वं च वचो मम ।
सन्धानं वः करिष्यामि सह क्षितिरुहैर् अहम् ॥६॥
कोपं यच्छत नियमयत ॥६॥
रत्नभूता च कन्येयं वाक्षेयी वरवर्णिनी ।
भविष्यं जानता पूर्वं मया गोभिर् विवर्धिता ॥७॥
तपःप्रदानेन सन्धानं करोति, रत्नभूतेति । वार्क्षेयी वृक्षजा । भविष्यत इयं युष्माकं पत्नी भविष्यति, अस्यां दक्षो जनिष्यते, तद्वंशेन च त्रिलोकी पूरयिष्यत इत्य् आदिर् अजानता मया गोभिः सुधामयै रश्मिभिः संवर्धिता ॥७॥
मारिषा नाम नाम्नैषा वृक्षाणाम् इति निर्मिता ।
भार्या वोऽस्तु महाभागा ध्रुवं वंशविवर्धिनी ॥८॥
युष्माकं तेजसोऽर्धेन मम चार्धेन तेजसः ।
अस्याम् उत्पत्स्यते विद्वान् दक्षो नाम प्रजापतिः ॥९॥
मम चांशेन संयुक्तो युष्मत्तेजोमयेन वै ।
तेजसाग्रिसमो भूयः प्रजाः संवर्धयिष्यति ॥१०॥
कण्डुर् नाम मुनिः पूर्वम् आसीद् वेदविदां वरः ।
सुरम्ये गोमतीतीरे स तेपे परमं तपः ॥११॥
तत्क्षोभाय सुरेन्द्रेण प्रम्लोचाख्या वराप्सराः ।
प्रयुक्ता क्षोभयामास तम् ऋषिं सा शुचिस्मिता ॥१२॥
क्षोभितः स तया सार्धं वर्षाणाम् अधिकं शतम् ।
अतिष्ठन् मन्दरद्रोण्यां विषयासक्तमानसः ॥१३॥
तं सा प्राह महाभाग गन्तुम् इच्छाम्यहं दिवम् ।
प्रसादसुमुखो ब्रह्मन्न् अनुज्ञां दातुम् अर्हसि ॥१४॥
तयैवम् उक्तः स मुनिस् तस्याम् आसक्तमानसः ।
दिनानि कतिचिद् भद्रे स्थीयताम् इत्यभाषत ॥१५॥
एवम् उक्ता ततस् तेन साग्रं वर्षशतं पुनः ।
बुभुजे विषयांस् तन्वी तेन साकं महात्मना ॥१६॥
अनुज्ञां देहि भगवन् व्रजामि त्रिदशालयम् ।
उक्तस् तथेति स पुनः स्थीयताम् इत्यभाषत ॥१७॥
पुनर् गते वर्षशते साधिके सा शुभानना ।
यामीत्य् आह दिवं ब्रह्मन् प्रणयस्मितशोभनम् ॥१८॥
उक्तस् तयैवं स मुनिर् उपगुह्यायतेक्षणाम् ।
इहास्यतां क्षणं सुभ्रु चिरकालं गमिष्यसि ॥१९॥
सा क्रीडमाना सुश्रोणी सह तेनार्षिणा पुनः ।
शतद्वयं किञ्चिद् ऊनं वर्षाणाम् अन्वतिष्टत ॥२०॥
गमनाय महाभाग देवराजनिवेशनम् ।
प्रोक्तः प्रोक्तस् तया तन्व्या स्थीयताम् इत्यभाषत ॥२१॥
तस्य शापभयाद् भीता दाक्षिण्येन च दक्षिणा ।
प्रोक्ता प्रणयभङ्गार्तिवेदिनी नजहौ मुनिम् ॥२२॥
तया च रमतस् तस्य परमर्षेर् अहर्निशम् ।
नवं नवम् अभूत् प्रेम मन्मथाविष्टचेतसः ॥२३॥
एकदा तु त्वरायुक्तो निश्चक्रामोटजान् मुनिः ।
निष्क्रामन्तं च कुत्रेति गम्यते प्राह सा शुभा ॥२४॥
इत्य् उक्तः स तया प्राह परिवृत्तम् अहः शुभे ।
सन्ध्योपास्तिं करिष्यामि क्रियालोपोऽन्यथा भवेत् ॥२५॥
ततः प्रहस्य सुदती तं सा प्राह महामुनिम् ।
किम् अद्य सर्वधर्मज्ञ परिवृत्तम् अहस् तव ॥२६॥
बहूनां विप्र वर्षाणां परिवृत्तम् अहस् तव ।
गतम् एतन् न कुरुते विस्मयं कस्य कथ्यताम् ॥२७॥
मुनिर् उवाच
प्रातस् त्वम् आगता भद्रे नदीतीरम् इदं शुभम् ।
मया दृष्टासि तन्वङ्गि प्रविष्टासि ममाश्रयम् ॥२८॥
इयं च वर्तते सन्ध्या परिणामम् अहर् गतम् ।
उपहासः किमर्थोऽयं सद्भावः कथ्यतां मम ॥२९॥
प्रम्लोचोवाच
