अथ द्वादशोऽध्यायः
ध्रुवस्य वरलाभः
पराशर उवाच
निशम्य तदशेषेण मैत्रेय नृपतेः सुतः ।
निर्जगाम वनात् तस्मात् प्रणिपत्य स तान् ऋषीन् ॥१॥
कृतकृत्यम् इवात्मानं मन्यमानस् ततो द्विज ।
मधुसञ्ज्ञं महापुण्यं जगाम यमुनातटम् ॥२॥
तस्मात् पुरोपवनाद् निर्जगाम ॥२॥
पुनश् च मधुसञ्ज्ञेन दैत्येनाधिष्ठितं यतः ।
ततो मधुवनं नाम्ना ख्यातम् अत्र महीतले ॥३॥
हत्वा च लवणं रक्षोमधुपुत्रं महाबलम् ।
शत्रुघ्नो मथुरां नाम पुरीं तत्र चकार वै ॥४॥
यत्र वै देवदेवस्य सान्निध्यं हरिमेधसः ।
सर्वपापहरे तस्मिंस् तपस् तीर्थे चकार सः ॥५॥
हरतीति हरिः । सर्वदुःखहारिणी यद्विषया मेधा स हरिमेधाः । नित्यम् असि च प्रजामेधयोर् इति सान्तत्वम् ॥५॥
मरीचिमुख्यैर् मुनिभिर् यथोद्दिष्टम् अभूत् तथा ।
आत्मन्यशेषदेवेशं स्थितं विष्णुम् अमन्यत ॥६॥
अनन्यचेतसस् तस्य ध्यायतो भगवान् हरिः ।
सर्वभूतगतो विप्र सर्वभावगतोऽभवत् ॥७॥
सर्वभावगतः सर्वभावेन विश्वरूपेण तच्चित्तत्वं गतः प्राप्तोऽभवत् ॥७॥
मनस्यवस्थिते तस्य विष्णौ मैत्रेय योगिनः ।
न शशाक धरा भारम् उद्वोढुं भूतधारिणी ॥८॥
ततश् च तस्य भारम् उद्वोढुं भूर्नाशक्नोद् इत्य् आहमनस्यवस्थित इति त्रिभिः ॥८॥
वामपादस्थिते तस्मिन् ननामार्धेन मेदिनी ।
द्वितीयं च ननामार्धं क्षितेर् दक्षिणसंस्थिते ॥९॥
वामेन पादेन स्थिते तस्मिन् अर्धेन अर्धं वामभागतो मेदिनी ननाम अवनताभूत् । दक्षिणेन पादेन स्थिते तस्मिन् क्षितेर् द्वितीयं दक्षिणम् अर्धं ननाम ॥९॥
पादाङ्गुष्ठेन सम्पीड्य यदा स वसुधां स्थितः ।
तदा सा वसुधा विप्र चचाल सह पर्वतैः ॥१०॥
यदा च पादाङ्गुष्ठेन वसुधां मध्यतः सम्पीड्य आक्रम्य स्थितः, तदा समस्ता वसुधा चचाल ॥१०॥
नद्यो नदाः समुद्राश् च सङ्क्षोभं परमं ययुः ।
तत् क्षोभाद् अमराः क्षोभं परं जग्मुर् महामुने ॥११॥
नद्यादयश् च क्षोभं प्राप्ताः ॥११॥
यामा नाम तदा देवा मैत्रेय परमाकुलाः ।
इन्द्रेण सह सम्मन्त्र्य ध्यानभङ्गं प्रचक्रमुः ॥१२॥
ततो देवैर् अनेकधा विघ्ने क्रियमाणेऽपि तत्संहितेर् अव्युत्थानलक्षणं मतिदार्ढ्यम् आहयामा नामेत्यादिना । एवं सर्वासु मायास्व् इत्यतः प्राक्तनेन ग्रन्थेन ॥१२॥
कुष्माण्डा विविधै रूपैः सहस्रेण महामुने ।
संहितिभङ्गम् अत्यन्तम् आरब्धाः कर्तुम् आतुराः ॥१३॥
कुष्माण्डाः केचिद् उपदेवाः ॥१३॥
सुनीतिर् नाम तन्माता सास्रा तत्पुरतः स्थिता ।
पुत्रेति करुणां वाचम् आह मायामयी तदा ॥१४॥
सास्ना आश्रुमुखी सती ॥१४॥
पुत्रकास्मान् निवर्तस्व शरीरव्ययदारुणात् ।
