अथ त्रयोदशोऽध्यायः
वेननृपपृथुनृपोपाख्यानम्
श्रीपराशर उवाच
ध्रुवा च्छिष्टिं च भव्यं च भव्याच् छम्भुर् व्यजायत ।
शिष्टेर् आधत्त सुच्छाया पञ्चपुत्रान् अकल्मषान् ॥१॥
रिपुं रिपुञ्जयं विप्रं वृकलं वृकतेजसम् ।
रिपोर् आधत्त बृहती चाक्षुषं सर्वतेजसम् ॥२॥
अजीजनत् पुष्करिण्यां वारुण्यां चाक्षुषो मनुम् ।
प्रजापतेर् आत्मजायां वीरणस्य महात्मनः ॥३॥
मनोर् अजायन्त दश नड्वलायां महौजसः ।
कन्यायां तपतां श्रेष्ठ वैराजस्य प्रजापतेः ॥४॥
कुरुः पुरुः शतद्युम्नस् तपस्वी सत्यवाञ् छुचिः ।
अग्निष्टोमोऽतिरात्रश् च सुधुम्नश् चेति ते नव ।
अभिमन्युश् च दशमो नड्वलायां महौजसः ॥५॥
कुरोर् अजनयत् पुत्रान् षड् आग्नेयी महाप्रभान् ।
अङ्गं सुमनसं ख्यातिं क्रतुम् अङ्गिरसं शिबिम् ॥६॥
अङ्गात् सुनीथापत्यं वै वेनम् एकम् अजायत ।
प्रजार्थम् ऋषयस् तस्य ममन्थुर् दक्षिणं करम् ॥७॥
वेनस्य पाणौ मथिते सम्बभूव महामुने ।
वैन्यो नाम महीपालो यः पृथुः परिकीर्तितः ॥८॥
येन दुग्धा मही पूर्वं प्रजानां हितकारणात् ॥९॥
श्रीमैत्रेय उवाच
किमर्थं मथितः पाणिर् वेनस्य परमर्षिभिः ।
यत्र जज्ञे महावीर्यः स पृथुर् मुनिसत्तम ॥१०॥
श्रीपराशर उवाच
सुनीथा नाम या कन्या मृत्योः प्रथमतोऽभवत् ।
अङ्गस्य भार्या सा दत्ता तस्यां वेनो व्यजायत ॥११॥
स मातामहदोषेण तेन मृत्योः सुतात्मजः ।
निसर्गाद् एष मैत्रेय दुष्ट एव व्यजायत ॥१२॥
अभिषिक्तो यदा राज्ये स वेनः परमर्षिभिः ।
घोषयामास स तदा पृथिव्यां पृथिवीपतिः ॥१३॥
न यष्टव्यं न दातव्यं न होतव्यं कथञ्चन ।
भोक्ता यज्ञस्य कस् त्व् अन्यो ह्यहं यज्ञपतिः प्रभुः ॥१४॥
ततस् तम् ऋषयः पूर्वं सम्पूज्य पृथिवीपतिम् ।
ऊचुः सामफलं वाक्यं मैत्रेय समुपस्थिताः ॥१५॥
ऋषय ऊचुः
भो भो राजन् शृणुष्व त्वं यद् वदाम महीपते ।
राज्यदेहोपकाराय प्रजानां च हितं परम् ॥१६॥
दीर्घसत्रेण देवेशं सर्वयज्ञेश्वरं हरिम् ।
पूजयिष्याम भद्रं ते तस्यांशस् ते भविष्यति ॥१७॥
यज्ञेन यज्ञपुरुषो विष्णुः सम्प्रीणितो नृप ।
अस्माभिर् भवतः कामान् सर्वान् एव प्रदास्यति ॥१८॥
यज्ञैर् यज्ञेश्वरो येषां राष्ट्रे सम्पूजःय् हरिः ।
तेषां सर्वेप्सितावाप्तिं ददाति नृप भूभृताम् ॥१९॥