प्रत्यूषस्यागता ब्रह्मन् सत्यम् एतन् न तन् मृषा ।
नन्व् अस्य तस्य कालस्य गतान्यब्दशतानि ते ॥३०॥
सोम उवाच
ततः साध्वसो विप्रस् तां पप्रच्छायतेक्षणाम् ।
कथ्यतां भीरु कः कालस् त्वया मे रमतः सह ॥३१॥
प्रम्लोचोवाच
सप्तोत्तरान्यतीतानि नववर्षशतानि ते ।
भासाश् च षट् तथैवान्यत् समतीतं दिनत्रयम् ॥३२॥
ऋषिर् उवाच
सत्यं भीरु वदस्य् एतत् परिहासोऽथ वा शुभे ।
दिनम् एकम् अहं मन्ये त्वया सार्धम् इहासितम् ॥३३॥
प्रम्लोचोवाच
वदिष्याम्यनृतं ब्रह्मन् कथम् अत्र तवान्तिके ।
विशेषेणाद्य भवता पृष्टा मार्गानुवर्तिना ॥३४॥
सोम उवाच
निशम्य तद्वचः सत्यं स मुनिर् नृपनन्दनाः ।
धिग् धिङ् माम् इत्यतीवेत्थं निनिन्दात्मानम् आत्मना ॥३५॥
मुनिर् उवाच
तपांसि मम नष्टानि हतं ब्रह्मविदां धनम् ।
हतो विवेकः केनापि योषिन्मोहाय निर्मिता ॥३६॥
ऊर्मिषट्कातिगं ब्रह्म ज्ञेयम् आत्मजयेन मे ।
मतिर् एषा हृता येन धिक् तं कामं महाग्रहम् ॥३७॥
व्रतानि वेदवेद्याप्तिकारणान्यखिलानि च ।
नरकग्राममार्गेण सङ्गेनापहृतानि मे ॥३८॥
विनिन्द्येत्थं स धर्मज्ञः स्वयम् आत्मानम् आत्मना ।
ताम् अप्सरसम् आसीनाम् इदं वचनम् अब्रवीत् ॥३९॥
गच्छ पापे यथाकामं यत् कार्यं तत् कृतं त्वया ।
देवराजस्य मत्क्षोभं कुर्वन्त्या भावचेष्टितैः ॥४०॥
न त्वां करोम्यहं भस्म क्रोधतीव्रेण वह्निना ।
सतां सप्तपदं मैत्रम् उषितोऽहं त्वया सह ॥४१॥
अथवा तव को दोषः किं वा कुप्याम्यहं तव ।
ममैव दोषो नितरां येनाहम् अजितेन्द्रियः ॥४२॥
यया शक्रप्रियार्थिन्या कृतो मे तपसो व्ययः ।
त्वया धिक् तां महामोहमञ्जूषं सुजुगुप्सिताम् ॥४३॥
सोम उवाच
यावद् इत्थं स विप्रर्षिस् तां ब्रवीति सुमध्यमाम् ।
तावद् गलत्स्वेदजला साबभूवातिवेपथुः ॥४४॥
प्रवेपमानां सततं स्विन्नगात्रलतां सतीम् ।
गच्छ गच्छेति सक्रोधम् उवाच मुनिसत्तमः ॥४५॥
सा तु निर्भर्त्सिता तेन विनिष्क्रम्य तदाश्रमात् ।
आकाशगामिनी स्वेदं ममार्ज तरुपल्लवैः ॥४६॥
निर्मार्जमाना गात्राणि गलत्स्वेदजलानि वै ।
वृक्षाद् वृक्षं ययौ बाला तदग्रारुणपल्लवैः ॥४७॥
ऋषिणा यस् तदा गर्भस् तस्या देहे समाहितः ।
निर्जगाम स रोमाञ्चस्वेदरूपी तदङ्गतः ॥४८॥
तं वृक्षा जगृहुर् गर्भम् एकं चक्रे तु मारुतः ।
मया चाप्यायितो गोभिः स तदा ववृधे शनैः ॥४९॥
वृक्षाग्रगर्भसम्भूता मारिषाख्या वरानना ।
तां प्रदास्यन्ति वो वृक्षाः कोप एष प्रशाम्यताम् ॥५०॥
कण्डोर् अपत्यम् एवं सा वृक्षेभ्यश् च समुद्गता ।
ममापत्यं तथा वायोः प्रम्लोचातनया च सा ॥५१॥
श्रीपराशर उवाच
स चापि भगवान् कण्डुः क्षीणे तपसि सत्तमः ।
पुरुषोत्तमाख्यं मैत्रेय विष्णोर् आयतनं ययौ ॥५२॥
तत्रैकाग्रमतिर् भूत्वा चकाराराधनं हरेः ।
ब्रह्मपारमयं कुर्वन् जपम् एकाग्रमानसः ।
ऊर्ध्वबाहुर् महायोगी स्थित्वासौ भूपनन्दनाः ॥५३॥
प्रचेतस ऊचुः
ब्रह्मपारं मुनेः श्रोतुम् इच्छामः परमं स्तवम् ।
जपता कण्डुना देवो येनाराध्यत केशवः ॥५४॥
सोम उवाच
पारं परं विष्णुर् अपारपारपारः