निर्बन्धन्तो मया लब्धो बहुभिस् त्वं मनोरथैः ॥१५॥
शरीरस्य व्ययेन दारुणात् तीव्राद् अस्मात् तपोनिर्बन्धात् निवर्तस्व ॥१५॥
दीनाम् एकां परित्यक्तुम् अनाथां न त्वम् अर्हसि ।
सपत्नीवचनाद् वत्स अगतेस् तं गतिर् मम ॥१६॥
सपत्नीवचनात् क्रुद्धः सन् मां त्यक्तुं नार्हसीत्यर्थः ॥१६॥
क्व च त्वं पञ्चवर्षीयः क्व चैतद् दारुणं तपः ।
निवर्त्यतां मनः कष्टान् निर्बन्धात् फलवर्जितात् ॥१७॥
कालः क्रीडनकानां ते तदन्तेऽध्ययनस्य च ।
ततः समस्तभोगानां तदन्ते चेष्यते तपः ॥१८॥
मत्प्रीतिः परमो धर्मो वयोऽवस्थाक्रियाक्रमम् ।
अनुवर्तस्व सा मोहं निवर्तास्माद् अधर्मतः ॥१९॥
परित्यजति वत्साद्य यद्य् एतन् न भवांस् तपः ।
त्यक्ष्याम्यहम् अपि प्राणांस् ततो वै पश्यतस् तव ॥२०॥
यतो मत्प्रीतिर् मत्तोषणं तव परो धर्मः, अतः कालः क्रीडनकानां ते इत्यादि यद् उक्तं वयोऽवस्थानुरूपं क्रियमाणां क्रमम् अनुवर्तस्व, मोहं दुराग्रहं मा अनुवर्तस्व । भाविमहद्दुःखहेतुत्वाद् अस्माद् अकालतपोनिर्बन्धलक्षणाद् अधर्माद् निवर्तस्व । मत्प्रीतिपरमम् इति पाठे मत्प्रीत्या परम उत्कृष्टो यो भवेत् तं वयोऽवस्थाक्रियाक्रमयुक्तं धर्मम् अनुवर्तस्वेत्यर्थः ॥२०॥
परित्यजति वत्साद्य यद्य् एतन् न भवांस् तपः ।
त्यक्ष्याम्यहम् अपि प्राणांस् ततो वै पश्यतस् तव ॥२१॥
पराशर उवाच
तां विलापवतीम् एव बाष्पाबिलविलोचनाम् ।
समाहितमना विष्णौ पश्यन्न् अपि न दृष्टवान् ॥२२॥
बाष्पैर् अश्रुभिर् आबिले क्लिन्ने विलोचने यस्यास् तां पश्यन्न् अपि उन्मीलितनेत्रोऽपि ॥२२॥
वत्स वत्स सुधोराणि रक्षांस्य् एतानि भीषणे ।
वनेऽभ्युद्यतशस्त्राणि समायान्त्यपगम्यताम् ॥२३॥
इत्य् उक्त्वा प्रययौ साथ रक्षांस्य् आविर्बभुस् ततः ।
अभ्युद्यतोग्रशस्त्राणि ज्वालामालाकुलैर् मुखैः ॥२४॥
ततो नादान् अतीवोग्रान् राजपुत्रस्य ते पुरः ।
मुमुचुर् दीप्तशस्त्राणि भ्रामयन्तो निशाचराः ॥२५॥
शीवाश् च शतशो नेदुः सज्वालाकवलैर् मुखैः ।
त्रासाय तस्य बालस्य योगयुक्तस्य सर्वशः ॥२६॥
शिवाः, ज्वाला एव कवलं ग्रासस् तत्सहितैर् मुखैर् नादं चक्रुः ॥२६॥
हन्यतां हन्यताम् एष छिद्यतां छिद्यताम् अयम् ।
भक्ष्यतां भक्ष्यतां चायम् इत्य् ऊचुस् ते निशाचराः ॥२७॥
ततो नानाविधान् नादान् सिंहोष्ट्रमकराननाः ।
त्रासाय राजपुत्रस्य नेदुस् ते रजनीचराः ॥२८॥
रक्षांसि तानि ते नादाः शिवास् तान्य् आयुधानि च ।
गोविन्दासक्तचित्तस्य ययुर् नेन्द्रियगोचरम् ॥२९॥
एकाग्रचेताः सततं विष्णुम् एवात्मसंश्रयम् ।
