१४

अथ चतुर्दशोऽध्यायः
प्रचेतसां तपस्या

श्रीपराशर उवाच
पृथोः पुत्रौ तु धर्मज्ञौ जज्ञातेऽन्तर्द्धिवादिनौ ।
शिखण्डिनी हविर्धानम् अन्तर्धानाद् व्यजायत ॥१॥
हविर्धानाद् षड् आग्नेयी धिषणाजनयत् सुतान् ।
प्राचीनबर्हिषं शुक्रं गयं कृष्णं वृजाजिनौ ॥२॥
प्राचीनबर्हिर् भगवान् महान् आसीत् प्रजापतिः ।
हविर्धानान् महाभाग येन संवर्धिताः प्रजाः ॥३॥
प्राचीनाग्राः कुशास् तस्य पृथिव्यां विश्रुता मुने ।
प्राचीनबर्हिर् अभवत् ख्यातो भुवि महाबलः ॥४॥
समुद्रतनयायां तु कृतदारो महीपतिः ।
महतस् तपसः पारे सवर्णायां महामते ॥५॥
सवर्णाधत्त सामुद्री दश प्राचीनबर्हिषः ।
सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः ॥६॥
अपृथग् धर्मचरणास् तेऽतप्यन्त महत् तपः ।
दशवर्षसहस्राणि समुद्रसलिलेशयाः ॥७॥

श्रीमैत्रेय उवाच
यदर्थं ते महात्मानस् तपस् तेपुर् महामुने ।
प्रचेतसः समुद्राम्भस्य् एतद् आख्यातुम् अर्हसि ॥८॥

श्रीपराशर उवाच
पित्रा प्रचेतसः प्रोक्ताः प्रजार्थम् अमितात्मना ।
प्रजापतिनियुक्तेन बहुमानपुरःसरम् ॥९॥

प्राचीनबर्हिर् उवाच
ब्रह्मणा देवदेवेन समादिष्टोऽस्म्यहं सुताः ।
प्रजाः संवर्धनीयास् ते मया चोक्तं तथेति तम् ॥१०॥
तन् मम प्रीतये पुत्राः प्रजावृद्धिम् अतन्द्रिताः ।
कुरुध्वं माननीया वः सम्यग् आज्ञा प्रजापतेः ॥११॥

श्रीपराशर उवाच
ततस् ते तत् पितुः श्रुत्वा वचनं नृपनन्दनाः ।
तथेत्य् उक्त्वा च तं भूयः पप्रच्छुः पितरं मुने ॥१२॥

प्रचेतस ऊचुः
येन तात प्रजावृद्धौ समर्थाः कर्मणा वयम् ।
भवेम तत् समस्तं नः कर्म व्याख्यातुम् अर्हसि ॥१३॥

पितोवाच
आराध्य वरदं विष्णुम् इष्टप्राप्तिम् असंशयम् ।
समेति नान्यथा मर्त्यः किम् अन्यत् कथयामि वः ॥१४॥
तस्मात् प्रजाविवृद्ध्यर्थं सर्वभूतप्रभुं हरिम् ।
आराधयत गोविन्दं यदि सिद्धिम् अभीप्स्यथ ॥१५॥
धर्मम् अर्थं च कामं च मोक्षं चान्विच्छतां सदा ।
आराधनीयो भगवान् अनादिपुरुषोत्तमः ॥१६॥
यस्मिन्न् आराधिते सर्गं चकारादौ प्रजापतिः ।
तम् आराध्याच्युतं वृद्धिः प्रजानां वो भविष्यति ॥१७॥

श्रीपराशर उवाच
इत्य् एवम् उक्तास् ते पित्रा पुत्राः प्रचेतसो दश ।
मग्नाः पयोधिसलिले तपस् तेपुः समाहिताः ॥१८॥
दशवर्षसहस्राणि न्यस्तचित्ता जगत्पतौ ।
नारायणे मुनिश्रेष्ठ सर्वलोकपरायणे ॥१९॥
तत्रैवावस्थिता देवम् एकाग्रमनसो हरिम् ।
तुष्टुवुर् यः स्तुतः कामान् स्तोतुर् इष्टान् प्रयच्छति ॥२०॥

श्रीमैत्रेय उवाच
स्तवं प्रचेतसो विष्णोः समुद्राम्भसि संस्थिताः ।
चक्रुस् तन् मे मुनिश्रेष्ठ सुपुण्यं वक्तुम् अर्हसि ॥२१॥

श्रीपराशर उवाच
शृणु मैत्रेय गोविन्दं यथापूर्वं प्रचेतसः ।
तुष्टुवुस् तन्मयीभूताः समुद्रसलिलेशयाः ॥२२॥