परः परेभ्यः परमार्थरूपी ।
स ब्रह्मपारः परपारभूतः
परः पराणाम् अपि पारपारः ॥५५॥
सङ्कीर्त्य तत्त्वं त्रिश्लोक्या प्रार्थना च चतुर्थतः ।
ब्रह्मपारस्तवेनैवं कण्टोस् तुष्टोऽचिराद् धरिः ॥
पारं परम् इत्यादि त्रिभिः श्लोकैर् विष्णोस् तत्त्वं सङ्कीर्त्य चतुर्थेन रागादिदोषोपशमः प्रार्थयते । परं निरतिशयम् आवृत्तिशून्यं संसाराध्वनः पारम् अवधिर् विष्णुः । सोऽध्वनः परम् आप्नोति तद् विष्णोः परमं पदम् इति श्रुतेः । अतः अपारपारो दुरन्तस्य संसाराध्वनः परत्वात् अपारो दुष्प्रापः पारो यस्य स वा । पारतीरसमाप्ताव् इति धातुः । तर्हि दीर्घेण कालेन प्राप्यः स्यात् ? तत्राहुःपरः परेभ्य इति परेभ्य आकाशादिभ्योऽपि परः अनन्त इत्यर्थः । महतो महीयान् इति श्रुतेः । अत एव परमार्थरूपी । सत्यस्वरूपः । यद् वा, अर्थः प्रयोजनं परमपुरुषार्थः परमानन्दः स एव ।
ननु तस्य दुष्प्रापत्वे कथं परमपुरुषता ? कथं वा सोऽध्वनः परम् आप्नोति इति श्रुतिः ? तत्राहस ब्रह्म वेदः तपो वा सहितास् तन्निष्ठाः सब्रह्मणः तेषां पारः प्राप्तुं शक्यः । तत् कुतः ? इत्यत्राहपरपारभूतः परस्यानात्मभूतप्रपञ्चस्य पारभूतः अवधिरूपः ।
तत्र हेतुःपरः पराणाम् अपीति आत्माध्यासाद् आत्मत्वेन प्रतीतानाम् इन्द्रियादीनां परः निरुपाधिकः । परमात्मा इन्द्रियेभ्यः परा ह्यर्थाः इत्य् उपक्रम्य पुरुषान् न परं किञ्चित् सा काष्ठा सा परा गतिः इति श्रुतेः । अयम् अर्थःनहि ग्रामादिवद् गत्या तत्प्राप्तिः, येन दुरन्तसंसाराध्वपारत्वाद् अनन्तत्वाच् च न प्राप्येत । किन्तु अयं ततोऽतिदूरीभूतोऽपि तपोविशुद्धचित्तैर् वेदोत्पन्नज्ञानेन अज्ञानकृतानात्मप्रपञ्चाद् अन्तः प्राप्तुं शक्य इति । अत एवोपाधिपरिच्छेदाभावान् निरशङ्कुशाचिन्त्यपरमैश्वर्येण पारपारः । पारश् चासौ पारश् चेति समासः । पृ पालनपूरणयोर् इति धातोः । पार इति रूपम् । स्वभक्तानां पावनात् पारः । अपेक्षितैर् वरैः पूरणाच् च पार इति द्वितीयपारशब्दस्यथार्थः । यद् वा, पाराः पालकाः पूरकाश् च ये इन्द्रब्रह्मादयस् तेषाम् अपि पालकः पूरकश् चेत्यर्थः ॥५५॥
स कारणं कारणतस् ततोऽपि
तस्यापि हेतुः परहेतुहेतुः ।
कार्येषु चैवं सह कर्मकर्तृ
रूपैर् अशेषैर् अवतीह सर्वम् ॥५६॥
तद् एवं विशुद्धरूपेण स्तुत्वा सार्वात्म्येन स्तौतिस कारणम् इति । कारणत इति षष्ठ्यर्थे तसिल् । स विष्णुः कारणस्यापि कारणं, तस्यापि कारणम् इत्य् एवं चराचरकारणं ब्रह्माण्डम् आरभ्य मूलकारणपर्यन्तं कारणमालात्मकः । यथोक्तं ब्रह्मस्तुतौकारणं कारणस्यापि तस्य कारणम् इत्यादि । कार्येषु चैवम् इत्यनेन प्रकृतिकार्यं महत्तत्त्वम् आरभ्य चरमकार्यपर्यन्तं कार्यमालात्मको विष्णुर् एवेत्य् उक्तम् ।तद् एवं सृष्टिक्रियायाम् उपादानकारणत्वेन तत्कार्यत्वेन च सार्वात्म्यम् उक्त्वा पालनक्रियायां पाल्यरूपकर्मतया तत्कर्तृतया वा सार्वात्म्यम् आहस इति । निपातोऽवधारणार्थः । स विष्णुर् एव धर्मादिरूपैः पालनीयैस् तत्पालकैश् च कर्तृरूपैर् अशेषैः स्वीयैर् उपलक्षितः सन् सर्वम् अवतीति ।