दृष्टवान् पृथिवीनाथपुत्रो नान्यं कथञ्चन ॥३०॥
ततः सर्वासु मायासु विलीनासु पुनः सुराः ।
सङ्क्षोभं परमं जग्मुस् तत्पराभवशङ्किता ॥३१॥
ते समेत्य जगद्योनिम् अनादिनिधनं हरिम् ।
शरण्यं शरणं यातास् तपसा तस्य तापिताः ॥३२॥
देवा ऊचुः
देवदेव जगन्नाथ परेश पुरुषोत्तम ।
ध्रुवस्य तपसा तप्तास् त्वां वयं शरणं गताः ॥३३॥
दिने दिने कलालेशैः शशाङ्कः पूर्यते यथा ।
तथायं तपसा देव प्रयात्य् ऋद्धिम् अहर्निशम् ॥३४॥
औत्तानपादितपसा वयम् इत्थं जनार्दन ।
भीतास् त्वां शरणं यातास् तपसस् तं निवर्तय ॥३५॥
न विद्मः किं स शक्रस् त्वं सूर्यत्वं किम् अभीप्सति ।
वित्तपाम्बुसोमानां साभिलाषः पदेषु किम् ॥३६॥
तद् अस्माकं प्रसीदेश हृदयाच् छल्यम् उद्धर ।
उत्तानपादतनयं तपसः सन्निवर्तय ॥३७॥
श्रीभगवान् उवाच
नेन्द्रत्वं न च सूर्यत्वं नैवाम्बुपधनेशताम् ।
प्रार्थयत्य् एष यं कामं तं करोम्यखिलं सुराः ॥३८॥
यात देवा यथाकामं स्वस्थानं विगतज्वराः ।
निवर्तयाम्यहं बालं तपस्यासक्तमानसम् ॥३९॥
पराशर उवाच
इत्य् उक्ता देवदेवेन प्रणम्य त्रिदशास् ततः ।
प्रययुः स्वानि धिष्ण्यानि शतक्रतुपुरोगमाः ॥४०॥
भगवान् अपि सर्वात्मा तन्मयत्वेन तोषितः ।
गत्वा ध्रुवम् उवाचेदं चतुर्भुजवपुर् हरिः ॥४१॥
श्रीभगवान् उवाच
औत्तानपादे भद्रं ते तपसा परितोषितः ।
वरदोऽहम् अनुप्राप्तो वरं वरय सुव्रत ॥४२॥
बाह्यथार्थनिरपेक्षं ते मयि चित्तं यदाहितम् ।
तुष्टोऽहं भवतस् तेन तद् वृणीष्व वरं परम् ॥४३॥
पराशर उवाच
श्रुत्वेत्थं गदितं तस्य देवदेवस्य बालकः ।
उन्मीलिताक्षो ददृशे ध्यानदृष्टं हरिं पुरः ॥४४॥
शङ्खचक्रगदाशार्ङ्गवरासिधरम् अच्युतम् ।
किरीटिनं समालोक्य जगाम शिरसा महीम् ॥४५॥
रोमाञ्चिताङ्गः सहसा साध्वसं परमं गतः ।
स्तवाय देवदेवस्य स चक्रे मानसं ध्रुवः ॥४६॥
किं वदामि स्तुताव् अस्य केनोक्तेनास्य संस्तुतिः ।
इत्य् आकुलमतिर् देवं तम् एव शरणं ययौ ॥४७॥
ध्रुव उवाच
भगवन् यदि मे तोषं तपसा परमं गतः ।
स्तोतुं तद् अहम् इच्छामि वरम् एनं प्रयच्छ मे ॥४८॥
[ब्रह्माद्यैर् यस्य वेदज्ञैर् ज्ञायते यस्य नो गतिः ।
तं त्वां कथम् अहं देव स्तोतुं शक्नोमि बालकः ॥
त्वद्भक्तिप्रवणं ह्य् एतत् परमेश्वर मे मनः ।
स्तोतुं प्रवृत्तं त्वत्पादौ तत्र प्रज्ञां प्रयच्छ मे ॥]
पराशर उवाच
शङ्खप्रान्तेन गोविन्दस् तं पस्पर्श कृताञ्जलिम् ।
उत्तानपादतनयं द्विजवर्य जगत्पतिः ॥४९॥
अथ प्रसन्नवदनः स क्षणान् नृपनन्दनः ।
तुष्टाव प्रणतो भूत्वा भूतधातारम् अच्युतम् ॥५०॥