वेन उवाच
मत्तः कोऽभ्यधिकोऽन्योऽस्ति कश् चाराध्यो ममापरः ।
कोऽयं हरिर् इति ख्यातो यो वो यज्ञेश्वरो मतः ॥२०॥
ब्रह्मा जनार्द्नः शम्भुर् इन्द्रो वायुर् यमो रविः ।
हुतभुग् वरुणो धाता पूषा भूमिर् निशाकरः ॥२१॥
एते चान्ये च ये देवाः शापानुग्रहकारिणः ।
नृपस्यैते शरीरस्थाः सर्वदेवमयो नृपः ॥२२॥
एवं ज्ञात्वा मयाज्ञप्तं यद् यथा क्रियतां तथा ।
न दातव्यं न यष्टव्यं न होतव्यं च भो द्विजाः ॥२३॥
भर्तृशुश्रूषणं धर्मो यथा स्त्रीणां परो मतः ।
ममाज्ञापालनं धर्मो भवतां च तथा द्विजाः ॥२४॥
ऋषय ऊचुः
देह्यनुज्ञां महाराज मा धर्मो यातु सङ्क्षयम् ।
हविषां परिणामोऽयं यद् एतद् अखिलं जगत् ॥२५॥
श्रीपराशर उवाच
इति विज्ञाप्यमानोऽपि स वेनः परमर्षिभिः ।
यदा ददाति नानुज्ञां प्रोक्तः प्रोक्तः पुनः पुनः ॥२६॥
ततस् ते मुनयः सर्वे कोपामर्षसमन्विताः ।
हन्यतां हन्यतां पाप इत्य् ऊचुस् ते परस्परम् ॥२७॥
यो यज्ञपुरुषं विष्णुम् अनादिनिधनं प्रभुम् ।
विनिन्दत्यधमाचारो न स योग्यो भुवः पतिः ॥२८॥
इत्य् उक्त्वा मन्त्रपूतैस् तैः कुशैर् मुनिगणा नृपम् ।
निजघ्नुर् निहतं पूर्वं भगवन्निन्दनादिना ॥२९॥
ततश् च मुनयो रेणुं ददृशुः सर्वतो द्विज ।
किम् एतद् इति चासन्नान् पप्रच्छुस् ते जनांस् तदा ॥३०॥
आख्यातं च जनैस् तेषां चोरीभूतैर् अराजके ।
राष्ट्रे तु लोकैर् आरब्धं परस्वादानम् आतुरैः ॥३१॥
तेषाम् उदीर्णवेगानां चोराणां मुनिसत्तमाः ।
सुमहान् दृश्यते रेणुः परवित्तापहारिणाम् ॥३२॥
ततः सम्मन्त्र्य ते सर्वे मुनयस् तस्य भूभृतः ।
ममन्थुर् ऊरुं पुत्रार्थम् अनपत्यस्य यत्नतः ॥३३॥
मथ्यमानात् समुत्तस्थौ तस्योरोः पुरुषः किल ।
दग्धस्थूणाप्रतीकाशः खर्वाटास्योऽतिह्रस्वकः ॥३४॥
किं करोमीति तान् सर्वान् स विप्रान् आह चातुरः ।
निषीदेति तम् ऊचुस् ते निषादस् तेन सोऽभवत् ॥३५॥
ततस् तत्सम्भवा जाता विन्ध्यशैलनिवासिनः ।
निषादा मुनिशार्दूल पापकर्मोपलक्षणाः ॥३६॥
तेन द्वारेण तत्पापं निष्क्रान्तं तस्य भूपतेः ।
निषादास् ते ततो जाता वेनकल्मषनाशनाः ॥३७॥
तस्यैव दक्षिणं हस्तं ममन्थुस् ते ततो द्विजाः ॥३८॥
मथ्यमाने च तत्राभूत् पृथुर् वैन्यः प्रतापवान् ।