यद् वा, अशेषैः कर्मरूपैः कर्तृरूपैश् च । सहैवम् इति कर्मकर्तृरूपमालान्तरात्मकश् चातिदेशः । तत्र कर्तुर् ईप्सिततमं कर्म इति स्मृतेः । कर्तुः क्रियया ग्रामगमनादिकरणिकया भावनाख्यया यद् ईप्सिततमं सुखं, तद् एव मुख्यं कर्म् अत्र ग्र्ःयते । ग्रामादेस् तु धात्वर्थकर्मतैव न भावनाकर्मता । अत एवास्ते शेते इत्यादिषु अकर्मकेष्व् अपि प्रत्ययांशे भावनाप्रतीतेर् भाव्यं विना भावनाभावाच् च । सुखकाम आसीत् स्वार्थ्यकामः शयीत्येत्य् एवम् आदिप्रयोगेष्व् आसनेन सुखं भावयेद् इत्य् एवम् आदिवचनव्यक्त्या सुखादेर् भावनाकर्मत्वम् अभ्युपगम्यते । तद् उक्तम् भट्टैः
अस्त्य् आदाव् अपि कर्त्रंशे भाव्यम् अस्त्ये व भावना ।
अन्यत्रांशे च नात्ट्त न तथा सा प्रभासते ॥ इति ।
यद्य् एवम् अकर्मकेष्व् अपि भाव्यं स्यात्, कस् तर्हि सकर्मकाकर्मयोर् भेद इत्य् आक्षिप्य परिहारश् चोक्तः ।
साक्षाद् अव्यभिचारेण धात्वर्थो यत्र कर्मभाक् ।
सकर्मकः स धातुः स्यात् पारम्पर्ये त्व् अकर्मकः ॥ इति ।
अत्रोक्तकर्मशब्देन ईप्सिततमसुखवाचिना मानुषानन्दम् आरभ्य ब्रह्मानन्दपर्यन्तपुरुषार्थसाधकोऽपि विष्णुर् एवेत्य् उक्तम् । तद् एवं कारणकार्यकर्मकर्तृरूपैः सृष्टिलयक्रियाप्रतियोगिभिस् तत्तत्सम्बन्धिसार्वात्म्यम् आहअशेषैर् एतै रूपैः स विष्णुः सर्वम् अवतीति ॥५६॥
ब्रह्म प्रभुर् ब्रह्म स सर्वभूतो
ब्रह्म प्रजानां पतिर् अच्युतोऽसौ
ब्रह्माक्षरं नित्यम् अजं स विष्णुर्
अपक्षयाद्यैर् अखिलैर् असङ्गि ॥५७॥
ननु यदि शुद्धं ब्रह्मैवासौ विष्णुः, तर्हि कथम् अशेषै रूपैर् अवतीत्य् उच्यते ? अथ सर्वात्मकस् तर्हि सर्वभावविकारप्राप्तेः कुतोऽस्य विशुद्धता । इत्य् आशङ्क्याहब्रह्मेति । स विष्णुः शुद्धं ब्रह्मैव सन् प्रभुः सर्वनियन्ता ब्रह्मैव सन् सर्वभूतश् च । ब्रह्मैव सन् प्रजानां पतिश् च पालकः ।
ननु ब्रह्मस्वरूपाप्रच्युत्या यतोऽसाव् अच्युतः प्रसिद्धः । अतः स विष्णुः व्यापनशीलः । सर्वात्मकोऽपि सन् अक्षरं ध्रुवं नित्यम् अजम् अपक्षयाद्यैर् असङ्गि अपरिक्षयविपरिणामवृद्धिसङ्गरहितं च ब्रह्मैव अचिन्त्यस्वाधीनमायया सर्वात्मतया स विवर्तते, अतो नायं विरोधः इति भावः ॥५७॥
ब्रह्माक्षरम् अजं नित्यं यथासौ पुरुषोत्तमः ।
तथा रागादयो दोषा प्रयान्तु प्रशमं मम ॥५८॥
उक्तं तत्त्वम् अनुस्मरन् दोषोपशमं प्रार्थयतेब्रह्माक्षरम् इति । यथा निर्विकारं ब्रह्मैवासौ पुरुषोत्तमः, तथा तदनुस्मरणेण तत्प्रसादाल् लब्धात् स्वरूपाविर्भावाद् मम रागादयः राग आदिकारणं येषां क्रियलोपयोगभङ्गादिदोषाणां ते सर्वे दोषाः प्रकर्षेण समूलं शमं नाशं प्रयान्तु ॥५८॥
सोम उवाच
एतद् ब्रह्मपराख्यं वै संस्तवं परमं जपन् ।
अवाप परमां सिद्धिं स तम् आराध्य केशवम् ॥५९॥
इमं स्तवं यः पठति शृणुयाद् वापि नित्यशः ।
स कामदोषैर् अखिलैर् मुक्तः प्राप्नोति वाञ्छितम् ॥५९अ॥