ध्रुव उवाच
भूमिर् आपोऽनलो वायुः खं मनो बुद्धिर् एव च ।
भूतादिर् आदिप्रकृतिर् यस्य रूपं नतोऽस्मि तम् ॥५१॥
शुद्धः सूक्ष्मोऽखिलव्यापी प्रधानात् परतः पुमान् ।
यस्य रूपं नमस् तस्मै पुरुषाय गुणाशिने ॥५२॥
भूरादीनां समस्तानां गन्धादीनां च शाश्वतः ।
बुद्ध्यादीनां प्रधानस्य पुरुषस्य च यः परः ॥५३॥
तं ब्रह्मभूतम् आत्मानम् अशेषजगतः पतिम् ।
प्रपद्ये शरणं शुद्धं त्वद्रूपं परमेश्वर ॥५४॥
बृहत्वाद् बृंहणत्वाच् च यद् ब्रह्म परमं विदुः ।
तस्मै नमस् ते सर्वात्मन् योगि चिन्त्याविकारिणे ॥५५॥
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
सर्वव्यापी भुवः स्पर्शाद् अत्यतिष्ठद् दशाङ्गुलम् ॥५६॥
यद् भूतं यच् च वै भव्यं पुरुषोत्तम तद् भवान् ।
त्वत्तो विराट् स्वराट् सम्राट् त्वत्तश् चाप्यधिपूरुषः ॥५७॥
अत्यरिच्यत सोऽधश् च तिर्यग् ऊर्ध्वं च वै भुवः ।
त्वत्तो विश्वम् इदं जातं त्वत्तो भूतभविष्यती ॥५८॥
त्वद्रूपधारिणश् चान्तर्भूतं सर्वम् इदं जगत् ।
त्वत्तो यज्ञः सर्वहुतः पृषद् आज्यं पशुर् द्विधा ॥५९॥
त्वत्तः ऋचोऽथ सामानि त्वत्तश् छन्दांसि जज्ञिरे ।
त्वत्तो यजूंष्यजायन्त त्वत्तोऽश्वाश् चैकतो दतः ॥६०॥
गावस् त्वत्तः समुद्भूतास् त्वत्तोऽजा अवयो मृगाः ।
त्वन्मुखाद् ब्राह्मणास् त्वत्तो बाहोः क्षत्रम् अजायत ॥६१॥
वैश्यास् तवोरुजाः शूद्रास् तव पद्भ्यां समुद्गताः ।
अक्ष्णोः सूर्योऽनिलः प्राणाच् चन्द्रमा मनसस् तव ॥६२॥
प्राणोऽन्तःसुषिराज् जातो मुखाद् अग्निर् अजायत ।
नाभितो गगनं द्यौश् च शिरसः समवर्तत ॥६३॥
दिशः श्रोत्रात् क्षितिः पद्भ्यां त्वत्तः सर्वम् अभूद् इदम् ॥६४॥
न्यग्रोधः सुमहान् अल्पे यथा बीजे व्यवस्थितः ।
संयमे विश्वम् अखिलं बीजभूते तथा त्वयि ॥६५॥
बीजाद् अङ्कुरसम्भूतो न्यग्रोधस् तु समुत्थितः ।
विस्तारं च यथा याति त्वत्तः सृष्टौ तथा जगत् ॥६६॥
यथा हि कदली नान्या त्वक्पत्राद् वाथ दृश्यते ।
एवं विश्वस्य नान्यत्वं तत्स्थायीश्वर दृश्यते ॥६७॥
त्वत्तो जातं विश्वं त्वत्तो भिन्नं न भवतीति दृष्टान्तेनाहयथा त्वचः पत्राद् वा अन्या पृथग्भूता कदली न दृश्यते, एवं त्वक्पत्रस्थानीयात् त्वत्तो विश्वस्य नान्यत्वम् ॥६८॥
ह्लादिनी सन्धिनी संवित् त्वय्य् एका सर्वसंश्रये ।
ह्लादतापकरी मिश्रा त्वयि नो गुणवर्जिते ॥६८॥