दीप्यमानः स्ववपुषा साक्षाद् अग्निर् इव ज्वलन् ॥३९॥
आद्यम् आजगवं नाम खात् पपात ततो धनुः ।
शराश् च दिव्या नभसः कवचं च पपात ह ॥४०॥
तस्मिन् जाते तु भूतानि सप्रहृष्टानि सर्वशः ॥४१॥
सत्पुत्रेणैव जातेन वेनोऽपि त्रिदिवं ययौ ।
पुन्नाम्नो नरकात् त्रातः सुतेन सुमहात्मना ॥४२॥
तं समुद्राश् च नद्यश् च रत्नान्य् आदाय सर्वशः ।
तोयानि चाभिषेकार्थं सर्वाण्य् एवोपतस्थिरे ॥४३॥
पितामहश् च भगवान् देवैर् आङ्गिरसैः सह ।
स्थावराणि च भूतानि जङ्गमानि च सर्वशः ।
समागम्य तदा वैन्यम् अभ्यसिञ्चन् नराधिपम् ॥४४॥
हस्ते तु दक्षिणे चक्रं दृष्ट्वा तस्य पितामहः ।
विष्णोर् अंशं पृथुं मत्वा परितोषं परं ययौ ॥४५॥
विष्णुचक्रं करे चिह्नं सर्वेषां चक्रवर्तिनाम् ।
भवत्यव्याहतो यस्य प्रभावस् त्रिदशैर् अपि ॥४६॥
महता राजराज्येन पृथुर् वैन्यः प्रतापवान् ।
सोऽभिषिक्तो महातेजा विधिवद् धर्मकोविदैः ॥४७॥
पित्रापरञ्जितास् तस्य प्रजास् तेनानुरञ्जिताः ।
अनुरागात् ततस् तस्य नाम राजेत्यजायत ॥४८॥
आपस् तस्तम्भिरे चास्य समुद्रम् अभियास्यतः ।
पर्वताश् च ददुर् मार्गं ध्वजभङ्गश् च नाभवत् ॥४९॥
अकृष्टपच्या पृथिवी सिद्ध्यन्त्यन्नानि चिन्तया ।
सर्वकामदुघा गावः पुटके पुटके मधु ॥५०॥
तस्य वै जातमात्रस्य यज्ञे पैतामहे शुभे ।
सूतः सूत्यां समुत्पन्नः सौत्येऽहनि महामतिः ॥५१॥
तस्मिन्न् एव महायज्ञे जज्ञे प्राज्ञोऽथ मागधः ।
प्रोक्तौ तदा मुनिवरैस् ताव् उभौ सूतमागधौ ॥५२॥
स्तूयताम् एष नृपतिः पृथुर् वैन्यः प्रतापवान् ।
कर्मैतद् अनुरूपं वां पात्रं स्तोत्रस्य चापरम् ॥५३॥
ततस् ताव् ऊचतुर् विप्रान् सर्वान् एव कृताञ्जली ।
अद्य जातस्य नो कर्म ज्ञाःय्ऽस्य महीपतेः ॥५४॥
गुणा न चास्य ज्ञायन्ते न चास्य प्रथितं यशः ।
स्तोत्रं किम् आश्रयं त्व् अस्य कार्यम् अस्माभिर् उच्यतम् ॥५५॥
ऋषय ऊचुः
करिष्यत्य् एव यत् कर्म चक्रवर्ती महाबलः ।
गुणा भविष्या ये चास्य तैर् अयं स्तूयतां नृपः ॥५६॥
श्रीपराशर उवाच
ततः स नृपतिस् तोषं तच् छ्रुत्वा परमं ययौ ।
सद्गुणैः श्लाघ्यताम् एति तस्माल् लभ्या गुणा मम ॥५७॥
तस्माद् यद् अद्य स्तोत्रेण गुणनिर्वर्णनं त्व् इमौ ।