इयं च मारिषा पूर्वम् आसीद् या तां ब्रवीमि वः ।
कार्यगौरवम् एतस्याः कथने फलदायि वः ॥६०॥
अपुत्रा प्राग् इयं विष्णुं मृते भर्तरि सत्तमा ।
भूपपत्नी महाभागा तोषयामास भक्तितः ॥६१॥
आराधितस् तया विष्णुः प्राह प्रत्यक्षतां गतः ।
वरं वृणीष्वेति शुभे सा च प्राहात्मवाञ्छितम् ॥६२॥
भगवन् बालवैधव्यं वृथाजन्माहम् ईदृशी ।
मन्दभाग्या समुद्भूता विफला च जगत्पते ॥६३॥
भवन्तु पतयः श्लाघ्या मम जन्मनि जन्मनि ।
त्वत्प्रसादात् तथा पुत्रः प्रजापतिसमोऽस्तु मे ॥६४॥
कुलं शीलं वयः सत्यं दाक्षिण्यं क्षिप्त्रकारिता ।
अविसंवादिता सत्त्वं वृद्धसेवा कृतज्ञता ॥६५॥
रूपसम्पत्समायुक्ता सर्वस्य प्रियदर्शना ।
अयोनिजा च जायेयं त्वत्प्रसादाद् अधोक्षज ॥६६॥
सोम उवाच
तयैवम् उक्तो देवेशो हृषीकेश उवाच ताम् ।
प्रणामनम्राम् उत्थाप्य वरदः परमेश्वरः ॥६७॥
देव उवाच
भविष्यन्ति महावीर्या एकस्मिन्न् एव जन्मनि ।
प्रख्यातोदारकर्माणो भवत्याः पतयो दश ॥६८॥
पुत्रं च सुमहावीर्यं महाबलपराक्रमम् ।
प्रजापतिगुणैर् युक्तं त्वम् अवाप्स्यसि शोभने ॥६९॥
वंशानां तस्य कर्तृत्वं जगत्यस्मिन् भविष्यति ।
त्रैलोक्यम् अखिला सूतिस् तस्य चापूरयिष्यति ॥७०॥
त्वं चाप्ययोनिजा साध्वी रूपौदार्यगुणान्विता ।
मनःप्रीतिकरी न्ṝणां मत्प्रसादाद् भविष्यति ॥७१॥
इत्य् उक्त्वान्तर्दधे देवस् तां विशालविलोचनाम् ।
सा चेयं मारिषा जाता युष्मत् पत्री नृपात्मजाः ॥७२॥
श्रीपराशर उवाच
ततः सोमस्य वचनाज् जगृहुस् ते प्रचेतसः ।
संहृत्य कोपं वृक्षेभ्यः पत्नीधर्मेण प्रजापतिः ॥७३॥
दशभ्यस् तु प्रचेतोभ्यो मारिषायां प्रजापतिः ।
जज्ञे दक्षो महाभागो यः पूर्वं ब्रह्मणोऽभवत् ॥७४॥
स तु दक्षो महाभागः सृष्ट्यर्थं सुमहामते ।
पुत्रान् उत्पादयामास प्रजासृष्ट्यर्थम् आत्मनः ॥७५॥
अवरांश् च वरांश् च द्विपदोऽथ चतुष्पदान् ।
आदेशं ब्रह्मणः कुर्वन् सृष्ट्यर्थं समुपस्थितः ॥७६॥
स सृष्ट्वा मनसा दक्षः पश्चाद् असृजत स्त्रियः ।
ददौ स दश धर्माय कश्यपाय त्रयोदश ।
कालस्य नयने युक्ताः सप्तविंशतिम् इन्दवे ॥७७॥
तासु देवास् तथा दैत्या नागा गावस् तथा खगाः ।
गन्धर्वाप्सरसश् चैव दानवाद्याश् च जज्ञिरे ॥७८॥
ततःप्रभृति मैत्रेय प्रजा मैथुनसम्भवाः ।
सङ्कल्पाद् दर्शनात् स्पर्शात् पूर्वेषाम् अभवन् प्रजाः ।
तपोविशेषैः सिद्धानां तदात्यन्ततपस्विनाम् ॥७९॥
श्रीमैत्रेय उवाच
अङ्गुष्ठाद् दक्षिणाद् दक्षः पूर्वं जातो मया श्रुतः ।
कथं प्राचेतसो भूयः समुत्पन्नो महामुने ॥८०॥
एष मे संशयो ब्रह्मन् महान् हृदि वर्तते ।
यद् दौहित्रश् च सोमस्य पुनः श्वशुरतां गतः ॥८१॥
श्रीपराशर उवाच
उत्पत्तिश् च निरोधश् च नित्यो भूतेषु सर्वदा ।
ऋषयोऽत्र न मुह्यन्ति ये चान्ये दिव्यचक्षुषः ॥८२॥
युगे युगे भवन्त्य् एते दक्षाद्या मुनिसत्तम ।
पुनश् चैवं निरुद्ध्यन्ते विद्वांस् तत्र न मुह्यति ॥८३॥
कानिष्ठ्यं ज्यैष्ठम् अप्य् एषां पूर्वं नाभूद् द्विजोत्तम ।