प्रचेतस ऊचुः
नताः स्म सर्ववचसां प्रतिष्ठा यत्र शाश्वती ।
तम् आद्यन्तम् अशेषस्य जगतः परमं प्रभुम् ॥२३॥
ज्योतिर् आद्यम् अनौपम्यम् अण्व् अनन्तम् अपारवत् ।
योनिभूतम् अशेषस्य स्थावरस्य चरस्य च ॥२४॥
यस्याहः प्रथमं रूपम् अरूपस्य तथा निशा ।
सन्ध्या च परमेशस्य तस्मै कालात्मना नमः ॥२५॥
भुजःय्ऽनुदिनं देवैः पितृभिश् च सुधात्मकः ।
जीवभूतः समस्तस्य तस्मै सोमात्मना नमः ॥२६॥
यस् तमांस्यत्ति तीव्रात्मा प्रभाभिर् भासयन् नभः ।
घर्मशीताम्भसां योनिस् तस्मै सूर्यात्मना नमः ॥२७॥
काठिन्यवान् यो बिभर्ति जगद् एतद् अशेषतः ।
शब्दादिसंश्रयो व्यापी तस्मै भूम्यात्मना नमः ॥२८॥
यद् योनिभूतं जगतो बीजं यत् सर्वदेहिनाम् ।
तत् तोयरूपम् ईशस्य नमामो हरिमेधसः ॥२९॥
यो मुकिहं सर्वदेवानां हव्यभुक्कव्यभुक् तथा ।
पित्ṝणां च नमस् तस्मै विष्णवे पावकात्मना ॥३०॥
पञ्चधावस्थितो देहे यश् चेष्टां कुरुतेऽनिशम् ।
आकाशयोनिर् भगवांस् तस्मै वाय्वात्मना नमः ॥३१॥
अवकाशम् अशेषाणां भूतानां यः प्रयच्छति ।
अनन्तमूर्तिमाञ् च्छुद्धस् तस्मै व्योमात्मना नमः ॥३२॥
समस्तेन्द्रियसर्गस्य यः सदा स्थानम् उत्तमम् ।
तस्मै शब्दादिरूपाय नमः कृष्णाय वेधसे ॥३३॥
गृह्णाति विषयान् नित्यम् इन्द्रियात्मा क्षराक्षरः ।
यस् तस्मै ज्ञानमूलाय नताः स्म हरिमेधसे ॥३४॥
गृहीतान् इन्द्रियैर् अर्थान् आत्मना यः प्रयच्छति ।
अन्तःकरणरूपाय तस्मै विश्वात्मना नमः ॥३५॥
यस्मिन्न् अनन्ते सकलं विश्वं यस्मात् तथोद्गतम् ।
लयस्थानं च यस् तस्मै नमः प्रकृतिधर्मिणे ॥३६॥
शुद्धं संलक्ष्यते भ्रान्त्या गुणवान् इव योऽगुणः ।
तम् आत्मरूपिणं देवं नताः स्म पुरुषोत्तमम् ॥३७॥
अविकारम् अजं शुद्धं निर्गुणं यन् निरञ्जनम् ।
नताः स्म तत्परं ब्रह्म विष्णोर् यत् परमं पदम् ॥३८॥
अदीर्घह्रस्वस्थूलम् अनण्व् अश्यामलोहितम् ।
अस्नेहच्छायम् अतनुम् असक्तम् अशरीरिणम् ॥३९॥
अनाकाशम् असंस्पर्शम् अगन्धम् अरसं च यत् ।
अचक्षुश्रोत्रम् अचलम् अवाक्पाणिम् अमानसम् ॥४०॥
अनामगोत्रम् असुखम् अतेजस्कम् अहेतुकम् ।
अभयं भ्रान्तिरहितम् अनिद्रम् अजरामरम् ॥४१॥
अरजोऽशब्दम् अमृतम् अप्लुतं यद् असंवृतम् ।
पूर्वापरे न वै यस्मिंस् तद् विष्णोः परमं पदम् ॥४२॥
परमेशत्वगुणवत् सर्वभूतम् असंश्रयम् ।
नताः स्म तत्पदं विष्णोर् जिह्वादृग्गोचरं न यत् ॥४३॥

श्रीपराशर उवाच
एवं प्रचेतसो विष्णुं स्तुवन्तस् तत्समाधयः ।
दशवर्षसहस्राणि तपश् चेरुर् महार्णवे ॥४४॥
ततः प्रसन्नो भगवांस् तेषाम् अन्तर्जले हरिः ।
ददौ दर्शनम् उन्निद्रनीलोत्पलदलच्छविः ॥४५॥
पतत्रिराजम् आरूढम् अवलोक्य प्रचेतसः ।
प्रणिपेतुः शिरोभिस् तं भक्तिभारावनामितैः ॥४६॥
ततस् तान् आह भगवान् विर्यताम् इप्सतो वरः ।
प्रसदसुमुखोऽहं वो वरदः समुपस्थितः ॥४७॥
ततस् तम् ऊचुर् वरदं प्रणिपत्य प्रचेतसः ।
यथा पित्रा समादिष्टं प्रजानां वृद्धिकारणम् ॥४८॥
स चापि देवस् तं दत्त्वा यथाभिलषितं वरम् ।
अन्तर्धानं जगामाशु ते च निश्चक्रमुर् जलात् ॥४९॥

इति श्रीविष्णुपुराणे प्रथमेंऽशे चतुर्दशोऽध्यायः
॥१४॥

ओ)०(ओ