करिष्येते करिष्यामि तद् एवाहं समाहितः ॥५८॥
यद् इमौ वर्जनीयं च किञ्चिद् अत्र वदिष्यतः ।
तद् अहं वर्जयिष्यामीत्य् एवं चक्रे मतिं नृपः ॥५९॥
अथ तौ चक्रतुः स्तोत्रं पृथोर् वैन्यस्य धीमतः ।
भविष्यैः कर्मभिः सम्यक्त् सुस्वरौ सूतमागधौ ॥६०॥
सत्यवाग्दानशीलोऽयं सत्यसन्धो नरेश्वरः ।
ह्रीमान् मैत्रः क्षमाशीलो विक्रान्तो दुष्टशासनः ॥६१॥
धर्मज्ञश् च कृतज्ञश् च दयावान् प्रियभाषकः ।
मान्यान् मानयिता यज्वा ब्रह्मण्यः साधुसम्मतः ॥६२॥
समः शत्रौ च मित्रे च व्यवहारस्थितौ नृपः ॥६३॥
सूतेनोक्तान् गुणान् इत्थं स तदा मागधेन च ।
चकार हृदि तादृक् च कर्मणा कृतवान् असौ ॥६४॥
ततस् तु पृथिवीपालः पालयन् पृथिवीम् इमाम् ।
इयाज विविधैर् यज्ञैर् महद्भिर् भूरिदक्षिणैः ॥६५॥
तं प्रजाः पृथिवीनाथम् उपतस्थुः क्षुधार्दिताः ।
ओषधीषु प्रणष्टासु तस्मिन् काले ह्यराजके ।
तम् ऊचुस् ते नताः पृष्टास् तत्रागमनकारणम् ॥६६॥
प्रजा ऊचुः
अराजके नृपश्रेष्ठ धरित्र्या सकलौषधीः ।
ग्रस्तास् ततः क्षयं यान्ति प्रजाः सर्वाः प्रजेश्वर ॥६७॥
त्वं नो वृत्तिप्रदो धात्रा प्रजापालो निरूपितः ।
देहि नः क्षुत्परीतानां प्रजानां जीवनौषधीः ॥६८॥
श्रीपराशर उवाच
ततस् तु नृपतिर् दिव्यम् आदायाजगवं धनुः ।
शरांश् च दिव्यान् कुपितः सोऽन्वधावद् वसुन्धराम् ॥६९॥
ततो ननाश त्वरिता गौर् भूत्वा च वसुन्धरा ।
सा लोकान् ब्रह्मलोकादीन् सन्त्रासाद् अगमन् मही ॥७०॥
यत्र यत्र ययौ देवी सा तदा भूतधारिनी ।
तत्र तत्र तु सा वैन्यं ददृशेऽभ्युद्यतायुधम् ॥७१॥
ततस् तं प्राह बसुधा पृथुं पृथुपराक्रमम् ।
प्रवेपमाना तद्बाणपरित्राणपरायणा ॥७२॥
पृथिव्य् उवाच
स्त्रीवधे त्वं महापापं किं नरेन्द्र न पश्यसि ।
येन मां हन्तुम् अत्यर्थं प्रकरोषि नृपोद्यमम् ॥७३॥
पृथुर् उवाच
एकस्मिन् यत्र निधनं प्रापिते दुष्टकारिणि ।
बहूनां भवति क्षेमं तस्य पुण्यप्रदो वधः ॥७४॥
पृथिव्य् उवाच
प्रजानाम् उपकाराय यदि मां त्वं हनिष्यसि ।
आधारः कः प्रजानां ते नृपश्रेष्ठ भविष्यति ॥७५॥
पृथुर् उवाच
त्वां हत्वा वसुधे बाणैर् मच्छासनपराङ्मुखीम् ।
आत्मयोगबलेनेमा धार्यैष्याम्यहं प्रजाः ॥७६॥
श्रीपराशर उवाच