तप एव गरीयोऽभूत् प्रभावश् चैव कारणम् ॥८४॥
श्रीमैत्रेय उवाच
देवानां दानवानां च गन्धर्वोरगरक्षसाम् ।
उत्पत्तिं विस्तरेणेह मम ब्रह्मन् प्रकीर्तय ॥८५॥
श्रीपराशर उवाच
प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयम्भुवा ।
यथा ससर्ज भूतानि तथा शृणु महामुने ॥८६॥
मानसान्य् एव भूतानि पूर्वं दक्षोऽसृजत् तदा ।
देवान् ऋषीन् सगन्धर्वान् असुरान् पन्नगांस् तथा ॥८७॥
यदास्य सृजमानस्य न व्यवधन्त ताः प्रजाः।
ततः सञ्चिन्त्य स पुनः सृष्टिहेतोः प्रजापतिः ॥८८॥
मैथुनेनैव धर्मेण सिसृक्षुर् विविधाः प्रजाः ।
असिक्नीम् आवहत् कन्यां वीरणस्य प्रजापतेः ॥८९॥
अथ पुत्रसहस्राणि वैरुण्यां पञ्च वीर्यवान् ।
असिक्न्यां जनयामास सर्गहेतोः प्रजापतिः ॥९०॥
तान् दृष्ट्वा नारदो विप्र संविवर्धयिषून् प्रजाः ।
सङ्गम्य प्रियसंवादो देवर्षिर् इदम् अब्रवीत् ॥९१॥
हे हर्यश्वाः महावीर्याः प्रजा यूयं करिष्यथ ।
ईदृशो दृश्यते यत्नो भवतां श्रूयताम् इदम् ॥९२॥
बालिशा बत यूयं वै नास्या जानीत वै भुवः ।
अन्तर् ऊर्ध्वम् अधश् चैव कथं सृक्ष्यथ वै प्रजाः ॥९३॥
ऊर्ध्वं तिर्यग् अधश् चैव यदाप्रतिहता गतिः ।
तदा कस्माद् भुवो नान्तं सर्वे द्रक्ष्यथ बालिशाः ॥९४॥
ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतो दिशम् ।
अद्यापि नो निवर्तन्ते समुद्रेभ्य इवापगाः ॥९५॥
हर्यश्वेष्व् अथ नष्टेषु दक्षः प्राचेतसः पुनः ।
वैरुण्याम् अथ पुत्राणां सहस्रम् असृजत् प्रभुः ॥९६॥
विवर्धयिषवस् ते तु शबलाश्वाः प्रजाः पुनः ।
पूर्वोक्तं वचनं ब्रह्मन् नारदेनैव नोदिताः ॥९७॥
अन्योऽन्यम् ऊचुस् ते सर्वे सम्यग् आह महामुनिः ।
भ्रात्ṝणां पदवी चैव गन्तव्या नात्र संशयः ॥९८॥
ज्ञात्वा प्रमाणं पृथ्व्याश् च प्रजाः स्रक्ष्यामहे ततः ।
तेऽपि तेनैव मार्गेण प्रयाताः सर्वतोमुखम् ।
अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः ॥९९॥
ततः प्रभृति वै भ्राता भ्रातुर् अन्वेषणे द्विज ।
प्रयातो नश्यति तथा तन् न कार्यं विजानता ॥१००॥
तांश् चापि नष्टान् विज्ञाय पुत्रान् दक्षः प्रजापतिः ।
क्रोधं चक्रे महाभागो नारदं स शशाप च ॥१०१॥
सर्गकामस् ततो विद्वान् स मैत्रेय प्रजापतिः ।
षष्टिं दक्षोऽसृजत् कन्या वैरुण्याम् इति नः श्रुतम् ॥१०२॥
ददौ स दश धर्माय कश्यपाय त्रयोदश ।
सप्तविंशति सोमाय चतस्रोऽरिष्टनेमिने ॥१०३॥
द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे तथा ।
द्वे कृशाश्वाय विदुषे तासां नामानि मे शृणु ॥१०४॥
अरुन्धती वसुर् यामिर् लम्बा भानुर् मरुत्वती ।
सङ्कल्पा च मुहूर्ता च साध्या विश्वा च तादृशी ।
धर्मपत्न्यो दश त्व् एतास् तास्व् अपत्यानि मे शृणु ॥१०५॥
विश्वेदेवास् तु विश्वायाः साध्या साध्यान् अजायत ।
मरुत्वत्यां मरुत्वन्तो वसोश् च वसवः स्मृताः ।
भानोस् तु भानवः पुत्रा मुहूर्तायां मुहूर्तजाः ॥१०६॥
लम्बायाश् चैव घोषोऽथ नागवीथी तु यामिजा ॥१०७॥