यतस् त्वत्स्थायि त्वय्य् एव स्थातुं शीलम् अस्येति त्वत्स्थायि यथा भूतम् एव सन् घटः सन् पट इत्य् एवं दृश्यते, न तु पृथक् । भो ईश्वर सर्वजीवनियामक ! पाठान्तरेष्व् अपि अयम् एवार्थः । ईश्वरत्वम् एव जीवेश्वरवैलक्षण्येन दर्शयन् आहह्लादिनीति । ह्लादिनी आह्लादकरी, सन्धिनी सन्तता, संविद् विद्याशक्तिः । एका मुख्या अव्यभिचारिणी स्वरूपभूतेति यावत् । सा सर्वसंस्थितौ सर्वस्य सम्यक् स्थितिर् यस्मिन् तस्मिन् सर्वाधिष्ठानभूते त्वय्य् एव न तु जीवेषु । या गुणमयी त्रिविधा संवित् सा त्वयि नास्ति ॥६९॥
तान् एवाहह्लादतापकरी मिश्रा इति । ह्लादकरी मनसः प्रसादात् सात्त्विकी । तापकरी विषयवियोगादिषु दुःखकरी तामसी । तदुभयमिश्रा च विषयजन्या राजसी । तत्र हेतुः सत्त्वादिगुणैर् वर्जिते । तद् उक्तं सर्वज्ञसूक्तौ
ह्लादिन्या संविदाश्लिष्टः सच्चिदानन्द ईश्वरः ।
स्वाविद्यासंवृतो जीवः सङ्क्लेशनिकराकरः ॥ इति ।
ऐश्वर्यम् एव विभूतिभिः प्रपञ्चयति । पृथग्भूतैकभूताय, कार्यात्मना पृथग्रूपाय । कारणात्मना चैकरूपाय । भूतभूताय भूतसूक्ष्मरूपाय ॥७०॥
पृथग्भूतैकभूताय भूतभूताय ते नमः ।
प्रभूतभूतभूताय तुभ्यं भूतात्मने नमः ॥६९॥
व्यक्तं प्रधानपुरुषौ विराट् सम्राट् स्वराट् तथा ।
विभाव्यतेऽन्तःकरणे पुरुषेष्व् अक्षयो भवान् ॥७०॥
सर्वस्मिन् सर्वभूतस् त्वं सर्वः सर्वस्वरूपधृक् ।
सर्वं त्वत्तस् ततश् च त्वं नमः सर्वात्मनेऽस्तु ते ॥७१॥
सर्वात्मकोऽसि सर्वेश सर्वभूतस्थितो यतः ।
कथयामि ततः किं ते सर्वं वेत्सि हृदि स्थितम् ॥७२॥
सर्वात्मन् सर्वभूतेश सर्वसत्त्वसमुद्भव ।
सर्वभूतो भवान् वेत्ति सर्वसत्त्वमनोरथम् ॥७३॥
यो मे मनोरथो नाथ सफलः स त्वया कृतः ।
तपश् च तप्तं सफलं यद् दृष्टोऽसि जगत्पते ॥७४॥
श्रीभगवान् उवाच
तपसस् तत्फलं प्राप्तं यद् दृष्टोऽहं त्वया ध्रुव ।
मद्दर्शनं हि विफलं राजपुत्र न जायते ॥७५॥
वरं वरय तस्मात् त्वं यथाभिमतम् आत्मनः ।
सर्वं सम्पद्यते पुंसां मयि दृष्टिपथं गते ॥७६॥
ध्रुव उवाच
भगवन् भूतभव्येश सर्वस्यास् ते भवान् हृदि ।
किम् अज्ञातं तव ब्रह्मन् मनसा यन् मयेक्षितम् ॥७७॥
तथापि तुभ्यं देवेश कथयिष्यामि यन् मया ।
प्रार्थयते दुर्विनीतेन हृदयेनातिदुर्लभम् ॥७८॥
किं वा सर्वजगत्स्रष्टः प्रसन्ने त्वयि दुर्लभम् ।
त्वत्प्रसादफलं भुङ्क्ते त्रैलोक्यं मघवान् अपि ॥७९॥
नैतद् राजासनं योग्यम् अजातस्य ममोदरात् ।
इति गर्वाद् अवोचन् मां सपत्नी मातुर् उच्चकैः ॥८०॥
आधारभूतं जगतः सर्वेषाम् उत्तमोत्तमम् ।
प्रार्थयामि प्रभो स्थानं त्वत्प्रसादाद् अतोऽव्ययम् ॥८१॥
श्रीभगवान् उवाच
यत् त्वया प्रार्थयते स्थानम् एतत् प्राप्स्यति वै भवान् ।