ततः प्रणम्य वसुधा तं भूयः प्राह पार्थिवम् ।
प्रवेपिताङ्गी परमं साध्वसं समुपागता ॥७७॥
पृथिव्य् उवाच
उपायतः समारब्धाः सर्वे सिद्ध्यन्त्य् उपक्रमाः ।
तस्माद् वदाम्य् उपायं ते तं कुरुष्व यदीच्छसि ॥७८॥
समस्ता या मया जीर्णा नरनाथ महौषधीः ।
यदीच्छसि प्रदास्यामि ताः क्षीरपरिणामिनीः ॥७९॥
तस्मात् प्रजाहितार्थाय मम धर्मभृतां वर ।
तं तु वत्सं कुरुष्व त्वं क्षरेयं येन वत्सला ॥८०॥
समां च कुरु सर्वत्र येन क्षीरं समन्ततः ।
वरौषधीबीजभूतं बीजं सर्वत्र भावये ॥८१॥
श्रीपराशर उवाच
तत उत्सारयामास शैलान् शतसहस्रशः ।
धनुष्कोट्या तदा वैन्यस् तेन शैला विवर्धिताः ॥८२॥
न हि पूर्वविसर्गे वै विषमे पृथिवीतले ।
प्रविभागः पुराणां वा ग्रामाणां वा पुराभवत् ॥८३॥
न सस्यानि न गोरक्ष्यं न कृषिर् न वणिक्पथः ।
वैन्यात् प्रभृति मैत्रेय सर्वस्यैतस्य सम्भवः ॥८४॥
यत्र यत्र समं त्व् अस्या भूमेर् आसीद् द्विजोत्तम ।
तत्र तत्र प्रजाः सर्वा निवासं समरोचयन् ॥८५॥
आहारः फलमूलानि प्रजानाम् अभवत् तदा ।
कृच्छ्रेण महता सोऽपि प्रणष्टास्व् ओषधीषु वै ॥८६॥
स कल्प्á वत्सं तु मनुं स्वायम्भुवं प्रभुम् ।
स्वपाणौ पृथिवीनाथो दुदोह पृथिवीं पृथुः ।
सस्यजातानि सर्वाणि प्रजानां हितकाम्यया ॥८७॥
तेनान्नेन प्रजास् तात वर्तन्तेऽद्यापि नित्यशः ॥८८॥
प्राणप्रदाता स पृथुर् यस्माद् भूमेर् अभूत् पिता ।
ततस् तु पृथिवीसञ्ज्ञाम् अवापाखिलधारिणी ॥८९॥
ततश् च देवैर् मुनिभिर् दैत्यैः रक्षोभिर् अद्रिभिः ।
गन्धर्वैर् उरगैर् यक्षैः पितृभिस् तरुभिस् तथा ॥९०॥
तत् तत् पात्रम् उपादाय तत् तद् दुग्धं मुने पयः ।
वत्सदोग्धृविशेषाश् च तेषां तद्योनयोऽभवन् ॥९१॥
सैषा धात्री विधात्री च धारिणी पोषणी तथा ।
सर्वस्य तु ततः पृथ्वी विष्णुपादतलोद्भवा ॥९२॥
एवम्प्रभावः स पृथुः पुत्रो वेनस्य वीर्यवान् ।
जज्ञे महीपतिः पूर्वो राजाभूत् जनरञ्जनात् ॥९३॥
य इदं जन्म वैन्यस्य पृथोः सङ्कीर्तयेन् नरः ।
न तस्य दुष्कृतं किञ्चित् फलदायि प्रजायते ॥९४॥
दुःस्वप्नोपशमं न्ṝणां शृण्वताम् एतद् उत्तमम् ।
पृथोर् जन्म प्रभावश् च करोति सततं न्ṝणाम् ॥९५॥
इति श्रीविष्णुपुराणे प्रथमेंऽशे त्रयोदशोऽध्यायः
॥१३॥
ओ)०(ओ