पृथिवीविषयं सर्वम् अरुन्धत्याम् अजायत ।
सङ्कल्पायास् तु सर्वात्मा जज्ञे सङ्कल्प एव हि ॥१०८॥
ये त्व् अनेकवसुप्राणदेवा ज्योतिःपुरोगमाः ।
वसवोऽष्टौ समाख्यातास् तेषां वक्ष्यामि विस्तरम् ॥१०९॥
आपो ध्रुवश् च सोमश् च धर्मश् चैवानिलोऽनलः ।
प्रत्यूषश् च प्रभासश् च वसवो नामभिः स्मृताः ॥११०॥
आपस्य पुत्रो वैतण्डः श्रमः शान्तो ध्वनिस् तथा ।
ध्रुवस्य पुत्रो भगवान् कालो लोकप्रकालनः ॥१११॥
सोमस्य भगवान् वर्चा वर्च्दस्वी येन जायते ॥११२॥
धर्मस्य पुत्रो द्रविणो हुतहव्यवहस् तथा ।
मनोहरायां शिशिरः प्राणोऽथ वरुणस् तथा ॥११३॥
अनिलस्य शिवा भार्या तस्याः पुत्रो मनोजवः ।
अविज्ञातगतिश् चैव द्वौ पुत्राव् अनिलस्य तु ॥११४॥
अग्निपुत्रः कुमारस् तु शरस्तम्बे व्यजायत ।
तस्य शाखो विशाखश् च नैगमेयश् च पृष्ठजाः ॥११५॥
अपत्यं कृत्तिकानां तु कार्तिकेय इति स्मृतः ॥११६॥
प्रत्यूषस्य विदुः पुत्रम् ऋषि नाम्नाथ देवलम् ।
द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ ॥११७॥
बृहस्पतेस् तु भगिनी वरस्त्री ब्रह्मचारिणी ।
योगसिद्धा जगत्कृत्स्नम् असक्ता विचरत्य् उत ।
प्रभासस्य तु सा भार्या वसूनाम् अष्टमस्य तु ॥११८॥
विश्वकर्मा महाभागस् तस्यां जज्ञे प्रजापतिः ।
कर्ता शिल्पसहस्राणां त्रिदशानां च वर्धकी ॥११९॥
भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः ।
यः सर्वेषां विमानानि देवतानां चकार ह ।
मनुष्याश् चोपजीवन्ति यस्य शिल्पं महात्मनः ॥१२०॥
तस्य पुत्रास् तु चत्वारस् तेषां नामानि मे शृणु ।
अजैकपाद् अहिर्बुध्न्यस् त्वष्टा रुद्रश् च वीर्यवान् ।
त्वष्टुश् चाप्य् आत्मजः पुत्रो विश्वरूपो महातपाः ॥१२१॥
हरश् च बहुरूपश् च त्र्यम्बकश् चापराजितः ।
वृषाकपिश् च शम्भुश् च कपर्दी रैवतः स्मृतः ॥१२२॥
मृगव्याधश् च शर्वश् च कपाली च महामुने ।
एकादशैते कथिता रुदृअस् त्रिभुवनेश्वराः ।
शतं त्व् एकं समाख्यातं रुद्राणाम् अमितौजसाम् ॥१२३॥
कश्यपस्य तु भार्या यास् तासां नामानि मे शृणु ।
अदितिर् दितिर् दनुश् चैवारिष्टा च सुरसा स्वसा ॥१२४॥
सुरभिर् विनता चैव ताम्रा क्रोधवशा इरा ।
कद्रुर् मुनिश् च धर्मज्ञ तदपत्यानि मे शृणु ॥१२५॥
पूर्वमन्वन्तरे श्रेष्ठा द्वादशासन् सुरोत्तमाः ।
तुषिता नाम तेऽन्योऽन्यम् ऊचुर् वैवस्वतेऽन्तरे ॥१२६॥
उपस्थितेऽतियशसश् चाक्षुषस्यान्तरे मनोः ।
समवायीकृताः सर्वे समागम्य परस्परम् ॥१२७॥
आगच्छत द्रुतं देवा अदितिं सम्प्रविश्य वै ।
मन्वन्तरे प्रसूयामस् तन् नः श्रेयो भवेद् इति ॥१२८॥
एवम् उक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः ।
मारीचात् कश्यपाज् जाता अदित्या दक्षकन्यया ॥१२९॥
तत्र विष्णुश् च शक्रश् च जज्ञाते पुनर् एव हि ।
अर्यमा चैव धाता च त्वष्टा पूषा तथैव च ॥१३०॥
विवस्वान् स्वैता चैव मित्रो वरुण एव च ।
अंशुर् भगश् चातितेजा आदित्या द्वादश स्मृताः ॥१३१॥
चाक्षुषस्यान्तरे पूर्वम् आसन्ये तुषिताः सुराः ।