त्वयाहं तोषितः पूर्वम् अन्यजन्मनि बालक ॥८२॥
त्वम् आसीर् ब्राह्मणः पूर्वं मय्य् एकाग्रमतिः सदा ।
मातापित्रोश् च शुश्रूषुर् निजधर्मानुपालकः ॥८३॥
कालेन गच्छता मित्रं राजपुत्रस् तवाभवत् ।
यौवनेऽखिलभोगाढ्यो दर्शनीयोज्ज्वलाकृतिः ॥८४॥
तत्सङ्गात् तस्य ताम् ऋद्धिम् अवलोक्यातिदुर्लभाम् ।
भवेयं राजपुत्रोऽहम् इति वाञ्छा त्वया कृता ॥८५॥
ततो यथाभिलषिता प्राप्ता ते राजपुत्रता ।
उत्तानपादस्य गृहे जातोऽसि ध्रुव दुर्लभे ॥८६॥
अन्येषां दुर्लभं स्थानं कुले स्वायम्भुवस्य यत् ॥८७॥
तस्यैतद् अपरं बाल येनाहं परितोषितः ।
माम् आराध्य नरो मुक्तिम् अवाप्नोत्यविलम्बिताम् ॥८८॥
मय्यर्पितमना बाल किम् उ स्वर्गादिकं पदम् ॥८९॥
त्रैलोक्याद् अधिके स्थाने सर्वताराग्रहाश्रयः ।
भविष्यति न सन्देहो मत्प्रसादाद् भवान् ध्रुव ॥९०॥
सूर्यात् सोमात् तथा भौमात् सोमपुत्राद् बृहस्पतेः ।
सितार्कतनयादीनां सर्वर्क्षाणां तथा ध्रुव ॥९१॥
सप्तर्षीणाम् अशेषाणां ये च वैमानिकाः सुराः ।
सर्वेषाम् उपरि स्थानं तव दत्तं मया ध्रुव ॥९२॥
केचिच् चतुर्युगं यावत् केचिन् मन्वन्तरं सुराः ।
तिष्ठन्ति भवतो दत्ता मया वै कल्पसंस्थितिः ॥९३॥
सुनीतिर् अपि ते माता त्वदासन्नातिनिर्मला ।
विमाने तारका भूत्वा तावत्कालं निवत्स्यति ॥९४॥
ये च त्वां मानवाः प्रातः सायं च सुसमाहिताः ।
कीर्तयिष्यन्ति तेषां च महत्पुण्यं भविष्यति ॥९५॥
श्रीपराशर उवाच
एवं पूर्वं जगन्नाथाद् देवदेवाज् जनार्दनात् ।
वरं प्राप्य ध्रुवः स्थानम् अध्यास्ते स महामते ॥९६॥
स्वयं शुश्रूषणाद् धर्म्यान् मातापित्रोश् च वै तथा ।
द्वादशाक्षरमाहात्म्यात् तपसश् च प्रभावतः ॥९७॥
तस्याभिमानम् ऋद्धिं च महिमानं निरीक्ष्य हि ।
देवासुराणाम् आचार्यः श्लोकम् अत्रोशना जगौ ॥९८॥
अहोऽस्य तपसो वीर्यम् अहोऽस्य तपसः फलम् ।
यद् एनं पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिता ॥९९॥
ध्रुवस्य जननी चेयं सुनीतिर् नाम सूनृता ।
अस्याश् च महिमानं कः शक्तो वर्णयितुम् भुवि ॥१००॥
त्रैलोक्याश्रयतां प्राप्तं परं स्थानं स्थिरायति ।
स्थानं प्राप्ता परं धृत्वा या कुक्षिविवरे ध्रुवम् ॥१०१॥
यश् चैतत् कीर्तयेन् नित्यं धुर्वयारोहणं दिवि ।
सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते ॥१०२॥
स्थानभ्रंशं न चाप्नोति दिवि वा यदि वा भुवि ।
सर्वकल्याणसंयुक्तो दीर्घकालं स जीवति ॥१०३॥
इति श्रीविष्णुपुराणे प्रथमेंऽशे द्वादशोऽध्यायः
॥१२॥
ओ)०(ओ