वैवस्वतेऽन्तरे ते वै आदित्या द्वादश स्मृताः ॥१३२॥
याः सप्तविंशतिः प्रोक्ताः सोमपत्न्योऽथ सुव्रताः ।
सर्वा नक्षत्रयोगिन्यस् तन्नाम्न्यश् चैव ताः स्मृताः ॥१३३॥
तासाम् अपत्यान्यभवन् दीप्तान्यमिततेजसाम् ।
अरिष्टनेमिपत्नीनाम् अपत्यानीह षोडश ॥१३४॥
बहुपुत्रस्य विदुषश् चतस्रो विद्युतः स्मृताः ॥१३५॥
प्रत्यङ्गिरसजाः श्रेष्ठा ऋचो ब्रह्मर्षिसत्कृताः ।
कृशाश्वस्य तु देवर्षेर् देवप्रहरणाः स्मृताः ॥१३६॥
एते युगसहस्रान्ते जायन्ते पुनर् एव हि ।
सर्वे देवगणास् तात त्रयस्त्रिंशत् तु छन्दजाः ॥१३७॥
तेषाम् अपीह सततं निरोधोत्पत्तिर् उच्यते ॥१३८॥
यथा सूर्यस्य मैत्रेय उदयास्तमनाव् इह ।
एवं देवनिकायास् ते सम्भवन्ति युगे युगे ॥१३९॥
दित्या पुत्रद्वयं जज्ञे कश्यपाद् इति नः श्रुतम् ।
हिरण्यकशिपुश् चैव हिरण्याक्षश् च दुर्जयः ॥१४०॥
सिंहिका चाभवत् कन्या विप्रचित्तेः परिग्रहः ॥१४१॥
हिरण्यकशिपोः पुत्राश् चत्वारः प्रथितौजसः ।
अनुह्लादश् च ह्लादश् च प्रह्लादश् चैव बुद्धिमान् ।
संह्लादश् च महावीर्या दैत्यवंशविवर्धनाः ॥१४२॥
तेषां मध्ये महाभाग सर्वत्र समदृग् वशी ।
प्रह्लादः परमां भक्तिं य उवाच जनार्दने ॥१४३॥
दैत्येन्द्रदीपितो वह्निः सर्वाङ्गोपचितो द्विज ।
न ददाह च यं विप्र वासुदेवे हृदि स्थिते ॥१४४॥
महार्णवान्तःसलिले स्थितस्य चलतो मही ।
चचाल सकला यस्य पाशबद्धस्य धीमतः ॥१४५॥
न भिन्नं विविधैः शस्त्रैर् यस्य दैत्येन्द्रपातितैः ।
शरीरमद्रिकठिनं सर्वत्राच्युतचेतसः ॥१४६॥
विषाणलोज्ज्वलमुखा यस्य दैत्यप्रचोदिताः ।
नान्ताय सर्पपतयो बभूवुर् उरुतेजसः ॥१४७॥
शैलैर् आक्रान्तदेहोऽपि यः स्मरन् पुरुषोत्तमम् ।
तत्याज नात्मनः प्राणान् विष्णुस्मरणदंशितः ॥१४८॥
पतन्तम् उच्चाद् अवनिर् यम् उपेत्य महामतिम् ।
दधार दैत्यपतिना क्षिप्तं स्वर्गनिवासिना ॥१४९॥
यस्य संशोषको वायुर् देहे दैत्येन्द्रयोजितः ।
अवाप सङ्क्षयं सद्यश् चित्तस्थे मधुसूदने ॥१५०॥
विषाणभङ्गम् उन्मत्ता मदहानिं च दिग्गजाः ।
यस्य वक्षःस्थले प्राप्ता दैत्येन्द्रपरिणामिताः ॥१५१॥
यस्य चोत्पादिता कृत्या दैत्यराजपुरोहितैः ।
बभूव नान्ताय पुरा गोविन्दासक्तचेतसः ॥१५२॥
शम्बरस्य च मायानां सहस्रमतिमायिनः ।
यस्मिन् प्रयुक्तं चक्रेण कृष्णस्य वितथीकृतम् ॥१५३॥
दैत्येन्द्रसूदोपहृतं यस् तु हालाहलं विषम् ।
जारयामास मनिमान् अविकारम् अमस्तरी ॥१५४॥
समचेता जगत्यस्मिन् यः सर्वेष्व् एव जन्तुषु ।
यथात्मनि तथान्यत्र परं मैत्रगुणान्वितः ॥१५५॥
धर्मात्मा सत्यशौचादिगुणानाम् आकरस् तथा ।
उपमानम् अशेषाणां साधूनां यः सदाभवत् ॥१५६॥
दैत्येन्द्रस्य सूदैः सूपकारैः उपहृतं दत्तं हालाहलम् ।
हलाहला नाम नदी हिमवत्यतिदारुणा ।
यत् तु तत्तीरसम्भूतं विषं हालाहलं स्मृतम् ॥ इति ।
अविकारं रोमाञ्चस्वेदक्तृशोषादिविकारशून्यं यथा भवत्य् एवं जारयामास ॥१५४१५५॥
इति श्रीविष्णुपुराणे प्रथमेंऽशे पञ्चदशोऽध्यायः
॥१५॥
ओ)०(ओ